आधुनिक-संस्कृत-वाङ्मये काव्यधारा
* डॉ. हरेकृष्ण-मेहेरः
‘Ᾱdhunika-Saṁskṛta-Vāṅmaye
Kāvya-Dhārā’
Research Article By : Dr.
Harekrishna Meher
*
Courtesy :
Published in ‘Prāchī Prajñā’, Sanskrit E-Journal (ISSN 2348-8417),
Volume-XII (Year-III),
December 2016): Shodha-Manjusha Section :
Link :
= = = = = = = =
= =
आधुनिक-संस्कृत-वाङ्मये काव्यधारा
* डॉ. हरेकृष्ण-मेहेरः
(This article presents a glimpse of various aspects of
Modern Sanskrit Literature with some main genres of kavya and their examples.
Mahakavya, Khanda-kavya, Lahari-kavya, Giti-kavya, Haiku, Tanka, Sijo, Ghazal,
Free-Verse, Novel, Story etc. are discussed here.)
उपक्रमः
संस्कृतं भाषाजननी-रूपेण सुपरिचितम् । संस्कृतेन सार्धं भारतीय-सभ्यतायाः
भारतीय-संस्कृतेश्च सम्बन्धः नितरामन्तरङ्गो वर्त्तते ।
भारतवर्षस्य प्रान्तीय-भाषाणां साहित्यानि विशेषेण संस्कृत-साहित्य-द्वारा प्रभावितानि लक्ष्यन्ते । भारतीय-साहित्यस्य मूल-तत्त्वं संस्कृतोपरि प्रतिष्ठितम् । संस्कृतमेका
वैज्ञानिक-पद्धति-सम्पन्ना सम्मार्जित-भाषा राजते । आधुनिक-युगे तत्त्वविदां मतेन संस्कृतभाषा सङ्गणक-यन्त्र-(कम्प्युटर्)-निमित्तमुपयोगिनी सर्वोत्तमा भाषा भवितुं शक्यते
। भारतीय-संविधानानुसारं संस्कृतम् आधुनिक-भारतीय-भाषा-रूपेण स्वीकृतमस्ति
। सम्प्रति संस्कृत-विषये विभिन्न-विद्यालय-स्तरादारभ्य विश्वविद्यालयेषु उच्च-गवेषणा-पर्यन्तं विविधतया पारम्परिकाणां पुनः समकालिकानां काव्य-गीत-नाटक-कथादीनां पाठ्यक्रमाः
सन्निवेशिताः सन्ति । अद्यतन-विज्ञान-युगे सङ्गणक-माध्यमेन अन्तर्जाले
संस्कृतस्य विविध-क्षेत्रेषु सहस्राधिकाः लेख-सामग्री-समूहाः समुपलभ्यन्ते । देशविदेशेषु
शताधिकाः संस्कृत-पत्रपत्रिकाः मुद्रित-रूपेण अन्तर्जाल-पत्रिका-रूपेण
च प्रकाशिताः भवन्ति । अन्य-भाषासाहित्य-समूहवत् संस्कृत-साहित्येऽपि निर्वाचित-लेखकेभ्यः केन्द्र-साहित्य-अकादम्या भारतस्य विविध-संस्थाभिश्च वार्षिक-पुरस्कार-सम्मान-प्रदान-व्यवस्था वर्त्तते । प्रसिद्ध-संस्कृत-कविवर्यः आचार्य-डॉ.सत्यव्रत-शास्त्री संस्कृत-भाषायां ज्ञानपीठ-पुरस्कारस्य प्रथम-विजेता विराजते । भारतस्य
विभिन्न-भाषासु संस्कृत-सम्बन्धिताः विविधाः
पुस्तक-शोधलेखाः समुपलभ्यन्ते । आधुनिक-रूपेण संस्कृत-गीत-नाटकादीनि प्रसार्यन्ते । आकाशवाणी-दूरदर्शनादि-माध्यमेन संस्कृत-वार्त्ता-सहिताः विविधाः सांस्कृतिक-कार्यक्रमाः परिवेष्यन्ते । राष्ट्रीय-वैश्विक-स्तरेषु विविधानि
संस्कृत-सम्मेलनानि देशविदेशेषु समनुष्ठीयन्ते । संस्कृतभाषायाम् आदिशङ्कराचार्य-श्रीमद्भगवद्गीता-चलचित्रानन्तरं ‘प्रियमानसम्’-नाम्ना आधुनिकं चलचित्रं प्रसारितम् । संस्कृत-सम्भाषण-शिविरादि-माध्यमेन देशविदेशेषु संस्कृतस्य प्रसार-प्रचाराश्चलन्ति
। विदेशीय-विश्वविद्यालयेष्वपि संस्कृतोपरि नाना-शोधकार्याणि प्रवर्त्तन्ते । कथित-भाषा-रूपेणापि संस्कृतस्य महती भूमिका विद्यते । एवं संस्कृतस्य गतिशीलता
प्रगतिशीलताऽपि दर्शनीया ।
संस्कृते आधुनिक-विषय-प्रसङ्गाः
अद्यावधि संस्कृत-भाषा निरन्तरं प्रवहमाना विलसति । युग-रुच्यनुसारं प्रत्येकस्मिन्
भाषा-साहित्ये किञ्चित् परिवर्त्तनं परिलक्ष्यते । अधुनातने वैज्ञानिक-युगे संस्कृत-साहित्यस्यापि किमपि परिवर्त्तनं स्पष्टमनुभूयते
। केषाञ्चिद् विदुषां मतेन अष्टादश-शताब्द्याः अन्तिम-भागे अथवा ऊनविंश-शताब्द्याः प्रथम-भागे आधुनिक-संस्कृत-साहित्यस्य
प्रारम्भो विचार्यते । संस्कृतस्य बहुमुखी-प्रतिभाशाली कविः
गवेषकः साहित्यशास्त्रकारः आचार्य-अभिराज- राजेन्द्रमिश्रो मतं पोषयति यत् आधुनिक-संस्कृत-साहित्यस्य कालः
त्रिधा विभाजितो भवितुं शक्यते :
पुनर्जागरण-कालः १७८४-१८८४ ख्रीष्टाब्दः, स्थापना-कालः १८८५-१९४६ ख्रीष्टाब्दः, पुनः स्वर्णकालः अथवा स्वर्णयुगः
१९४७ ख्रीष्टाब्दात् आरभ्य वर्त्तमान-पर्यन्तम् (द्रष्टव्या : आचार्य-मिश्र-सम्पादिता साहित्य-अकादमी-दिल्ली-द्वारा प्रकाशिता ‘कल्पवल्ली’, ७-पृष्ठायां प्रदत्ता
नान्दीवाक्) । भारतस्य
स्वाधीनतोत्तर-कालादद्यावधि संस्कृतस्य विशेष-प्रगति-समृद्धि-कारणादेव कालोऽयं स्वर्णयुग-रूपेण विविच्यते । कतिपय-विद्वांसः ‘समकालिकः’, समकालीनः’ अथवा ‘आधुनिकः’ इति शब्दस्य
स्थाने (‘प्राचीन’स्य विपरीतः) ‘अर्वाचीनः’ इति शब्दस्यापि प्रयोगं कुर्वन्ति ।
समकालिक-संस्कृत-साहित्ये युगरुच्या
सार्धमन्य-भाषासाहित्यानां प्रभावादपि कतिपय-नूतन-प्रवृत्तीनां समावेशो परिदृश्यते । आधुनिकी दृष्टिभङ्गी, साम्प्रतिके सङ्घर्षमय-समाजे नाना-समस्याः, तासां समाधानार्थं
मार्गदर्शनम्, जीवनस्य विविधानुभूतयः, नारी-समस्या, नारी-चेतना, नारी-जागरणं, दुर्नीतिः, भ्रष्टाचाराः, राजनीतिक-स्थितिः, राष्ट्र-भावना, देशात्मबोधकता, भारतीय-संस्कृते-र्महनीयता, भौतिक-सभ्यतायाः विविधाः दिशाः, पाश्चात्य-सभ्यतायाः अन्धानुसरणं तज्जन्य-विपर्ययश्च, महानगरनिवासिनां निम्नवर्गीय-जनानां च जीवनधारण-पद्धतिः, उच्च-नीचवर्गेषु सङ्घर्षः, सामाजिकं प्राचुर्यं दैन्यं च, कतिपय-स्थलेषु मान्य-परम्परां प्रति
उपेक्षा, आधुनिकता-परम्परयोः समन्वयः, नवसर्जनायाः समुत्साहः, प्रगतिशील-नव्यशैल्या रचना, सौन्दर्यबोधः, समकालिक-जीवनप्रवृत्तिः, ग्रामीण-जीवनम्,
महाकाव्यादिषु आधुनिकानामादर्श-पुरुष-महिलानां नायक-नायिकात्व-चित्रणम्,
उपन्यास-कथादिषु साधारण-मानवस्य
मुख्यचरित्र-प्रतिपादनं चेत्यादयो विषयाः आधुनिक-साहित्ये चर्चिताः दृग्गोचरीभवन्ति । परम्परावादः अथवा शाश्वततावादः,
आधुनिक-युगानुकूलाः विविधाः रूपकल्पाः,
पाश्चात्यवादस्य प्रभावः,
एकबिम्बवादः, प्रतीकवादः, वास्तववादः, परावास्तववादश्चेत्यादीनि नव्य-तत्त्वानि सन्निवेशितानि परिलक्ष्यन्ते । आधुनिक-जीवने
विषादभावः, मृत्यु-चेतना, संस्कारधर्मिता, सांस्कृतिक-मूल्यबोधः, नैसर्गिक-सामाजिक-परिवेशः, पर्यावरण-तत्त्वम्, वैश्विक-चेतना,
आन्तरराष्ट्रीयता, दार्शनिक-चिन्तनम्, आध्यात्मिकता, धार्मिकता, आस्तिकता, कला-सङ्गीत-दर्शनानां सम्मिश्रणम्, संस्कृते समकालिक-विषय-प्रसङ्गानां प्रयोग-सामर्थ्यं चेत्यादयो नानाविषयाः
आधुनिक-संस्कृत-साहित्ये
समाविष्टाः सन्ति ।
आधुनिकी रचना-शैली :
आधुनिक-दृष्ट्या यदि विचार्यते, आधुनिक-संस्कृत-साहित्यस्य रचनावल्यां
भाषायाः सरलतया सह सुबोधता स्पष्टं समवलोक्यते ।
अत्र जटिलता अथवा क्लिष्टता प्रायो नास्ति । प्रसाद-गुणस्य वैदर्भी-रीतेश्च
बाहुल्यं समनुभूयते । भाषाभिव्यक्तौ किञ्चित्
परिवर्त्तनमपि सञ्जातम् । आधुनिक-युगरुच्यनुकूलं संस्कृत-साहित्यस्य स्वरूपे तस्य रचना-शैल्यामपि भिन्नता दृश्यते,
नूतनता च प्रतीयते । रक्षणशीलतायाः स्वल्प-दूरे
स्थित्वा संस्कृतस्य आधुनिकीकरण-सरलीकरण-माध्यमेन प्रयोजनानुसारं नूतन-शब्दानां संयोजनमपि दृक्पथे
समायाति, येन संस्कृतस्य मूल-स्वरूपे न
काचिद् विकृतिः, न च हानिः स्यात् । कतिपये रक्षणशीलाः लेखकाः
संस्कृते आधुनिक-शब्द-प्रयोगं भिन्नदृशा पश्यन्ति । एवं शब्दं प्रति सुरुचिः अथवा अरुचिः वैयक्तिक-स्तरे एव सीमिता जायते । प्रगतिशीलाः लेखकाः संस्कृतस्य मर्यादां सुरक्षितां
विधाय लेखनी-चालनायां तत्पराः
विद्यन्ते । आधुनिक-युगे नूतन-वस्तूनामुद्भावना आविष्कारश्च, बहुलोक-प्रचलनं च आधुनिक-शब्द-व्यवहारस्य आधाराः वर्त्तन्ते
। अतः संस्कृतेतरासु बहुकथित-भारतीय-भाषासु बहु-प्रचलितानां शब्दानां
संस्कृते प्रयोजनानुसारं यथासंभवं सुरुचिपूर्वकं संस्कृतायित-रूपेण, अपरिवर्त्तित-रूपेण अथवा ईषत्-परिवर्त्तित-रूपेण प्रयोग-करणे नासङ्गतिः प्रतीयते । संस्कृतस्य आधुनिक-प्रयोग-प्रसार-विषये ‘दृक्’-पत्रिकायाः २००५-२००६ - वर्षे प्रकाशितेषु १३-१४-१५-१६-१७-अङ्केषु विशेषेण चर्चा विहितास्ति ।
आधुनिक-साहित्ये अनुप्रासः,
उपमा, यमकम्, रूपकम्, श्लेषः, उत्प्रेक्षा, अर्थान्तरन्यासः, स्वभावोक्तिः, काव्यलिङ्गम्, अपह्नुतिश्चेत्यादयः प्रचलिताः अलङ्काराः
प्रयुक्ताः समवाप्यन्ते । पारम्परिकैः संस्कृत-च्छन्दोभिः सार्धमाधुनिक-रुच्यनुरूपं कतिपय-विदेशीय-च्छन्दसामप्यन्तर्भुक्तिः
