Mukta-Vihangaa Vayam
(Patriotic Sanskrit Song):
* मुक्त-विहङ्गा वयम् *
Lyrics and Tuning By :
Dr. Harekrishna Meher
-----
* मुक्त-विहङ्गा वयम् *
(देशात्मबोधकं गीतम्)
गीत-रचना तथा स्वर-रचना :
डॉ. हरेकृष्ण-मेहेर:
====
शुभ्र-विहायसो मुक्त-विहङ्गा वयम्,
महासागरस्य तुङ्ग-तरङ्गा वयम् ।
शुभ्र-हैमवता उन्नत-शृङ्गा वयम्,
महासागरस्य तुङ्ग-तरङ्गा वयम् ।
तुङ्ग-तरङ्गा वयम् ।
मुक्त-विहङ्गा वयम् ।। (ध्रुवम्)
*
अस्ति निज-हस्ते
निज-देश-मान: प्रगति: ।
विद्यते नूनं
जन्मनो नरस्य सुगति: ।
जाग्रता नियतं स्वदेश-निमित्तं
सैनिका वीरा: शक्ति-सङ्गा वयम् ।
अरि-बल-भङ्गा वयम् ।
शुभ्र-विहायसो मुक्त-विहङ्गा वयम्,
महासागरस्य तुङ्ग-तरङ्गा वयम् ।
तुङ्ग-तरङ्गा वयम् ।
मुक्त-विहङ्गा वयम् ।। (१)
*
स्मितमेतु समुदं
सूर्योदयस्यारुणिमा ।
गच्छतु सुदूरं
गहनान्धकार-कालिमा ।
मण्डयिष्यामो जीवन-विपञ्च्यां
सुन्दरं मधुरं राग-रङ्गान् स्वयम् ।
समुज्ज्वलाङ्गा वयम् ।
शुभ्र-विहायसो मुक्त-विहङ्गा वयम्,
महासागरस्य तुङ्ग-तरङ्गा वयम् ।
तुङ्ग-तरङ्गा वयम् ।
मुक्त-विहङ्गा वयम् ।। (२)
*
विलसतु स्वान्ते
भारत-भावना-सुरभि: ।
उल्लसतु माता
सद्-गुण-कर्मादि-कृतिभि: ।
जयताद् भारतं भारते धन्ये
जयताद् भारती धामनि सुपुण्ये
सन्तान-निकरा अन्तरङ्गा वयम् ।
धृत-त्रिरङ्गा वयम् ।
शुभ्र-विहायसो मुक्त-विहङ्गा वयम्,
महासागरस्य तुङ्ग-तरङ्गा वयम् ।
तुङ्ग-तरङ्गा वयम् ।
मुक्त-विहङ्गा वयम् ।। (३)
====
(इदं गीतं कहरवा-तालस्य मध्यलयेन परिवेषणीयम् ।)
====
ओड़िशाया: राउरकेला-स्थितस्य व्यासश्री-परिवारस्य पक्षत: स्वाधीनतादिवस-पालनावसरे समायोजिते राष्ट्रिय-कविसम्मेलने गीतकारेण डॉ.मेहेरेण सस्वरं परिवेषितं गीतमिदम् ।
दिनाङ्क: - १४-अगष्ट-२०२४ )
*******
Audio Recorded in the Program.
*******
Mukta-Vihangaa Vayam (Patriotic Sanskrit Song):
Blog Post :
https://hkmeher.blogspot.com/2026/05/mukta-vihangaa-vayam-patriotic-sanskrit.html
***
Facebook Link :
https://www.facebook.com/share/p/18XaygTZd6/
----https://www.facebook.com/share/p/17Yd9WhMjD/
====

No comments:
Post a Comment