कन्याभ्रूणस्य भणितिः (संस्कृत-कविता)
* डॉ. हरेकृष्ण-मेहेरः
= = = = = = = = = = = = = =
किं त्वं संत्यजसि संसार-मोहम् ?
असीम-स्नेह-ममतानां भित्ति-भूमिस्त्वम्,
कथं मत्कृते वर्त्तसे भीति-भूमिस्त्वम् ?
मम मरणाय मारणाय वा प्रवर्त्तिताऽसि,
द्वन्द्व-भ्रान्त्या कथं नर्त्तिताऽसि
?
जननी करुणामयी त्वं पावनी
सन्तानानां स्वर्ग-सुखावनी ।
कन्यात्व-हेतोः किं पुत्री मारणीया ?
त्वमपि कन्यासि कस्यापि समादरणीया ।
तर्हि ममोपरि कुलिशपातः कथम्
?
समीहसे किंनिमित्तं गन्तुं दुष्पथम्
?
कया सामाजिक-रीत्या
विधीयते निरपराधाया हत्या मे ?
या सानन्दं विहरति ते गर्भारामे ।
अप्रिया सदा भवति किं वाणी सत्या ?
किं धन्यासि त्वं कन्या-हन्त्री,
धन्यः स सहायको मारयिता
धन्यः स भवतु वा पिता,
धन्या सा वा मारयित्री
?
मृत्युश्चिरन्तनं सत्यम्,
परन्तु बलपूर्वकं प्रत्यपत्यम्
जन्मतः पूर्वं मृत्युः कथं पात्यते
?
किं मम लोतकानां न धार्यते
अन्तर्गलितानां किञ्चिदपि मूल्यम्
?
किं मन्निधनं ते प्रसन्नत्वं साफल्यम्
?
भाति किमिदमतुल्यम्
वात्सल्यं तव शल्यम् ?
नाहं ते नन्दिनी,
त्वत्कृतेऽस्मि नूनं क्रन्दिनी ॥
कथं त्वं कुल-निपातिनी
कन्याविघातिनी महापातक-प्रवर्त्तिनी,
स्वविवेक-शक्त्या आत्मतत्त्वं
नाभिजानासि किं मातस्त्वं
स्वीय-हृदय-कन्दरे भावित-मानवता
सर्वंसहा विद्यसे स्वैर-महोत्सवता ?
सत्कर्मणा पुत्रवत् पुत्री अपि सर्वथा
मातरं पितरं च समुद्धर्त्तुं समर्था ॥
* * *