साम्प्रतिक-साहित्ये दृक्पथमायाति । भारतस्य अन्यान्य-प्रान्तीय-साहित्यवत् आधुनिक-संस्कृतसाहित्येऽपि
विजातीय-काव्य-विधानां छन्दसां संयोजना
विहितास्ति । यथा,
जापान-देशीयं
‘हाइकु’-छन्दः तान्का’-छन्दश्च, पुनः कोरिया-देशीयं ‘सिजो’-छन्दः । एतानि त्रीणि स्वस्व-गुणानुसारं काव्यविधाः सन्ति, निर्धारित-वर्णक्रमेण सज्जितत्वात् छन्दांसि
अपि कथ्यन्ते । एतानि सर्वाणि संक्षिप्तत्वात्,
सारगर्भकत्वाद् रस-भावोद्दीपकत्वाच्च आधुनिक-संस्कृते अनुकूल-रूपेण
प्राप्तस्थानाः वर्त्तन्ते । एतेषां मिश्रितरूपैरपि आधुनिकाः कविताः प्रणीताः लोक्यन्ते
। उर्दू-पारस्य-भाषागता गजल्-गीतिः, आङ्ग्लभाषायाः
सॉनेट् अर्थात् चतुर्दश-पङ्क्ति-कविता, संस्कृते मौलिकानि स्वोद्भावितानि विविध-मात्रिक-गीतिच्छन्दांसि, कतिपयानां प्रादेशिक-लोकगीतानां छन्दांस्यपि संस्कृते
अन्तर्भुक्तानि सन्ति । हिन्दी-प्रभावात् कुण्डलिया (कुण्डली)-छन्दः, क्षणिका इति कविता-प्रवृत्तिरपि संस्कृते अन्तर्भुक्ता प्रयुज्यते ।
छन्दो-योजना लेखकस्य रुच्यनुरागोपरि निर्भरं
करोति । मुक्तच्छान्दसस्य छन्दोमुक्तस्य वा काव्यस्य बहुलं प्रणयनं साम्प्रतिके संस्कृत-साहित्ये दृष्टिगोचरं भवति । लेखकानां
वैयक्तिक-रुचौ यद्यपि विभिन्नता विद्यते, तथापि पारम्परिकतायाः आधुनिकतायाश्च समन्वयो विशेषं महत्त्वमर्हति ।
ऊनविंश-शताब्द्याः अन्तिम-दशके
आधुनिक-संस्कृत-साहित्ये कविः भट्ट-मथुरानाथ-शास्त्री (साहित्यवैभवम्-ग्रन्थस्य प्रणेता), पण्डिता-क्षमारावः,
(कथापञ्चकम्, शेवधिः, मीरालहरी
चेत्यादीनां कवयित्री) चेत्यादीनां काव्य-कथाकाराणां भूमिका प्रणिधानयोग्या । परवर्त्तिनि काले संस्कृतस्य अनेके प्रतिभाशालिनः
कवयः, जानकीवल्लभ-शास्त्री, बच्चूलाल-अवस्थी, बटुकनाथ-शास्त्री, हरिश्चन्द्र-रेणापुरकरः, रामकरण-शर्मा, सत्यव्रत-शास्त्री, वेदकुमारी-घई, श्रीनिवास-रथः, जगन्नाथ-पाठकः, रेवाप्रसाद-द्विवेदी, हरिराम-आचार्यः, कलानाथ-शास्त्री, रमाकान्त-शुक्लः, अभिराज-राजेन्द्र-मिश्रः, शिवजी-उपाध्यायः, रहसबिहारी द्विवेदी, प्रभुनाथ-द्विवेदी, प्रशस्यमित्र-शास्त्री, हरिदत्त-शर्मा, राधावल्लभ-त्रिपाठी, कृष्णदत्त-शर्मा, केशवचन्द्र-दाशः, इच्छाराम-द्विवेदी, दिगम्बर-महापात्रः, पुष्पा-दीक्षितः, भास्कराचार्य-त्रिपाठी, गोविन्दचन्द्र-पाण्डेयः, हर्षदेव-माधवः, हरेकृष्ण-मेहेरः,
जनार्दनप्रसाद-पाण्डेयः, बनमाली बिश्वालः, रवीन्द्रकुमार-पण्डा, नारायण-दाशः, अन्ये च बहवो लेखकाः
आधुनिक-संस्कृतसाहित्यस्य समृद्धि-गौरव-वर्धनार्थं सहायकाः वर्त्तन्ते ।
संस्कृत-साहित्यस्य आधुनिकं परिदृश्यम् :
प्रस्तुत-लेखस्य मुख्यमुद्देश्यमस्ति आधुनिक-संस्कृत-साहित्यस्य संक्षिप्त-रूपरेखा-समुपस्थापनम्,
विशेषतः काव्य-दिशायाः । भारतीय-भाषासाहित्येषु यद्वत् नाना-साहित्यिक-विभागाः सन्ति, तद्वत्
आधुनिक-संस्कृत-साहित्येऽपि विद्यन्ते ।
पारम्परिकं महाकाव्यम्, खण्डकाव्यम्, गीतिकाव्यम्,
दूतकाव्यम्, चम्पूकाव्यम्, स्तोत्रकाव्यम्, नाटकम्, कथा चेत्याद्याः
रचनाः वर्त्तमान-कालेऽपि प्रणीयन्ते । एतत्सार्धं पूर्वतः अनामिताः विभागाः प्रवृत्तयो वा साम्प्रतिके
साहित्ये अन्तर्भुक्ताः सन्ति । लेखेऽस्मिन् विषयाणामेतेषां सामान्य-विवरण-प्रदानार्थं कृतोऽस्ति प्रयासः ।
आधुनिक-संस्कृत-साहित्यस्य
काव्य-श्रेण्यां महाकाव्यम् (यथा, कवि-सत्यव्रत-शास्त्रिणः बोधिसत्त्व-चरितम्, श्रीराम कीर्त्ति-महाकाव्यं च, रेवाप्रसाद-द्विवेदिनः
स्वातन्त्र्य-सम्भवम्, श्रीधरभास्कर-वर्णेकरस्य शिवराज्योदय-महाकाव्यम्, अभिराज-राजेन्द्र-मिश्रस्य वामनावतरणम्, दिगम्बर-महापात्रस्य सुरेन्द्रचरित-महाकाव्यम्), रागकाव्यम् (राधा
वल्लभ-त्रिपाठिनः गीतधीवरम्), लहरी-काव्यम् (राधावल्लभत्रिपाठिनः धरित्रीदर्शन-लहरी), चम्पू-काव्यम् (जयकृष्ण- मिश्रस्य मातृमुक्ति-मुक्तावली), मौलिक-नूतनच्छन्दोभिः प्रणीतं गीतिकाव्यम् (श्रीनिवास-रथस्य तदेव गगनं सैव धरा, हरेकृष्ण-मेहेरस्य मातृगीतिकाञ्जलिः), लघुकाव्यं
खण्डकाव्यं वा (गोविन्दचन्द्र-पाण्डेयस्य भागीरथी, रामकरण-शर्मणः सर्वमङ्गला),
दूतकाव्यम् (रामचन्द्र-अम्बिकादत्त-शाण्डिल्यस्य कामदूतम्, इच्छाराम-द्विवेदिनः मित्रदूतम्), अन्यापदेश-काव्यम् (अभिराज-राजेन्द्रमिश्रस्य आर्यान्योक्ति-शतकम्, बदरीनाथ-शर्मणः अन्योक्ति-साहस्री), स्तोत्र-काव्यम् (श्रीसुन्दरराजस्य बदरीशतरङ्गिणी, विन्ध्येश्वरीप्रसाद-मिश्रस्य महाकालेश्वरस्तुति-पञ्चरत्नम्), हास्य-व्यङ्ग्य-काव्यम् (प्रशस्यमित्र-शास्त्रिणः हास-विलासः), उपनिषदीयम्
अथवा दार्शनिकं काव्यम् (हर्षदेव-माधवस्य प्रकाशोपनिषद्), नव्यशतक-काव्यम् (हर्षदेव-माधवस्य मृत्युशतकम्), मुक्तच्छन्दोबद्धम्
अथवा छन्दोमुक्तं
काव्यम् (हर्षदेव-माधवस्य निष्क्रान्ताः सर्वे, हरेकृष्ण-मेहेरस्य अस्रमजस्रम्), हाइकु-सिजो-तान्कादि-काव्यम् (हर्षदेव-माधवस्य ऋषेः क्षुब्धे चेतसि, हरेकृष्ण-मेहेरस्य हासितास्या
वयस्या), सॉनेट् अथवा चतुर्दशपङ्क्ति-कविता (वीरेन्द्रकुमार-भट्टाचार्यस्य कलापिका), गजल्-गीतिः अथवा गलज्जलिका (अभिराज-राजेन्द्र-मिश्रस्य मृद्वीका, शालभञ्जिका च), वासरिक-कविता, कब्बाली (काव्याली)-प्रमुखानि लोकगीतानि (कमलेशमिश्रस्य कमलेश-विलासः), प्रहेलिका-काव्यम् (रामाशीष-पाण्डेयस्य प्रहेलिका-शतकम्), विमान-काव्यम् (प्रभाकर-नारायण-कबठेकरस्य भूलोक-विलोकनम्, रमाकान्त-शुक्लस्य वैमानिकम्, अभिराज-राजेन्द्रमिश्रस्य विमानयात्रा-शतकम्), यात्रा-काव्यम् अथवा भ्रमण-काव्यम् (सत्यव्रतशास्त्रिणः
थाइदेश-विलासम्, ओम्प्रकाश-पाण्डेयस्य रसप्रिया पेरिस-राजधानी, रेवाप्रसाद-द्विवेदिनः
अमेरिका), चरित-काव्यम् (रामजी-ठाकुरस्य लीलाशुकीयम्), शिशु-कविता अथवा बाल-कविता (दिगम्बर-महापात्रस्य ललित-लबङ्गम्,
हरिदत्त-शर्मणः बालगीताली, इच्छाराम-द्विवेदिनः बाल-गीताञ्जलिः), सूक्ति-कविता (हरेकृष्ण-मेहेरस्य सूक्ति-कस्तूरिका) चेत्यादीनि विविध-विभाजनानि आधुनिक-दृष्टिभङ्गी-समेतं समुपलभ्यन्ते
।
पारम्परिक-गद्यकाव्यस्य द्विविधं विभाजनं
विद्यते, कथा, आख्यायिका
चेति । एतत्सार्धमाधुनिकाः
नैके विभागाः (विधाः प्रवृत्तयो वा) सन्ति । अत्र वर्त्तन्ते उपन्यासः (यथा रामकरण-शर्मणः रयीशः, केशवचन्द्र-दाशस्य
ऋतम्, कलानाथ-शास्त्रिणः जीवनस्य पाथेयम्, नारायण-दाशस्य वह्नि-वलयः), लघु-उपन्यासः उपन्यासिका वा (राधावल्लभ-त्रिपाठिनः करुणा), दीर्घकथा (अभिराज-राजेन्द्रमिश्रस्य इक्षुगन्धा, बनमालि-बिश्वालस्य जिजीविषा), लघुकथा (केशवचन्द्र-दाशस्य ऊर्मिचूड़ा, बनमालि-बिश्वालस्य बुभुक्षा, प्रशस्यमित्र-शास्त्रिणः अनभीप्सितम्, रवीन्द्रकुमार-पण्डा-कृता छिन्नच्छाया), टुप्-कथा अथवा लघु-लघुकथा, या आङ्ग्ल-भाषायां ‘शर्ट्-शर्ट् स्टोरी’- नाम्ना परिचिता (प्रमोदकुमार-नायकस्य कथा-सप्ततिः), नव्य-कथा (राधावल्लभ-त्रिपाठिनः अभिनव-शुकसारिका), अरण्य-कथा (अभिराज-राजेन्द्रमिश्रस्य
कान्तार-कथा), स्पश-कथा, या आङ्ग्ल-भाषायां ‘डिटेक्टिव् स्टोरी’ इति कथ्यते (जनार्दन-हेगड़े-कृतः व्यूहभेदः, नारायण-दाशस्य हत्याकारी कः), त्रासद-कथा (नारायण-दाशस्य नरेन्द्रपुरीयं रेलस्थानकम्), हास्य-व्यङ्ग्य-कथा (प्रमोदकुमार-नायकस्य उवाच कण्डु-कल्याणः), शिशुकथा
अथवा बालकथा (केशवचन्द्र-दाशस्य एकता, महान्), यात्रा-वृत्तान्तः (दिगम्बर-महापात्रस्य पाश्चात्य-संस्कृतम्) चेत्यादयः । साम्प्रतिके संस्कृते ‘कथा’-शब्द-निमित्तं ‘कथानी’ इति, ‘कथानिका’ इति शब्दोऽपि प्रचलितो दृश्यते ।
आधुनिक-संस्कृत-साहित्यस्य रूपक-श्रेण्यां विद्यन्ते नाटकम् (यथा, रमाकान्त-शुक्लस्य पण्डितराजीयम्), एकाङ्कि-नाटकम् अथवा एकाङ्किका (राधावल्लभ-त्रिपाठिनः प्रेक्षण-सप्तकम्), वीथी-नाटकम् अथवा पथप्रान्त-नाटकम्, यत् आङ्ग्ल-भाषायां ‘स्ट्रीट् प्ले’ इति निगद्यते (अभिराज-राजेन्द्रमिश्रस्य चतुष्पथीयम्), रेडियो-नाटकम् (रमाकान्त-शुक्लस्य नाट्यसप्तकम्, देवर्षि-कलानाथशास्त्रिणः नाट्य-वल्लरी), नृत्य-नाटिका (नलिनी-शुक्लायाः पार्वती-तपश्चर्या), गीति-नाट्यम् (भवालकरस्य पार्वती-परमेश्वरीयम्), शिशु-नाटकम् अथवा बाल-नाटकम् (पण्डा-रवीन्द्रकुमारस्य यो मे भक्तः स मे प्रियः) चेत्यादयो विभागाः । गद्य-साहित्यान्तर्गतायां ‘ललितनिबन्ध’-रचनायां भट्ट-मथुरानाथ-शास्त्री, देवर्षि-कलानाथ-शास्त्री, हृषीकेश-भट्टाचार्यः, परमानन्द-शास्त्री चेत्यादीनां सारस्वत-साधकानां लेखनी स्मरणीया ।
आधुनिक-संस्कृत-साहित्यस्य
गद्य-पद्य-विभागद्वये अनुवाद-साहित्यमपि वर्त्तते
। अत्र सन्ति गोविन्दचन्द्र-पाण्डेयस्य ‘अस्ताचलीयम्’ (आङ्ग्ल-कवितानुवादः), लक्ष्मीनारायण-जोषिणः ‘आङ्ग्ल-रोमाञ्चम्’ (आङ्ग्ल-कवितानुवादः), जगन्नाथ-पाठकस्य ‘गालिब-काव्यम्’, अनन्तत्रिपाठि-शर्मणः ‘यथा ते रोचते’ इति शेक्शपियर-नाटकानुवादः, भागीरथि-नन्दस्य ओड़िआ-भाषातः ‘याज्ञसेनी’-उपन्यासानुवादः, हरेकृष्ण-मेहेरस्य ओड़िआ-भाषातः ‘तपस्विनी’-महाकाव्यानुवादः, नारायण-दाशस्य ओड़िआतः
‘वात्यासारः’-कथानुवादश्चेत्याद्याः कृतयः पाठकसमाजे परिचिताः ।
पारम्परिके काव्यशास्त्र-विभागे मम्मटाचार्य-कृतः ‘काव्यप्रकाशः’, विश्वनाथकविराज-कृतः ‘साहित्यदर्पणः’ इति ग्रन्थद्वयं सुविदितम् । तद्वत् आधुनिक-संस्कृतसाहित्य-विवेचना-पराणि नव्यानि
काव्यशास्त्राणि विरचितानि सन्ति । एषु नवीन-काव्यशास्त्रेषु रेवाप्रसाद-द्विवेदिनः ‘काव्यालङ्कार-कारिका’, अभिराजराजेन्द्रमिश्रस्य
‘अभिराज-यशोभूषणम्’, राधावल्लभत्रिपाठिनः ‘अभिनव-काव्यालङ्कारसूत्रम्’, रहसबिहारी-द्विवेदिनः ‘नव्यकाव्यतत्त्व-मीमांसा’ चेत्यादयो
ग्रन्थाः समुल्लेखनीयाः । एतेषु आधुनिक-काव्य-नाटकोपन्यास-कथादीनां लक्षणादि-विवेचन-समेतं विविधालङ्कारिक-तत्त्वानां
वर्णनमुपलभ्यते । शृङ्गार-हास्य-करुणादि-नवरसैः साकं बहुपूर्वत एव भक्ति-वात्सल्य-रसयोरन्तर्भवनं
दृश्यते । आधुनिक-साहित्ये नव्य-साहित्यशास्त्रिणा
रहसबिहारी-द्विवेदिना ‘राष्ट्रभक्तिः’ इति स्वतन्त्र-रसः
प्रतिपादितोऽस्ति ।
सौन्दर्यतत्त्व-चर्चायां शिवजी-उपाध्यायस्य ‘सौन्दर्यशास्त्रम्’, गोविन्दचन्द्र-पाण्डेयस्य ‘सौन्दर्यदर्शन-विमर्शः’, रेवाप्रसाद-द्विवेदिनः ‘सौन्दर्य-पञ्चाशिका’, हरेकृष्ण-मेहेरस्य ‘सौन्दर्य-सन्दर्शनम्’ चेत्याद्याः कृतयः आधुनिक-दृष्ट्या समुपादेयतां वहन्ति । आधुनिक-नव्यानि छन्दः-शास्त्राणि च प्रणीयन्ते । अभिराज-राजेन्द्रमिश्रस्य ‘छन्दोऽभिराजीयम्’, रामकिशोर-मिश्रस्य ‘छन्दस्कलावती’, हरेकृष्ण-मेहेरस्य ‘मेहेरीय-छन्दोमाला’ चेत्यादयः कृतयः आधुनिक-छन्दो-व्यवहार-दिशायां नव्यनिर्माणस्य नव्य-समुच्चारणस्य च विशेषत्वं
प्रदर्शयन्ति । आधुनिक-संस्कृते काव्य-प्रणयनविषये कवि-गवेषक-साहित्यशास्त्रिणः आचार्य-अभिराज-राजेन्द्रमिश्रस्य मतं प्रणिधेयम् । वर्त्तमान-युगस्य संस्कृतकाव्य-रचना-प्रसङ्गे
रक्षणशीलतायाः शैथिल्यं विधाय आचार्य-मिश्रेण आधुनिक-लेखकवर्गं प्रति प्रोत्साहाः प्रदत्ताः । स्वीये ‘अभिराज-यशोभूषणम्’ इति नव्य-साहित्यशास्त्र-ग्रन्थे तेन विशदमभिव्यक्तम् :
‘हाइकु-तानका-सीजो-सॉनेट-लीरिकादयः ।
काव्यभेदा विजातीयाः प्रणीयन्तेऽधिसंस्कृतम् ॥
आदानं च प्रदानं च सम्भवत्येव साम्प्रतम् ।
नैकभाषा-नदीष्णेषु सत्सु संस्कृत-सूरिषु ॥
कवयो नावरोद्धव्या एवंप्रणयिनस्ततः ।
अभिनन्द्यस्तदुत्साह इत्यभिराज-सम्मतम् ॥’
(प्रकीर्णतत्त्वोन्मेषः, कारिका १११-११३, पृ.३१७)
आचार्य-मिश्रस्य
आशयः एवं भवति यत् साम्प्रतिके साहित्ये कतिपयाः विजातीयाः काव्यविधाः हाइकु-तानका-सीजो-सानेट्-लीरिक्-प्रभृतयो व्यवह्रियन्ते । अनेन प्रयोगेण अनेकभाषा-प्रवीणेषु विद्वत्सु परस्परं सारस्वत-भाव-विनिमयः सम्भवति । ये कवयो हाइकु-प्रभृति-काव्यविधाराजिमाश्रित्य कवितां रचयन्ति, तेषामुत्साहः
अभिनन्दनीयः, तेषां कृते बाधा न विधेया । वस्तुतः प्रवीण-साहित्यशास्त्रिणः आधुनिक-युगचेतनया सह आधुनिकी दृष्टिभङ्गी
लेखकानां कृते आन्तरिकीं बह्वीं प्रेरणां प्रयच्छति ।
आधुनिक-संस्कृत-साहित्यस्य कतिपयाः प्रमुख-विधाः
साम्प्रतिक-संस्कृत-साहित्यस्य विस्तारः अत्यन्त-विपुलः । सविनयं निवेद्यते यत् प्रस्तुते सीमिते लेखे सकल-वर्गाणामुदाहरण-परिवेषणं न सम्भवति । अत्र पाठकानां
समवगत्यर्थं विविध-विभागानां स्वल्पानि उदाहरणानि प्रदीयन्ते
। तानि मुख्यरूपेण मूल-पुस्तकेभ्यः, सङ्कलित-पुस्तकेभ्यः, विविध-पत्रपत्रिकाभ्यः,
समीक्षा-ग्रन्थेभ्यश्च साभारं गृहीतानि सन्ति ।
* महाकाव्यम् :
आधुनिक-संस्कृत-साहित्ये पारम्परिक-शैल्याऽपि
महाकाव्यानि प्रणीयन्ते । अत्र परन्तु प्रसङ्गानुकूलानां सामाजिक- विषयाणामाधुनिकतायाश्च स्पर्शः समनुभूयते । कवि-सत्यव्रतशास्त्रिणः ‘श्रीगुरुगोविन्दसिंह-चरितम्’ इति महाकाव्यम्
एका समुल्लेखनीया कृतिः । इन्द्रवज्रा-वंशस्थोपजात्यादिभिः पारम्परिकै-र्विविधैश्छन्दोभिः प्रणीतमिदं
महाकाव्यम् । उदाहरणस्वरूपम्, महादेव-रुद्रेण सह, महाभारतीय-धनुर्धर-वीरेण अर्जुनेन सहापि उपमां प्रदाय शिख-धर्मगुरोः श्रीगुरुगोविन्द-सिंहस्य वीरत्व-वर्णन-प्रसङ्गे
कविना निगदितम् :
‘गुरुस्तदा रुद्र इव प्रजानां / संहार-काले भयमादधानः ।
बाणान् प्रवर्षन् परितः प्रसर्पन् / चञ्चद्-द्विजिह्वानिव भीमरूपान् ॥
एको बहूनात्त-धनु-र्मनस्वी / व्यनाशयत् तीव्र-बलेन वीरः ।
गाण्डीव-धन्वेव रिपोश्चमूनां / चकार घोरं कदनं स तत्र ॥’ (श्रीगुरुगोविन्दसिंह-चरितम्)
कवि-हरिनारायण-दीक्षितस्य ‘भीष्मचरितम्’-महाकाव्यात् समानीतमेकमुदाहरणम् । सामाजिक-परिवेशे पुत्रीं प्रति हेया दृष्टिः
कदापि न विधेया । उभयोः पुत्र-कन्ययोः यथासम्भवमुत्तम-लालन-पालनं शिक्षा-प्रदानमप्यावश्यकं भवति । प्रसङ्गतः उपेन्द्रवज्रेन्द्रवंशामिश्रितेन
उपजाति-छन्दसा रचिते श्लोके कवेरभिप्रायो
व्यक्तः इत्थम् :
‘सुपाठनीयाः सुतवत् सुताऽपि / भेदो विधेयो न च तत्र कश्चन ।
गार्हस्थ्य-यानस्य कृते ह्युभाविमा-/वावश्यकौ स्तो रथचक्र-सन्निभौ ॥’
(भीष्मचरितम्/ दृक्, २४-२५ अङ्क, पृ.१९९)
पण्डित-प्रभुदत्त-शास्त्रिणः ‘गणपति-सम्भवम्’-महाकाव्यात् पद्यमेकं
प्रस्तूयते । काव्येऽस्मिन् कथास्ति यद्यपि पौराणिकी, तथापि आधुनिक-भारतस्य गणतन्त्र-व्यवस्थाऽपि अत्र
सङ्केतिता । गणपति-प्रशासन-चित्रण-माध्यमेन कविना भारतवर्ष-प्रशासनस्य मार्गदर्शन-प्रयासः संलक्ष्यते । जनगणस्य आन्तरिकाभिलाषः कवि-लेखन्यां व्यक्तीकृत इव प्रतीयते । शार्दूलविक्रीड़ित-छन्दसा प्रणीते श्लोक-द्वये कविः कथयति :
‘यस्मिन् दूषक-मूषकोऽपि न भजेन् मृत्युं क्षुधा-पीड़ितः /
किं यः स्यान् मनुजो गजेन सदृशो नेता समाजस्य वा ।/
हस्ते मोदकवान् परं च कमलान्निर्लिप्ततां द्योतयेत् /
पर्शुं दुष्ट-कृते स ते त्वभयितां दध्यादिदं शासनम् ॥’
(गणपति-सम्भवम्, ९म सर्ग/ दृक्, अङ्क-१, पृ.२८)
कवेः
अभिराज-राजेन्द्र-मिश्रस्य ‘जानकीजीवनम्’-महाकाव्यादेकमुदाहरणम् । रामायणीय-कथामवलम्ब्य कविना आधुनिक-रूपेण सीतादेव्याः जीवन-चरितं वर्णितम् । प्रसङ्गक्रमेण वंशस्थ-छन्दोयोजनया रचिते श्लोके भवन-वर्णना नितरां मनोहारिणी भाति, एकावली नामालङ्कारोऽपि
दर्शनीयः । कवेरभिव्यक्तौ :
‘न तद् गृहं यन् न विकीर्ण-गीतकं / न गीतकं व्यायत-मूर्च्छनं न यत् ।
न मूर्च्छनं यन् न रसाक्त-वाचिकं / न वाचिकं यन् न सुधा-सहोदरम् ॥’ (जानकीजीवनम्, २/७)
कवि-सुभाष-वेदालङ्कारस्य ‘अमेरिका-वैभवम्’ इति महाकाव्यतः
प्रस्तूयते श्लोकः एकः । कविना आत्मनः अमेरिका- यात्रा-सम्बन्धिनी विवरणी अत्र वर्णिता । अमेरिकायाः अटलाण्टा-नगर-वर्णनायां शिखरिणी-छन्दोबद्धं पद्यमीदृशम् :
‘अहो दृष्टं रम्यं नगरमटलाण्टेति विदितं /
समागत्याकाशादनिल-चपलाद्यानत इह ।
विमानानां भव्यं स्थलमिदमहो दृष्टि-पतितं /
विशालं सच्चैतन् ननु सुरमणीयं सुखकरम् ॥’ (अमेरिकावैभवम् / दृक्. २८-२९ अङ्क, पृ.१०४)
* खण्डकाव्यम्, लघुकाव्यम्
:
आधुनिक-संस्कृते
खण्डकाव्यस्य लघुकाव्यस्य वा प्राचुर्यं समनुभूयते । अस्मिन् प्राकृतिक-वर्णनया सार्धं मानवानां प्राणिनां च विविधानामनुभूतीनां
दशानां च सरसं चित्रणं समवलोक्यते । उदाहरण-स्वरूपमत्र कवि-गोविन्दचन्द्र-पाण्डेयस्य ‘भागीरथी’-काव्यतः प्रस्तूयते शिशिर-प्रभातस्य मनोरम-दृश्यमेकम् । उपमोत्प्रेक्षालङ्कार-सम्मिश्रणेन इन्द्रवज्राछन्दसा प्रणीते श्लोके
वर्णनं विद्यते एवंभूतम् :
‘प्राभातिकः शैशिर आतपोऽयं / हासो यथा हर्षित-बालकानाम् ।
पद्मायते विश्वमिदं समन्तात् / आलोकपायीनि विलोचनानि ॥’ (भागीरथी, पृ.७७)
कवि-सत्यव्रत-शास्त्रिणः
‘शर्मण्यदेशः सुतरां विभाति’ इति खण्डकाव्यादेकं
पद्यम् । कविना
‘जर्मनी’-शब्दस्य कृते संस्कृते ‘शर्मण्य’-शब्दस्य प्रयोगः कृतः । अस्य देशस्य शस्यभूमि-पुष्करिण्यादीनां मञ्जुल-चित्रणे उपजाति-छन्दोबद्धः एकः श्लोकः प्रस्तुतोऽस्ति एवम् :
‘अकृष्टपच्यं खलु यत्र शस्यं / हृद्यास्तथा शाद्बल-भूमिभागाः ।
दीर्घाश्चकासत्यथ दीर्घिका सः / शर्मण्यदेशः सुतरां विभाति ॥’ (शर्मण्यदेशः सुतरां विभाति)
कवि-रामकरण-शर्मणः ‘सर्वमङ्गला’-कविता-सङ्कलनायाः अन्तर्गतात् ‘निरुत्तर-शतकम्’ इति काव्यतः
प्रस्तूयते उदाहरणमेकम् । मानस-विहारशीलस्य राजहंसस्य क्षुद्र-जलाशये विचरणम्, पुनः काकस्य मानस-सरोवरे सौख्यमय-विहारश्चेत्यादेः योग्यायोग्यता-विचारणा अत्र प्रणिधानमर्हति । पञ्चचामर-छन्दसा प्रणीतं सम्पृक्तं
पद्यमीदृशम् :
‘विरौति राजहंस एष पल्वले विचक्षणः
परन्तु वायसः सुखं समेधतेऽत्र मानसे ।
किमस्ति कृत्रिमः क्रमोऽथवाऽस्त्ययं निसर्गजः
समादधानि किं कथं भवाम्यहं निरुत्तरः ॥’ (निरुत्तर-शतकम्)
कवि-दिगम्बर-महापात्रस्य ‘रुषिया-शतकम्’-काव्यतः
एकमुदाहरणमुपस्थाप्यते । रुषिया-देशस्य कला-स्थापत्यानां नितरामाकर्षणीय-सौन्दर्यवर्णनमत्र श्लोके वर्त्तते । वसन्ततिलकाछन्दसा विरचितं तत्पद्यमित्थम्
:
‘किं वर्णयानि रुषियां बहुरङ्ग-युक्तां
स्थापत्य-चित्रबहुला खलु यत्र शालाः ।
सप्राणवत्-प्रतिकृति- प्रचया विभान्ति
हट्टे चतुष्पद-तटे स्फुटमेव वाटे ॥’ (रुषिया-शतकम्/ दृक्, अङ्क-२८-२९, पृ.१०२)
* गीतिकाव्यम् :
वैदिकसाहित्यस्य सामवेदात् गीतेर्गीतस्य वा परम्परा
सुप्रतिष्ठिता । पारम्परिक-गीतिषु वर्णच्छन्दोबद्धानि
मात्राच्छन्दोबद्धानि च पद्यानि प्राप्यन्ते । आदिशङ्कराचार्यस्य ‘चर्पट-पञ्जरिका-स्तोत्रम्’ (भज गोविन्दम्), कवि-जयदेव-प्रणीतं काव्यं ‘गीतगोविन्दम्’ चेत्यादीनि जन-समाजे अद्यापि विशेषेण लोकप्रियतां वहन्ति । आधुनिक-साहित्ये गीतिकाव्यस्य नैकं विभाजनं कर्त्तुं
पार्यते, पारम्परिक-वर्णच्छन्दोबद्धा गीतिः, पारम्परिक-मात्राच्छन्दोबद्धा
गीतिः, आधुनिक-मौलिक-स्वोद्भावितैः मात्राच्छन्दोभिः प्रणीता गीतिश्चेत्यादिकम्
। उदाहरणानि
कतिपयान्यत्र परिवेष्यन्ते ।
आधुनिक-गीतिकवेः श्रीनिवास-रथस्य
‘तदेव गगनं सैव धरा’ इति कविता-सङ्ग्रहात् कियदंशः समुल्लेखनीयः । आधुनिक-समाजे कलुषित-जीवनस्य दुर्गति-राजिं परिलक्ष्य कविना दुःखित-चेतसा निगदितं यत् जीवन-लता पत्रविहीना कण्टक-बहुला च सञ्जाता, पुनः पुष्पाणां प्रस्फुटनं तु बहुदूरम्
। कवि-श्रीरथस्य अभिव्यक्तौ पद्यमिदम् :
‘विपत्रितेयं जीवन-लतिका,
केवल-कुटिल-कण्टकाकलिता, दूरे कुसुम-कथा ।
सूर्ये तपति तमिस्रा प्रभवति, भवति नयनमयथा ॥ **
युगानुरूपोपाय-चिन्तने, भवति सर्वदा हृदय-मन्थनम् ।
न केवलं कैकेयी-वचनाज्जगाम रामो वृथा वा वनम्
।
समय-रक्षणं शिलाऽपि कुरुते,
रामायणे यथा ॥’ (विपत्रिता)
नदीमातृकायाः भारतभूम्याः महनीयता-वर्णनायां कवि-रमाकान्त-शुक्लस्य
देशात्मबोधकं गीतं ‘भाति मे भारतम्’ इत्यस्य प्रस्तूयते कियदंशः
। पारम्परिक-स्रग्विणी-छन्दसा रचितेषु
पद्येषु कवेः कथनमित्थम् :
‘जाह्नवी-चन्द्रभागा-जलैः पावितं, भानुजा-नर्मदा-वीचिभि-र्लालितम् ।
तुङ्गभद्रा-विपाशादिभि-र्भावितं, भूतले भाति मेऽनारतं भारतम् ॥
यत्र मन्दाकिनी पाप-संहारिणी, यत्र गोदावरी चारु-सञ्चारिणी ।
देववाणी च यत्रास्ति मोदाकुला, भूतले भाति तन्मामकं भारतम् ॥’ (भाति मे भारतम्)
कवि-हरिदत्त-शर्मणः ‘उत्कलिका’ इति गीति-सङ्कलनायाः ‘ईदृशो भवेयम्’ - गीतितः कतिपयं पद्यं प्रस्तूयते । बाधा-विघ्नाभ्यन्तरेऽपि
मानवस्य सुख-शान्तिमय-जीवनयापनं कामयमानः
कविः मार्मिकं निगदति एवंरूपेण :
‘इच्छामि जीवनं तत्, यस्मिन् सुखं वसेयम् ।
वाञ्छामि सुस्थलं तत्, स्वैरं यतः श्वसेयम् ॥
ईर्ष्यानले न दाहः, हृदि मे सुधाप्रवाहः,
निष्कारणं विरोधे निजवैरिणं शमेयम् ॥
विपदां भवन्तु वाताः, बहुदुःख-शोकघाताः,
कुसुमास्तरण इवाहं कण्टक-पथे चलेयम् ॥’
(ईदृशो भवेयम्/ कल्पवल्ली, पृ.४५१-४५२/ नखदर्पणः,
पृ.२२-२३)
कवि-भास्कराचार्य-त्रिपाठिनः ‘वसन्त-माधुरी’-कवितायाः कियदंशः परिवेष्यते । कुसुमानां मधुरिमा, प्राकृतिक- विभावानां
वर्णाली चेत्यादि-प्रसङ्गे कवेर्लेखनी सुन्दरं चित्रयति एवंप्रकारकम्
:
‘पुष्प-कोरकेषु नीलिमा विलोक्यते, कीदृशी वसन्त-माधुरी ।
सरांसि वापि-पल्वलानि, नक्र-बाष्प-सङ्कुलानि,
पङ्क-सङ्करेण सावनी विधीयते, कीदृशी वसन्त-माधुरी ॥
तुषार-झञ्झया चिरस्य, चेष्टितं तथा विहस्य,
वर्ण-भिन्नता तृणे तृणे विराजते, कीदृशी वसन्त-माधुरी ॥’ (वसन्त-माधुरी/ कल्पवल्ली, पृ.३५७)
मानव-जीवनस्य सांसारिकमनुभूतिराशिं वर्णयतो हरेकृष्ण-मेहेरस्य स्वोद्भावित-मौलिक-मात्राच्छन्दोबद्धात् मातृगीतिकाञ्जलिः’ इति गीतिकाव्यात् कियदंशः प्रस्तूयते । नैसर्गिक-सौन्दर्य-सम्पन्नस्य भारतवर्षस्य स्वाधीनतां राष्ट्रचेतनां च विचार्य कवेरभिव्यक्तिरित्थम् :
‘अम्बुधि-विधौत-सुमधुर-चरण-विलासा,
गङ्गा-सलिले सलील-सुललित-हासा ।
कुसुमारामे रसभर-सुरभि-समीरा,
तरुवर-पुञ्जे रञ्जित-मञ्जु-शरीरा ।
विहङ्ग-ताने मङ्गल-गाने
श्यामल-शस्या विजयते,
भारतमाता परम-नमस्या विजयते ।
स्वतन्त्रताया रणवीराणां सफल-तपस्या विजयते ॥’
(देश-गीतिका/ मातृगीतिकाञ्जलिः, पृ.११३)
देवर्षि-कलानाथशास्त्रिणः ‘नवयुग-शिशोः स्वागतम्’ इति कवितायाः
कतिपय-पद्यानि प्रस्तूयन्ते । नवसहस्राब्द्याः
प्रारम्भे लब्धजनिं मानव-शिशुं प्रति सम्बोधनात्मिकायामस्यां
गीत्यां कवेरभिव्यक्तिः समुत्साहप्रदा । आधुनिक-ज्ञान-विज्ञानानां सदुपयोगं कृत्वा स शिशुः संसारे शान्ति-समृद्धिं
समानेष्यति, प्राच्य-सदाचार-प्रतिष्ठां करिष्यति इति कवे-र्मनसि आशा वर्त्तते । तस्य
मात्राच्छन्दोबद्ध-पद्यरूपायां वर्णनायाम् :
‘वर्षसहस्राणां विज्ञानं चरतु तवाद्य नु
दास्यम्,
प्राचां सच्चरितान्यनुहर रे यच्छ्रेयस्तदुपास्यम् ।
प्राक्तन-बीजै-र्नवपल्लविनीं
फलिनीमृद्धिं जित्वा,
निखिल-धरणितल-लभ्य-ज्ञाननिधेः सुफलानि च चित्वा ॥
आरोक्ष्यसि तुङ्गं प्रासादं यं स्रष्टुं वाञ्छामः ।
यस्याधार-भित्ति-निर्माणायाद्य
वयं श्राम्यामः ॥’
(नवयुगशिशोः स्वागतम्/ कल्पवल्ली, पृ.२८१)
कवि-दिगम्बर-महापात्रेण उत्कलीय-लोकनृत्ये प्रयुक्तैः कतिपय-च्छन्दोभिः व्यङ्ग्य-कवितानां प्रणयनं कृतम् । तस्य ‘व्यस्तरागम्’-कविता-सङ्ग्रहात् प्रस्तुतमस्ति एकमुदाहरणम् । पक्वकेश-वरेण साकं कुमारी-कन्यायाः परिणय-प्रसङ्गे गीतिमये पद्ये कवेः कथनमीदृशम् :
‘रोदिति रहो दुहिता / सदने जननी सदा चिन्तिता / एष्यति कदा जामाता ॥
वारि नास्ति वारिवाहे / जामाता भवति पलित-केशः/
कुमारी क्रन्दति गृहे ॥’ (व्यस्तरागम्, पृ.४४/ श्रद्धा,अङ्कः ३-४, पृ.९१)
* लहरी-काव्यम् :
लहरी-काव्यं खण्डकाव्यस्यान्तर्गतं भवति, राग-काव्यं च । गायन-योग्यत्वात्
गीतिकाव्येऽपि द्वयोरेतयोरन्तर्भवनं समीचीनम् । आधुनिक-काव्यशास्त्री
आचार्यः अभिराज-राजेन्द्र-मिश्रः मतं पोषयति
यत् लहरी-काव्यस्य
प्रतिपाद्यं लहरीवद् भवति । समुद्रे यथा लहर्यः परस्परं संलग्नाः विद्यन्ते, भङ्गीराशिं जनयन्त्यः अभिन्नाः
प्रतीयन्ते, तद्वत् लहरी-काव्ये
भक्ति-शृङ्गारादि-विषयाः अन्य-प्रवृत्तयश्च
परस्पर-भिन्नत्वेऽपि मूलभावं परिपोषयन्ति (द्रष्टव्यम् : अभिराज-यशोभूषणम्, पृ. २२६) । पारम्परिक-काव्येषु आदिशङ्कराचार्यस्य सौन्दर्य-लहरी, पण्डितराज-जगन्नाथस्य गङ्गा- लहरी, करुणा-लहरी लक्ष्मी-लहरी चेत्याद्याः सुपरिचिताः । आधुनिक-संस्कृते पण्डिता-क्षमाराव-कृतं ‘मीरा-लहरी’-काव्यमुल्लेखनीयमस्ति, यत्र कृष्णोपासिकायाः मीरायाः
जीवनगाथा वर्णिता ।
लहरी-शब्देन
सम्पृक्तं काव्यं समुद्र-लहर्या अथवा नौकया सार्धं सर्वदैव
सम्बद्धं स्यादिति विषयो न भवति । प्रस्तुत- प्रसङ्गे कवि-राधावल्लभत्रिपाठिनः ‘लहरीदशकम्’ इति काव्यात् पङ्क्तिरेका
उदाह्रियते । विमानयात्रावेलायां
नभसः उपरिभागात् निम्नस्थितां पृथिवीं विलोक्य कविना स्वानुभूतिः प्रकाशिता । मन्दाक्रान्ता-छन्दोबद्धं पद्यमेकमीदृशम् :
‘गत्वा चोर्ध्वं वियति विपुलेऽसौ विमानो ललम्बे
निःस्तब्धत्वं गत इव यथा विस्मृत-श्वास आसीत् ।
नो संसर्पन् नियतगमनः पृष्ठतश्चाग्रतो वा
विश्वामित्र-प्रतिहत-रयः संपतन् वा त्रिशङ्कुः ॥’ (धरित्रीदर्शन-लहरी)
विविध-साहित्येषु नदी-समुद्र-नौका-नाविकादि-सम्बद्धानि नैकानि गीतानि दृक्पथमवतरन्ति ।
आधुनिक-संस्कृतेऽपि तादृशानि गीतानि भवन्ति । यथा, कवि-त्रिपाठिनः ‘गीतधीवरम्’ इति काव्यात्
पङ्क्तिरेका प्रस्तूयते :
‘लहरीषु मया गीति-र्लिखिता, रचिता नूतन-शब्दतरी ।
छन्दःसु मया जगती रचिता, कलिता नूतन-भाव-झरी ॥’ (धीवर-गीतयः)
अपरमेकं नौका-सम्बद्धमुदाहरणं तस्मादेव कवि-त्रिपाठिनः
गीतिकाव्यात् :
‘नौकामिह सारं सारम्, गन्तास्मि कदाचित् पारम् ।
उत्तीर्णः स्यामपि मन्ये, पारावारमपारम् ॥’ (गीत-धीवरम्)
कवि-हरिराम-आचार्यस्य ‘मधुच्छन्दा’-कविता-सङ्ग्रहात् ‘कैवर्तक-गीतम्’ इत्यस्य कियदंशः
प्रस्तूयते । जीवनं
समुद्रस्य जल-धारा-रूपेण
वर्णयता कविना नाविक-मुखे प्रकाशितम् :
‘जीवनमस्माकं रे, सागर-जलधारा ।
स्पन्दनमस्माकं रे, सागर-जलधारा ॥
वरुणालय-गमनं नो - हैया हो हैया,
नौकानामयनं नो - हैया हो हैया,
अशनं नो वसनं नो, रात्रौ सुख-शयनं नो,
धरतीयं धात्रीव सागर-जलधारा ॥’
(कल्पवल्ली, पृ.२६२-२६३ / दृक् २४-२५ अङ्कः, पृ.१०२)
* संस्कृत-हाइकु-कविता :
हाइकु-कविता-संरचनायां ५-७-५-वर्णक्रमो भवति । कविः हर्षदेव-माधवः आधुनिक-संस्कृतसाहित्ये हाइकु-छन्दसः प्रथम-प्रवर्त्तकः स्वीक्रियते । त्रिपादयुक्तं
हाइकु-छन्दस्तेन बिल्वपत्र-रूपेण चित्रितम् । कवेर्माधवस्य ‘ऋषेः क्षुब्धे चेतसि’ (हाइकु-तान्का-सिजो-कविता-सङ्ग्रहः)-काव्यात् हाइकु-कवितायाः नैसर्गिक-चित्रसम्पन्नं
रम्यमुदाहरणमेकम् :
‘उद्याने ज्योत्स्ना / विगलितं सौन्दर्यं / पारिजातानाम् ॥’ (‘ऋषेः क्षुब्धे चेतसि’, पृ. ५५)
सामाजिक-समस्यामधिकृत्य हरेकृष्ण-मेहेरस्य ‘हासितास्या वयस्या’ (हाइकु-सिजो-तान्का-सङ्कलना) इति काव्यात् हाइकु-कवितायाः उदाहरणमेकं प्रस्तूयते । वात्या-ग्रस्तानां कृते प्रदत्तानां सहायता-राशिद्रव्याणां धूर्त्तगण-कृतं लुण्ठन-विषयमुद्दिश्य कवेरुक्तिरेवम् :
‘आयाति वात्या / गृध्राणां मधुमासः/ अर्था उड्डीनाः ॥’ (हाइकु-कविताः/ हासितास्या वयस्या)
प्रयागतीर्थे कुम्भस्नान-जनितं पुण्यलाभ-पापनाश-प्रसङ्गं
समानीय रचिता कवि-बनमालि-बिश्वालस्य एका
हाइकु-कविता एवंप्रकारा :
‘ददाति पुण्यं / त्रायते कृतपापं / प्रयागे स्नानम् ॥’ (महाकुम्भलहरी, ‘पद्यबन्धा’ अङ्क-२-३, पृ.१००)
सम्प्रति अन्तर्जालयुगे सङ्गणक-यन्त्रमधिकृत्य एका हाइकु-कविता कवि-नारायण-दाशस्य लेखनीतः
समुपस्थाप्यते : ‘आन्तर्जालके / प्रीति-मेल-पत्रकम् / ईहे मूषकः ॥’ (‘पद्यबन्धा’ अङ्क-२-३, पृ.१०३)
* संस्कृत- तान्का-कविता :
तान्का-कविता-संरचनायां भवति ५-७-५-७-७-वर्णक्रमः । इयं तान्का हाइकु-छन्दसः सम्प्रसारणमेकमिति वक्तुं शक्यते । निसर्ग-सौन्दर्य-वर्णनायां कवि-हर्षदेव-माधवस्य
तान्का-कवितायाः मञ्जुलमुदाहरणमेकम् :
‘सर्षप-क्षेत्रम् / पीतपुष्प-रञ्जितं / भाति सुन्दरम् ।/ लग्नोत्सुक-कन्यायाः / हरिद्रासिक्तं गात्रम् ॥’
(‘ऋषेः क्षुब्धे चेतसि’, पृ. ६८) ।
तस्यैव कवि-माधवस्य अपरैका दीप-प्रणय-विषयिणी
तान्का प्रस्तूयते :
‘भाति युवतिः / दीपावली-दीपानां / द्युति-मण्डिता ।
प्रज्वलिते च नेत्रे / प्रियतम-स्नेहेन
॥’
(‘ऋषेः क्षुब्धे चेतसि’, पृ. ५८)
तान्का-कवितायाः उदाहरणमेकं
हरेकृष्ण-मेहेरस्य ‘हासितास्या
वयस्या’-काव्यात् । साम्प्रतिक-समाजे बाह्य- चाकचक्यं पुनराभ्यन्तर-शून्यतां च निरीक्ष्य कवेरभिव्यक्तिरेवंविधा
:
‘कर्गज-पुष्पं / मध्येमार्गं मञ्जुलं / निर्गन्धं भाति । /
आधुनिकी सभ्यता / उपभोग्य-दर्शना ॥’ (तान्का-कविताः/ हासितास्या वयस्या) ।
अपरमेकमुदाहरणं कवेर्मेहेरस्य लेखनीतः । आधुनिके यान्त्रिक-युगे अनिवार्य-वस्तुरूपा विद्यते चल-दूरभाषिका । तद्यन्त्र-प्रसङ्गमानीय एका तान्का-कविता प्रस्तूयते :
अपरमेकमुदाहरणं कवेर्मेहेरस्य लेखनीतः । आधुनिके यान्त्रिक-युगे अनिवार्य-वस्तुरूपा विद्यते चल-दूरभाषिका । तद्यन्त्र-प्रसङ्गमानीय एका तान्का-कविता प्रस्तूयते :
‘जगन्मोहिनी / वशीकरोति
विश्वं / प्रकामं काम्या / भ्राम्य-दूरभाषिका / स्वाधीन-भर्त्तृकेव ॥’
(तान्का-कविताः/ हासितास्या वयस्या) ।
अत्राशयः
एवं यत् स्वाधीनभर्त्तृका नायिका स्वमोहिनी-शक्त्या यथा स्वामिनं सदा स्ववशं नयति, तथा चल-दूरभाषिका अर्थात् मोबाइल्-फोन् साम्प्रतं निज-सम्मोहिन्या
विश्वं अर्थात् सर्वं ग्रहीतारं वशीभूतं करोति
। नायिका स्वामिनः प्रणयानुरागेण समभिलषिता भवति, इतो दूरभाषिकाऽपि ग्रहीतु-र्जनस्य नितान्तमीप्सिता ।
* संस्कृत- सिजो-कविता :
सिजो-कविता-संरचनायां ८-७-८-७-८-७-वर्णक्रमो विद्यते । सिजो-कवितायाः प्रस्तूयते
पङ्क्तिरेका कवि-हर्षदेव-माधवस्य काव्यात् । यातायात-सङ्कुले संसारे जीवनस्य क्षणिकमनित्यं दुःखं विचार्य मानवस्य कृते सान्त्वनां
प्रदाय कविः कथयति :
‘वृक्षेभ्यः कानि पर्णानि / पतितानि शीर्णानि ? / नदीभ्यः कानि जलानि / आगतानि गतानि ? /
त्वमेव मूढ़ ! रोदिषि / लघुकानि दुःखानि ॥’ (‘ऋषेः क्षुब्धे चेतसि’, पृ.७२) ।
सिजोकवितायाः
अन्यदुदाहरणं कवेर्माधवस्य । स्वस्य जागतिकीं स्थितिं कल्पयता कविना कथ्यते
:
‘इयं नौका किं नेष्यति / मां गाढ़-जलपारम् ?/ विचिन्तयामि मनसा / इत्थं किं वारंवारम् ? / कदा पर्यन्तं स्थास्यामि / पश्यन् मां निराधारम् ? ॥’ (ऋषेः क्षुब्धे चेतसि’, पृ. ७४)
सिजो-कवितायाः एकमुदाहरणं
हरेकृष्ण-मेहेरस्य काव्यतः । जगत्यां कुकर्मणां
कुपरिणामः समयानुसारं नूनं भुज्यते । समाजे धूर्त्तानां लोकधन-शोषकाणां भ्रष्टाचारिणामवस्था शोचनीया भवत्येव । विषयेऽस्मिन् कवेरभिव्यक्तिरियम् :
‘चूषति दुर्नय-लिप्तः / वित्तं लोक-सञ्चितम् । / विधृतः कारा-पतितः ।/ उत्कण्ठितो मत्कुणः / जाग्रतस्य रसास्वादी / पादेन व्यापादितः ॥’ (सिजो-कविताः/ हासितास्या वयस्या) ।
आधुनिकतायाः
परम्परायाश्च समन्वय-विषयमधिकृत्य अपरैका सिजो-कविता कवि-मेहेरस्य लेखन्याः प्रस्तूयते : ‘आधुनिकता-प्रसूनम् / परम्परा-वल्लर्याः / भित्तिवारि-संवर्धिता / अभिनवा प्रसूतिः/ मौलिकता-सुरभिता / युगरुचि-स्फुरिता ॥’ (सिजो-कविताः/ हासितास्या वयस्या)
* संस्कृत -गजल् (गलज्जलिका) :
उर्दू-गजल्-गीति-प्रभावात् आधुनिक-संस्कृते
गजल्-गीतिः स्वान्तमोहक-रूपेण लभ्यते । मात्रासंख्या-भेदेन गजल्-गीतिः बहुप्रकारा
। नव्य-काव्यशास्त्रिणा आचार्य-अभिराज-राजेन्द्रमिश्रेण संस्कृत-गजल्-गीतिः ‘गलज्जलिका’-नाम्ना नामितास्ति
। तस्य त्रिवेणीकवेः मत्तवारणी’ इति गजल्-काव्य-सङ्कलनायाः कियदंशः प्रस्तूयते । साधारण-मानवस्य परोपकारितादि-समुदात्त-भावनायाः सामाजिक-समुपादेयता-प्रसङ्गे कवेः षोड़श-मात्रिका गलज्जलिका प्रणिधेया
:
‘नाहमस्मि सूर्यो, दीपोऽहम्, मनोराज्य-धरणीपोऽहम् ॥
सिन्धोरिव न च मे विस्तारः, सर्वसुलभ-मृदुजल-कूपोऽहम् ॥
चन्दनवन-सुरतरुरपि नाहम् , घनच्छाय-जनपथ-नीपोऽहम् ॥
अलमिह मम निष्ठा परीक्षया, तनुमपि दास्यामि दिलीपोऽहम् ॥’ (मत्तवारणी)
कवयित्र्याः
दीक्षित-पुष्पायाः ‘लोकोऽयम्’ इति
गजल्-गीतेः कियदंशः उदाहरण-स्वरूपम् । सामाजिक-व्यापारे प्रेमिजनं प्रति उदासीनता,
साधुजनं प्रति मूर्खस्य शत्रुताचरणं चेत्यादि-विषयाणां
प्रसङ्गे तस्याः गीतोक्तिरेवंविधा :
‘जने प्रेमप्लुते ताटस्थ्यमाबध्नाति लोकोऽयम् ।
तटस्थे प्रीतिमाधातुं सयत्नो भाति लोकोऽयम् ॥
अवैरे सज्जने निष्कारणे वैरायते मूढ़ः,
जने दुर्दान्त-दौरात्म्त्ये कुलीनो भाति लोकोऽयम् ॥’ (लोकोऽयम्, कल्पवल्ली, पृ.३९५)
कवेः
इच्छाराम-द्विवेदिनः ‘धनुस्ते कीदृशम्’ इति प्रणय-परकायाः गजल्-गीतेः कतिपय-पङ्क्तयः समास्वादनीयाः
। शर-सन्धानं
विनापि प्रेमासक्तं हृदयं कीदृशं क्षताक्तं भवति, तत् कवेरभिव्यक्तितो ज्ञायते । उदाहरण-स्वरूपम् :
‘धनुस्ते कीदृशं कियदद्भुतं बन्धो ! कथं जाने ?
विना नाराच-सन्धानं व्रणं कुरुते कथं जाने ?
मया शास्त्रे श्रुतं मन्दस्मितै-र्नन्दन्ति सत्पुरुषाः,
मनो न दूयते ते सुस्मितै-र्बन्धो ! कथं जाने ?’ (धनुस्ते कीदृशम्, कल्पवल्ली, पृ.५७०)
कवि-बच्चूलाल-अवस्थिनः गजल्-गीतेः एकमुदाहरणं
प्रस्तूयते । साम्प्रतिके समाजे मानवस्य वचने आचरणे च कीदृशी भिन्नता दृश्यते,
कवि-कृतौ सा प्रतिफलिता इत्थम् :
‘अर्जितानां समर्जनं भूयः । नार्जवं किन्तु कर्जनं भूयः ॥
अद्य केयं दशास्ति मेघानां , वर्षणं नैव गर्जनं भूयः ॥
भस्मसाद् भावयन्ति का हानिः, भर्जितस्यैव भर्जनं भूयः ॥
व्याकुलोऽर्थः क्व याति क्व चिन्ता, शब्दजालस्य सर्जनं भूयः ॥’ (अभिराज-यशोभूषणम्, पृ.२९३)
कवि-जगन्नाथ-पाठकस्य ‘पिपासा’-काव्याद् एकस्याः
गजल्-गीतेः कियदंशः परिवेष्यते । निःसङ्गतायाः
अपरेषां च सम्बन्धानां विषये कविना वर्ण्यते :
‘सार्धं न हन्त कोऽपि गतः सर्वतो मया । आसादितो न कोऽपि निजः सर्वतो मया ॥
एकाकिनो जनस्य हि दिवसा न यान्त्यमी, एवं च यापितो दिवसः सर्वतो मया ॥
आत्मीयतां गतेऽपि सकलेऽपि कोऽप्यहो, नैव श्रुतो मदीय-जनः सर्वतो मया ॥’
(पिपासा/ अभिराज-यशोभूषणम्, पृ.२९५)
कवि-जनार्दनप्रसाद-पाण्डेयस्य एका गजल्-गीतिः प्रस्तूयते । आधुनिके कलियुगे राजनीतिक-परिवेशे
कृष्णगीतां धृत्वा मिथ्या-शपथकारिणां हरिनाम-विस्मरणकारिणां च कृते कविना सकटाक्षं निगदितम् :
‘केवलं श्रोत्रविनोदं विचिन्त्य सत्कुरुषे ।
गीतिका तेऽस्मि शताब्द्या न पक्ष्मभिश्चिनुषे ॥
कृष्णगीताऽपि वृता हा ! त्वयाऽनृते शपथे ।
गोखुराङ्कस्थ-जलाब्धौ निपत्य न म्रियसे ॥
राजनीतेस्तु महापङ्किले विलास-रसे ।
प्राप्त-निर्वाण-सुखस्त्वं प्रभुं न चेतयसे ॥’ (अभिराज-यशोभूषणम्, पृ.२९६)
* मुक्तच्छान्दस-कविता :
मुक्तच्छान्दसं
काव्यम् अथवा छन्दोमुक्ता कविता अन्य-प्रान्तीय-भाषासाहित्येषु यद्वत् समुपलभ्यते, आधुनिक- संस्कृतसाहित्येऽपि
विपुलं दृष्टिपथमवतरति । लौकिक-संस्कृते आधुनिक-संस्कृते च पारम्परिक-दृष्ट्या प्रायः पिङ्गल-श्रुतबोध-छन्दोमञ्जरी-वृत्तरत्नाकर-प्रभृतिषु
छन्दःशास्त्रेषु प्रतिपादितै-र्विविधैरार्यादि-मात्राच्छन्दोभिः अनुष्टुप्-वंशस्थ-स्रग्विणी-शिखरिणी-प्रभृति-वर्णच्छन्दोभिश्च प्रणीताः श्लोक-रूपाः कविताः विलोक्यन्ते
। आधुनिक-संस्कृत-साहित्यस्य अन्यदेकं विशेषत्वं
भवति मुक्तच्छन्दसः प्रयोगः । विषयेऽस्मिन् सामान्य-चर्चा समीचीना
।
विदेशीय-साहित्यानां
भारतीय-प्रान्तीय-साहित्यानां च प्रभावेण
आधुनिक-संस्कृत-साहित्ये मुक्त-च्छन्दसाऽपि रचिताः कविताः समवलोक्यन्ते
। नाट्यशास्त्रकारेण भरतमुनिना साधु वर्णितम् :
‘छन्दोहीनो न शब्दोऽस्ति न च्छन्दः
शब्दवर्जितम् ।
तस्मात्तूभय-संयुक्ते नाट्यस्योद्योतके
स्मृते ॥’ (नाट्यशास्त्र, १४/४०) ।
नाट्यशास्त्रस्य
उक्तिमेतामवलम्ब्य आधुनिक-काव्यशास्त्री अभिराज-राजेन्द्र-मिश्रः मतं पोषयति यत् पद्येतरे गद्येऽपि छन्दोमयता
विद्यते । उभयोः गद्य-पद्ययोः रसवत्ता-भरितं
भवति छन्दोमुक्तं काव्यम् । गद्य-पद्ययो-र्द्वयो-र्जीवातुं धारयति छन्दोमुक्तं वाङ्मयम्, यत् पद्यात्मक-लय-द्वारा गद्य-विधायां लिख्यते
। छन्दोमुक्तं काव्यं वस्तुतो लयवाहि गद्यमेव । आङ्ग्ल-भाषायामेतद्
‘रिद्मिक् प्रोज्’ इति कथ्यते ।
(द्रष्टव्यम्: अभिराज-यशोभूषणम्, पृ. ३०२-३०३)
मुक्तच्छन्दोबद्धा
कविता प्रायः उपधामिलन-रहिता भवति । अस्याः प्रत्येक-पङ्क्तिः असमान-वर्णसंख्याका
। व्यक्तिरुच्यनुसारं पुनः व्यवहित-रूपेण अव्यवहित-रूपेण च मित्राक्षरयुक्तः अर्थात् उपधामिलन-सहितोऽपि भवति मुक्तच्छन्दोव्यवहारः । उदाहृत-पङ्क्तिषु एवंभूत-प्रयोग-स्पष्टता समनुभूयते । कवेः अभिराज-राजेन्द्र-मिश्रस्य ‘चर्चरी’-‘कविता-सङ्ग्रहात् प्रस्तुतमस्ति
एकमुदाहरणम् :
‘अभिलषामि यद् राज्ञा पृष्टोऽहमपि / जाबालि-श्रावितां / मदात्मकथां / समुपवर्णयेयं / शापमुक्तश्च भवेयम् । / म्रियेत शूद्रकः / जीवेच्चन्द्रापीड़ः / विलसेत् कादम्बरी / म्रियेत शुक-शावको / जीवेद् वैशम्पायनो / विलसेन् महाश्वेता / अभिलषामि ॥’ (अभिलाषः, कल्पवल्ली, पृ.३७१-३७२)
कवेः
रेवाप्रसाद-द्विवेदिनः ‘अहं स्वतन्त्रः’ इति कवितायाः
कियदंशः । साम्प्रतिक-समाजे स्वाधीनता-नाम्ना प्रवर्त्तित-स्वेच्छाचार-विषये कविः सव्यङ्ग्यं कथयति :
‘अहं स्वतन्त्रः/ परं निन्दितुं / यदि वात्मानं स्तोतुम् / तर्पयितुं मम मानस-गृध्रं / पोषयितुं मम कायम् / धातुमात्र-संकायम् ॥/ अहं स्वतन्त्रः / परस्य कण्ठे करपत्रं चालयितुं / अर्थः सिध्यतु न वा मदीयः / परस्य मार्गं रोद्धुं/ जन-नेतृत्वं बोद्धुं / बहुमत-लब्ध्यै यथाकथञ्चित्/ कूटगवीमपि दोग्धुम् ॥’ (अहं स्वतन्त्रः, कल्पवल्ली, पृ.२४८)
कवि-कमलेशदत्त-त्रिपाठिनः ‘योरोपा’-कवितायाः प्रस्तूयन्ते
कतिपय-पङ्क्तयः । पाश्चात्य-देशे सुख्यातायाः
वीनस-देव्याः प्रसङ्गमाश्रित्य
कविः जिज्ञासां प्रकाशयति :
‘योरोपे ! काऽसि त्वम् ?/ ** रोमकवीराणां प्रवेशैः / परिकम्पितानां सौधानां शिखरेषु / उपर्युपरि
सञ्चरन्ती तन्वी / दुग्ध-धवलाङ्गानि
वहन्ती / माधुर्य-रससार-समुद्र-तरङ्गभङ्गीव / वीनसाख्या
देवी / सविस्मयं विलोकिता / अपि नाम
सैवाऽसि त्वम् ?’ (योरोपा/ नखदर्पणः, पृ.२८)
रात्रि-वेलायाः
विविध-स्वरूपवर्णने कवि-केशवचन्द्र-दाशस्य ‘ईशा’-कवितासङ्कलनात्
कियदंशः एवम् :
‘रजनी विजनीभवति / एकाकिनी गृहिणीव / हेमन्तस्य शिशिर-बिन्दवे / तारका करकायते/ व्यथा कथामारभते / अवितथं प्रथयितुम् / यथाकथञ्चित् / समाप्ति-सोपाने / रेलस्थाने /
जन-सम्मर्दस्य उत्थाने पतने ॥’
(रजनी विजनीभवति) ।
स्वीय-जागतिक-स्थिति-विषये कवि-दाशस्य ‘ईशा’-कवितासङ्ग्रहाद्
अन्यदेकमुदाहरणम् :
‘नाहं निक्षिप्त-कन्दुकः/ प्रत्यागमिष्यामि / भूतलं संस्पृश्य / परमेको मिमिलिषुः / आषाढ़स्य़ बिन्दुः ॥’ (ईशा)
कवि-हर्षदेव-माधवस्य ‘कृषीबलः’ - कवितायाः कियदंशः । कृषकस्य सामाजिक-दुर्दशां तस्य महनीयतां च निरीक्ष्य कविः हृदयस्पर्शि-रूपेण वर्णयति :
‘कृषीबलः स्वभाग्यं वपति / दुर्भाग्यं प्ररोहति ।/ * तस्य नत-कन्धरयोरस्ति / देशस्य श्वस्तन-सूर्योदयः / यदा कृषीबलः पञ्चत्वं गमिष्यति / तदा भविष्यति सः / जलद-भारनतं व्योम / सूर्यस्य मसृणातपः / तिलपुष्प-सुरभिहरः पवनः / इक्षुदण्डानां रसः / अपि च प्रथम-वर्षास्पर्श-पुलकिता / क्षेत्र-मृत्तिका ॥’ (निष्क्रान्ताः सर्वे, पृ.१३१-१३२)
कवि-माधवस्य
‘प्रकाशोपनिषद्’ इति दार्शनिक-काव्यात् प्रकाशस्य विविधवर्णात्मक-चित्रण-विषये प्रस्तूयते एकमुदाहरणमेवम्
:
‘अरुणाभा-स्नाता
/ प्रकाश-करुणा / स्नापयति
माम् । / पाटलोज्ज्वला द्युतिः/ मण्डयति
मे मृत्तिकाम् ।/ तड़ित्-पिशङ्गा तेजोरतिः
/ रञ्जयति मे तमः । / आकाशगङ्गा-धवलार्चिमाला / गमयति गगनं मे प्राणान् ॥’ (प्रकाशोपनिषद्)
हरेकृष्ण-मेहेरस्य
‘जीवनालेख्यम्’-काव्यस्य ‘अन्धानुसन्धानम्’-कवितायाः एकमुदाहरणम् । आधुनिके कलुषिते समाजे नारी-दुर्दशा-वर्णनेन सार्धं
कविना रामायण-महाभारत-गतानां खल-चरित्राणामवतारणा कृतास्ति । साम्प्रतिक-युगेऽपि नारीमर्यादाहानि-विषये कवेरभिव्यक्तिरीदृशी :
‘अद्यापि भ्रमन्ति रावणाः / बहुवैदेही-हरण-प्रवणाः ।/ कुर्वन्ति
द्रुतमुपद्रवं जयद्रथाः / पर-दारापहरणार्थं
समारूढ़-रथाः ॥/ बाष्पपूर्णाश्चतुश्पद्यः
/ अद्यापि खिद्यन्ते समुपद्रुता द्रौपद्यः । / शरव्या दुःशासनानाम् / केशकर्षण-धर्षण-लालसानाम् । / भीष्मास्तु
तूष्णीकृत-वर्ष्माणो ह्यनुष्णाः / अपेक्षन्ते
कदा रक्षिष्यन्ति श्रीकृष्णाः ॥’ (अन्धानुसन्धानम्/ संस्कृतमञ्जरी, अप्रैल्
२००७)
अन्यदेकमुदाहरणम् उपधामिलन-सहितायाः मुक्तच्छान्दस-कवितायाः हरेकृष्ण-मेहेरस्य ‘मौनव्यञ्जना’-काव्यतः
। मौनस्य अभिव्यक्ति-सामर्थ्य-विषये कवेः
कथनमीदृशम् :
‘नीरवताया अपि भाषाऽस्ति, / न कोऽपि शिक्षयति न वा शास्ति । / ब्रवीति नीरवता / कदा हृदयस्य गोपनीय-कथाम् / अन्तःस्थलस्य सुप्त-व्यथाम् / यया भाव्यते सहृदयस्य भाववत्ता ॥’ (मौनव्यञ्जना/
लोकभाषासुश्रीः, फेब्रुआरी-मार्च २००६)
कवि-बनमालि-बिश्वालस्य ‘प्रियतमा’-कवितासङ्कलनायाः कियदंशः प्रस्तूयते । फाल्गुन-मासे सायंकालस्य कवरी-कुसुम-सौरभस्य चानुभवेन मिलन-समयागमनं सूच्यते इति कवेः कथनमेवंप्रकारकम्
:
‘फाल्गुनस्य सन्ध्या यदा / नमेत क्वचिद् दूरे / दिग्वलये / गन्धं घ्रात्वा कवरीपुष्पस्य / प्रियतमे ! / ज्ञातुं प्रभवामि / उपगता मिलनस्य वेला / प्रस्फुरणं मदीये / दोलायिता च /
मे प्रीतिदोला ॥’ (प्रियतमा)
समयक्रमेण मानव-जीवने कैशोर-तारुण्य-प्रोढ़त्वादि-विषये कवि-बिश्वालस्य ‘प्रौढ़:’-कवितायाः
कतिपय-पङ्क्तयः इत्थम् : ‘विस्मृत्य न विस्मृत्य कैशोरं / निवर्त्तते ब्रह्मचर्यं धीरं / जीवन-कपाटे कुत्र / शृणोम्यहं यौवनस्य मृदु-कराघातम् । / मन्मनोमन्दिरे / कस्य प्राप्य करस्पर्शं / देहो मम अभवदवशः । / जनैरुद्घोषितम् / अयमद्य सञ्जातोऽस्ति प्रौढ़ः ॥’ (प्रौढ़ः)
कवि-रवीन्द्रकुमार-पण्डा-रचितात्
‘बलाका’-कवितासङ्ग्रहात् छन्दोमुक्ताः कतिपय-पङ्क्तयः निजास्तित्व-स्वरूप-वर्णना-प्रसङ्गे एवम् :
‘नाहमस्मि नेता /
सर्वनियन्ता । / नाहमस्मि द्विजिह्वः /
न च मे क्षमता । / अहमस्मि कविः / रसानन्द-दाता । / नाहं सर्प इव
भयङ्करः । / न सम्पत्तिर्मम, न च काचित्
सत्ता । / अहमस्मि प्रवक्ता ॥’ (बलाका) ।
अनेक-रूपक-माध्यमेन मनस्तत्त्व-विषये
पुनः पण्डा-कवेः वर्णनमित्थम् : ‘मनः निदाघस्य मेघः।/ मनः चैत्रस्य पवनः ।/ मनः श्रावणस्य वारिधारा ।/
मनः वसन्तस्योपवनम् ।/ मनः हेमन्तस्य हिमालयः ।/
मनः शीतस्य रजनी ॥’ (नीरवझरः/ नखदर्पणः, पृ.९५)
* गद्यविभागे उपन्यासः, कथा
:
भारतीय-भाषासाहित्येषु गद्यविभागे उपन्यासस्य स्वतन्त्रमेकं महत्त्वपूर्णं स्थानं
विद्यते । संस्कृतस्य पारम्परिके
गद्यकाव्यस्य कथा-विभाजने कवि-बाणभट्ट-कृता ‘कादम्बरी’ सुविदिता
। परन्तु प्रचलित-संस्कृत-साहित्यस्य इतिहासे उपन्यास-विभागस्य अनस्तित्वात् सा उपन्यास-रूपेण न परिचितास्ति
। आधुनिक-दृष्ट्या विचारानुसारं वस्तुतः कादम्बरी एको
बृहदुपन्यासो वर्त्तते । आधुनिक-संस्कृते कथाख्यायिकयोः मिश्रित-रूपम् उपन्यास-नाम्ना चर्चितम् ।
प्रसङ्गतः कवि-कथाकारस्य केशवचन्द्र-दाशस्य ‘अञ्जलिः’-उपन्यासात् सामाजिक-समस्यापरकं जीवन-मूल्यबोध-द्योतकं
विषयमुद्दिश्य कतिपय-पङ्क्तयः एवम् :
‘दहनं साधारणीकृत्य रात्रिः तया व्यतीता । विषयो विमृष्टः । विवादो विचारितः । समाधानमन्विष्टम् । आत्मा अवबुद्धः । उपायः चिन्तितः । परं कालाधारे सर्वमद्य शिथिलम् ॥’ (अञ्जलिः, पृ.४६) ।
दार्शनिकता-प्रसङ्गे औपन्यासिक-दाशस्य ‘ऋतम्’-उपन्यासात् कियदंशः । मधुरबिम्ब-योजनया कविः वर्णयति : ‘नदी झरीयति, झरी च नदी भवति । स्रोतस्तु यथातथा । उपचये श्रीमती सहस्रधारा । अपचयेऽपि तथैव श्रीधारा । वहने क्षालन-प्लावनयोः अद्वैत-प्रतीतिः । नदीयं केवलं क्षालयति, पावयति । इयं हि चेतना-नदी ॥’ (ऋतम्)
कथाकार-प्रभुनाथ-द्विवेदिनः ‘रुचिवैचित्र्यम्’-कथायाः उदाहरणमेकम् । विविधोपमानानां
चित्रणेन सार्धं नारी-रूप-कल्पनायां सुन्दराभिव्यक्तिरित्थम् :
‘त्वया तु काचिदपूर्वा सकल-गुणालङ्कार-भूषिता पूर्णचन्द्र-यामिनीव, पञ्चमहाभूत-सत्त्वांश-समष्टिरिव, निरवद्य-सौन्दर्य-सृष्टिरिव, सकल-सुधावृष्टिरिव, दुग्धफल-मिष्टिरिव, कनकावदात-यष्टिरिव, सफलीभूत-मदनोत्सवेष्टिरिव काम्यते कामिनी प्रसाद-सदना भामिनी ॥’ (रुचिवैचित्र्यम्/ अन्तर्ध्वनिः)
कथाकार-बनमालि-बिश्वालस्य ‘नीरव-स्वनः’ इति लघुकथा-सङ्कलनात् सामाजिक-सन्दर्भे
‘पितृप्राणः’-कथायाः कियदंशः एवम् : ‘नासा तु रक्त-रञ्जिता । चक्षुषः चतुःपार्श्वे सुदीर्घः कज्जल-प्रलेपः । चित्रिता टोपिका । तुलया भृतं नासा-रन्ध्रम् । ईदृशो विचित्र-वेशयुक्तो मातृप्राणः यदा मञ्चोपरि आयाति, तदा बालबृद्ध-वनिताः सर्वे दर्शकाः अट्ट-हास्यैः तस्य स्वागतं विदधति ॥’ (नीरवस्वनः, पृ.१७) ।
प्रस्तुतेऽत्र सीमित-लेखे विभिन्न-विधानां समस्त-ग्रन्थानामुदाहरणानां च परिवेषणं न सम्भवति
। अत एव विविधा
रचनावली सुविधानुसारमन्यत्र
सुधीभिरन्वेषणीया, द्रष्टव्या
समास्वादनीया च ।
आधुनिकतायां मूल्यबोधः, सौन्दर्यम् :
प्रत्येक-भाषायां निजस्वं व्याकरणं,
गठन-पद्धतिः, लेखन-चातुरी, साहित्यिक-तत्त्वानि, अन्य-सहायक-विभावाश्च स्वतन्त्र-रूपेण भवन्ति
। एतत् सर्वं कदापि नोपेक्षणीयम् । आधुनिकतायाः प्रभावात्
संस्कृते कतिपय-विदेशीय-च्छन्दांसि अन्तर्भुक्तानि सन्ति । एतत्कारणात् संस्कृतस्य मूल-स्वरूपे स्वतन्त्रतायां मर्यादायां च नास्ति कस्याश्चिदपि हानेरवकाशः । एतत् सर्वं सहायक-रूपेण समकालिकीं सामाजिकीं साहित्यिकीं सांस्कृतिकीं च रुचिं समवलम्ब्य प्रवर्त्तितम्
। आधुनिकतायाः प्रसङ्गे कविकुलगुरोः कालिदासस्य उक्तिरियं स्मरणीया :
‘पुराणमित्येव न साधु सर्वं / न चापि काव्यं नवमित्यवद्यम् ।
सन्तः परीक्ष्यान्यतरद् भजन्ते / मूढ़ः पर-प्रत्यय-नेय-बुद्धिः ॥’
(मालविकाग्निमित्रम्, प्रस्तावना, १/२)
कवि-कालिदासस्य आशयः एवं यत् पुरातनत्वात् सर्वं
पुरातनम् उत्तममेव भवतीति विषयो नास्ति ।
नव्यत्वात् सर्वं नव्यं काव्यं वस्तु वा हेयं सदोषं वा भवतीति
विषयोऽपि नास्ति । विवेकी उत्तमाधमयोः
सम्यग् अनुशीलनं
कृत्वा उत्तममेव
गृह्णाति । परन्तु मूढ़ः स्वविचार-सामर्थ्याभावाद् अन्य-द्वारा स्वीयां बुद्धिं परिचालयति ।
प्रसङ्गतः कवि-कृष्णानन्दस्य ‘सहृदयानन्दम्’-महाकाव्यस्य पद्यमेकमपि समुल्लेखनीयम् :
‘प्रत्नस्य काव्यस्य च नूतनस्य / तुल्यः स्वभावः प्रतिभासते मे ।
मृजाभिरेते निपुणैः कृताभिः / समश्नुवाते हि गुणान्तराणि ॥’ (सहृदयानन्दम्, १/५)
कवि-कृष्णानन्दस्य वक्तव्यमिदं यत् काव्यं पुरातनं
भवतु अथवा नूतनम्, उभयोः स्वभावः समान-रूपेण
एव प्रतीयते । एतत् काव्यद्वयं
प्रवीणै-र्विद्वज्जनैः
सम्मार्जितं संस्कारितं भूत्वा समुत्कर्षं लभते ।
आधुनिक-साहित्यस्य नैके लेखकाः पुरातनं पारम्परिकं वा विषयवस्तु समाश्रित्य
तस्मिन् मूल्यबोधसम्पन्नं नव्यं समकालिकं
रूपं संयोज्य काव्यादिकं रचयन्ति, साम्प्रतिके समाजे लोकप्रियाश्च वर्त्तन्ते ।
युगेन साकं समतालं विधाय
सकारात्मकेन नूतन-रूपमाध्यमेन प्रवृत्तं
साहित्यं समाजस्य हितकरं गौरवसम्पन्नं च भवति । वास्तवता-कल्पनाविलासयोः समन्वयेन साहित्यस्य
कलेवरं परिपुष्टं जायते । वास्तवतावत् कल्पना-विलासेऽपि
जीवनानुभूतयो गर्भिताः भवन्ति । जीवनेन सह साहित्यस्य,
साहित्येन सह समाजस्य,
समाजेन सह
देशस्य, देशेन सह विश्वस्य परस्परं भावसम्बन्धश्चिरन्तनो
विद्यते । अतः साहित्यं सर्जनात्मकं संरचनात्मकं चोपादानं समादाय समाजस्य नूनं
कल्याणकरं स्यात् । साहित्ये नकारात्मकं चिन्तनं
कुप्रभावं पातयति समाजोपरि । संस्कृते सदैव विश्वजनीनं मङ्गलमयं सौन्दर्यमयं शान्तिमयमानन्दमयं च तत्त्वजातं निहितमस्ति
।
आधुनिकता-विषये प्रसिद्ध-संस्कृत-कवे: आचार्य-रामकरण-शर्मणः मतमित्थम्
:
“आधुनिकतायाः अर्थः ‘अप्राच्यता’ न भवति । पूर्वं पश्चिमम्, उत्तरं दक्षिणम्, स्वर्गः, पातालम् – यस्मादपि सुरुचिपूर्णं शाश्वतं सौन्दर्य-तत्त्वं यत् सम्प्राप्यते, सहृदयानां कृते
शब्दचित्र-माध्यमेन तस्य विसर्जन-करणमेव
उत्तमं कविकर्म भवति । निरर्थको वर्ग-सङ्घर्षः, हिंसा, यौनोच्छृङ्खलता चेत्यादीनां पोषकं यथार्थमपि सुन्दरं न भवति । ईदृशात् मिथ्या-यथार्थवादात् दूरे स्थातव्यम्
। अभिधात्मकः आदर्शवादोऽपि सम्भवतः काव्य-कोट्यां नायाति ।”
(दृक्, अङ्क-१, १९९९, पृ.१०३-१०४)
आधुनिकं भवतु वा पुरातनम्, कस्य कृते कीदृशी कविता प्रिया, अथवा कीदृशं काव्यं, नाटकं गद्यं वा प्रियं प्रतीयते, विषयोऽयं वैयक्तिक-रुचेरुपरि समाश्रितो भवति । वैयक्तिक-रुच्यनुसारं सौन्दर्यबोध-प्रसङ्गोऽपि समायाति
। नैसर्गिक-विभावेषु, सर्वेषु
कार्य-गुणाचरणादिषु च सौन्दर्यं समनुभूयते । प्रसङ्गानुसारं
सौन्दर्यानुभूति-विषये पद्यान्येतानि स्मरणपथं समायान्ति
:
‘सत्यं शिवं सुन्दरमत्र लोके / प्रसिद्धमेतत् त्रितयं विभाति ।
जानाति नित्यं खलु तत्त्वदर्शी
/ नाज्ञाय किञ्चित् स्वदते मनोज्ञम् ॥
मन्नेत्रयो-र्यत् प्रतिभाति सुन्दरं / त्वन्नेत्रयोस्तन् न भवेत् तथाविधम् ।
यदन्य-नेत्रे रुचिरं प्रपश्यतस् / तथैव नैतन् मम ते च नेत्रयोः ॥
परन्तु किञ्चिद् भुवि वस्तु विद्यते / विचित्रमेवं रचितं विधात्रा ।
यद् वै जनानां जगतां समेषां / नेत्राणि पश्यन्ति सदैव सुन्दरम् ॥’
(सौन्दर्य-सन्दर्शनम्/ श्रद्धा, अङ्क ३-४, पृ.१०४)
तात्पर्यमेतद् भवति यत् काव्यं भवतु, अपरं वस्तु वा भवतु, तत् सर्वं द्रष्टुः भोक्तु-र्वा स्वस्व-दृष्टिभङ्ग्या रुचिकरम्
अरुचिकरं वा, सुन्दरम् असुन्दरं वा समनुभूयते । संसारे सत्य-शिव-सुन्दर-संज्ञकं तत्त्वत्रयं तत्त्वदर्शी एव हृदयङ्गमं कुरुते । अज्ञ-जनाय नान्दनिकं तत्वं न रोचते । अहं त्वं सः चेति जनत्रयस्य प्रसङ्गोऽत्र समायाति । मम नयनयोः यत् सुन्दरं
भाति, तव नयनयोः तत् तथैव सुन्दरं भवेत्,
ईदृशो विषयो न भवति । अन्यजनस्य (तृतीयस्य) लोचनयो-र्यत् सुन्दरमनुभूयते, तत्
मम लोचनयोः, तव लोचनयोश्च सुन्दरमेव भवेत्, एतादृशो विषयोऽपि नास्ति । परन्तु विधातुः सर्जनायां
किञ्चिदपि एतादृशं वस्तु विद्यते, यत् सर्वजनानां नयनेषु (सर्वेन्द्रियेष्वपि) सुन्दरं प्रतीयते ।
प्रत्येकस्य रचनाकारस्य प्रतिभायां मौलिकता स्वतन्त्रता वा वर्त्तते । स्वेच्छाचारेण यत्किञ्चिदपि लिखित्वा कोऽपि लेखको भवितुं
नार्हति । लेखन्याः
यदि दुरुपयोगो
भवति, तर्हि समाजोपरि शिवेतरस्य अमङ्गलस्य
वा आशङ्का आपतति । कवित्वं राजते एकं दुर्लभं कलात्मकं तत्त्वम्, यत्र भवति सत्य-शिव-सुन्दराणां समुपासना । कवि-लेखकानां रचनासु
संसारोपकारार्थं कल्याण-कामनात्मकाः आवश्यकाः विषयाः गर्भिताः भवेयुः । कविः क्रान्तदर्शी इति कथ्यते । मानव-समाजाय सुसंस्काराणां मङ्गलमयानां तत्त्वानां
सन्देश-प्रदानं प्रत्येक-साहित्यकारस्य
कर्त्तव्यम् । आधुनिके युगेऽपि संस्कृत-वाङ्मये
अनेके बहुप्रतिभावन्तः लेखकाः सन्ति । तेषां कृतिषु च सत्यनिष्ठतायाः, कल्याणकारितायाः नान्दनिकतायाश्च सम्यगवतारणा प्रतिभाति । आधुनिक-रचनापि स्वीय-काव्यगुणानुसारं
कालजयिनी भवितुमर्हति ।
उपसंहारः
आधुनिक-संस्कृत-वाङ्मयस्य सम्भारो विशालः प्राचुर्यपूर्णो भ्राजते । उपर्युक्तं विवेचनं केवलं दिग्दर्शन-मात्रम् । अनेन स्पष्टं हृदयङ्गमं कर्त्तुं शक्यते यत् संस्कृतस्य सारस्वत-प्रवाहः साम्प्रतिके विज्ञान-युगेऽपि निरन्तरं गतिशीलतां सक्रियतां च भजते । संस्कृते पूर्ववत् तदेव व्याकरणम्,
तद् वाक्य-निर्माणम्, स अलङ्कारः,
स रसः, स भावः, तत् सौन्दर्यं
चेत्यादि सर्वं विद्यते । भाषाणां तुलनात्मक-विवेचनायामपि संस्कृत-साहित्यस्य प्रगतिः प्रशस्या । भारत-भारत्याः संस्कृतस्य आधुनिक-परिप्रकाशः भारतीय-सभ्यतायाः
भारतीय-संस्कृतेश्च दीप्तिमयं निदर्शनं भूत्वा सुचिरं स्थास्यति
। वैश्विक-चेतनायाः स्रोतसि आधुनिक-संस्कृतसाहित्यस्य सम्भावना नितरां समुज्ज्वला । परिशेषे एतद् वक्तुं समीचीनं
भवति :
‘प्राचीनत्वं समाश्रित्य नूतनत्वं वितन्वती ।
वहन्ती सन्ततं धारा भाति भारत-भारती ॥’
* *
सहायक पुस्तकादि -सूची :
* अभिराज-राजेन्द्रमिश्रः (सम्पा.), कल्पवल्ली (समकालिक-संस्कृत-काव्यसङ्कलना),
साहित्य अकादमी, नवदिल्ली, २०१३.
* अभिराज-राजेन्द्रमिश्रः (सं), विंशशताब्दी-संस्कृतकाव्यामृतम् (आधुनिक-काव्यसङ्कलनम्),
दिल्ली संस्कृत अकादमी,२०००.
* अभिराज-राजेन्द्रमिश्रः, अभिराज-यशोभूषणम् (अभिनव-काव्यशास्त्रम्),
वैजयन्त-प्रकाशन, इलाहाबाद, २००६.
* राधावल्लभ त्रिपाठी (सम्पा.), षोड़शी (आधुनिक संस्कृत काव्यसङ्कलना), साहित्य अकादमी, नवदिल्ली.
* सत्यव्रत-शास्त्री, श्रीगुरुगोविन्दसिंह-चरितम्, साहित्य भण्डार, मेरठ, १९८४.
* आधुनिक-संस्कृतसाहित्यं प्रति हरेकृष्ण-मेहेरस्य अवदानम् :
(अस्रमजस्रम्, मौनव्यञ्जना, पुष्पाञ्जलि-विचित्रा, सौन्दर्य-सन्दर्शनम्, जीवनालेख्यम्,
सूक्ति-कस्तूरिका चेत्यादीनि काव्यानि) : जालस्थानम् :
* गोविन्दचन्द्र-पाण्डेयः, भागीरथी, राका प्रकाशन, इलाहाबाद, २००२.
* राधावल्लभ-त्रिपाठी, लहरीदशकम्, प्रतिभा प्रकाशन, दिल्ली, २००३.
* राधावल्लभ-त्रिपाठी, गीतधीवरम्, संस्कृत-परिषद्, सागर-विश्वविद्यालयः, सागर, १९९६.
* रमाकान्त-शुक्लः, भाति मे भारतम्, देववाणी परिषद्, दिल्ली, २०१०.
* हरिदत्त-शर्मा, उत्कलिका, आञ्जनेय प्रकाशन, इलाहाबाद, १९८९.
* प्रभुदत्त-शास्त्री, गणपति-सम्भवम्, अर्चना प्रकाशन, नागपुर, महाराष्ट्रम्.
* केशवचन्द्र-दाशः, ईशा, लोकभाषा-प्रचार-समितिः, पुरी, १९९२.
* केशवचन्द्र-दाशः, ऋतम्, देववाणी परिषद्, दिल्ली, १९८८.
* केशवचन्द्र-दाशः, अञ्जलिः, लोकभाषाप्रचार-समितिः, पुरी, १९९०.
* प्रभुनाथ-द्विवेदी, अन्तर्ध्वनिः, सम्पूर्णानन्द-संस्कृत-विश्वविद्यालयः, वाराणसी, २००५.
* बनमाली बिश्वालः, नीरवस्वनः, पद्मजा प्रकाशन, प्रयाग, १९९८.
* बनमाली बिश्वालः, प्रियतमा, पद्मजा प्रकाशन, प्रयाग, १९९९.
* रवीन्द्रकुमार-पण्डा, बलाका, अर्वाचीन-संस्कृतसाहित्य-परिषद्, बरोदा, २००६.
* हीरालाल-शुक्लः (सम्पा.), ए हिस्ट्री अफ् मडर्न् संस्कृत् लिट्रेचर्,
निउ भारतीय बुक् कर्पोरेशन्, दिल्ली, २००२.
* रवीन्द्रकुमार-पण्डा, एसेज् अन् मडर्न् संस्कृत् पोएट्रि, भारतीय कला प्रकाशन, दिल्ली, २००९.
* राधावल्लभ-त्रिपाठी, संस्कृतसाहित्य : बीसवीं शताब्दी, राष्ट्रिय-संस्कृत-संस्थानम्, नवदिल्ली, १९९९.
* चन्द्रभूषण-झा, दिल्लीस्थाः विंशशताब्दीयाः संस्कृत-रचनाकाराः, सं. श्रीकृष्ण-सेमवालः,
दिल्ली संस्कृत अकादमी, दिल्ली.
* आचार्य-बलदेव-उपाध्याय (प्रधान सम्पा.), संस्कृत वाङ्मय का बृहद् इतिहास (सप्तम खण्ड),
आधुनिक संस्कृत साहित्य का इतिहास, सम्पा. जगन्नाथ-पाठक, उत्तरप्रदेश-संस्कृत-संस्थानम्,
लखनऊ, २०००.
* राजेशकुमारी मिश्र (सम्पा.), त्रिवेणीकवि अभिराज राजेन्द्रमिश्र: व्यक्तित्व एवं कृतित्व,
वैजयन्त प्रकाशन, प्रयाग, २००५.
* दृक् (समकालीन-संस्कृत-साहित्य-समीक्षात्मक-पत्रिका, ISSN: 0976-447X), अङ्कः-१-३१,
दृग्-भारती, प्रयागः.
* श्रद्धा (संस्कृत-शोधपत्रिका, ISSN: 2321-273X), संयुक्ताङ्कः ३-४, २०१२-२०१३,
मुख्यसम्पादक: हरेकृष्ण-मेहेरः, स्नातकोत्तर-संस्कृतविभागः, गङ्गाधरमेहेर-स्वयंशासित-
महाविद्यालयः, सम्बलपुरम्, ओड़िशा.
* पद्यबन्धा (समकालिक-संस्कृतकविता-पत्रिका, ISSN: 2278-4888), स्पन्दः-१-६,
वीणापाणि-संस्कृत-समितिः, भोपालम्.
* संस्कृतमञ्जरी, अप्रैल् २००७, दिल्ली-संस्कृत-अकादमी, करोलबाग, दिल्ली.
* लोकभाषासुश्रीः,फेब्रुआरी-मार्च २००६, लोकभाषाप्रचार-समितिः, शरधाबालि, पुरी.
***
Related
Links :
No comments:
Post a Comment