‘Varshā’
(Original Oriya Poem ‘Barshā’ by :
Poet Radhanath Ray)
*
Sanskrit Version by : Dr. Harekrishna Meher
= = = = = = = = = = = = = = = = = = = = =
* वर्षा * (प्रस्रबण
शइळे कले बसति …)
ओड़िआ-मूल-पद्यस्य रचयिता : कविवर-राधानाथ-रायः
संस्कृत-श्लोकानुवादकः : डॉ. हरेकृष्ण-मेहेरः
= = = = = = = = = = = = = =
= = = = = = =
श्रीरामचन्द्रो रघुवंश-भूषणं
शैलेऽवसत् प्रस्रवणे सलक्ष्मणः ।तत्पाद-देशे शयनेऽश्म-बन्धुरे
गोदावरी झर्झर-गुञ्ज-मञ्जुला ॥ [१]
*
रम्योऽद्रिरादौ झरणा-शिरान्वितो
वर्षा धरायां हि पुनः समागता ।
वीक्ष्यान्तरिक्षं मुदिरालि-मेदुरं
प्रोवाच सौमित्रिमिदं रघूत्तमः ॥ [२]
*
"नृत्यन्ति मेघानवलोक्य बर्हिणो
भक्ता इव त्यक्त-भवानुरक्तयः ।
अब्दो वदान्यो वितरत्यकुण्ठितं
दाता स धन्योऽर्थि-मनस्तु वेत्ति यः ॥ [३]
*
श्यामाम्बुदाङ्गे चपला हि दीप्यते
प्रीतिः खलानां चपलेव सन्ततम् ।
वर्षन्ति भूमौ सलिलै-र्नताः घना
नम्राः सुविद्या-विभवै-र्बुधा यथा ॥ [४]
*
कोटि-द्वयं कूट-युगे निधाय
व्योम्नि त्रिवर्णांशु-रयं विरच्य ।
अलङ्करोतीन्द्र-धनुः पयोमुचो
भालं यथैवास्तिक-वक्त्रमाशा ॥ [५]
*
धराधर-श्याम-शरीर-लग्ना
विभान्ति शुभ्राः क्वचिदभ्र-पुञ्जाः ।
विष्णो-र्ध्रुवं विच्छुरिताः कलेवरे
क्षीरोद-फेनाः प्रतिभान्ति चेतसा ॥ [६]
*
पयःप्रपातः प्लवति प्रचण्डं
गम्भीर-घोषै-र्भृगुतः समुच्चैः ।
तत्कन्दरस्तैः कुरुतेऽनुनादं
यथा हृदो धर्म-नयै-र्विवेकः ॥ [७]
*
शैलाः सहन्ते जल-वृष्टि-भारं
यथा खलानां वचनानि सन्तः ।
क्षेत्रेऽपि शुष्के क्षरतीह निर्झरो
मूढ़ेषु सत्सङ्गज-विष्णु-भक्तिवत् ॥ [८]
*
उल्लङ्घ्य कूलं नग-निम्नगा इमा
मत्ता इवाल्प-द्रविणै-र्जनाधमाः ।
गोदावरीं द्रागुपयान्ति पावनीं
लभ्या क्व मुक्ति-र्महतां विनाश्रयम् ॥ [९]
*
स्पृष्टा धरण्याविल-नव्य-नीरै-
र्मायावलेपैरिव जीव-राशिः ।
घनाम्बु-पातैश्च सरः प्रपूर्णं
स्वान्तं सतां सत्त्व-गुणै-र्यथैव ॥ [१०]
*
नद्यम्बु सिन्धुं सपदि प्रधावति
प्रविश्य तं विस्मरति स्वगोत्रम् ।
भक्तस्य चेतः परमात्म-सक्तं
लब्ध्वा यथा तन्मयतामुपैति ॥ [११]
*
उत्पाट्यते तीर-तरुः पयोभि-
श्चित्तं विटप्या इव लम्पटोक्तिभिः ।
पश्याचलस्तिष्ठति धैर्य-निष्ठः
सती-मनः किं विट-चाटुभिश्चलम् ॥ [१२]
*
नदी-रयो लङ्घति सेतु-बन्धं
द्रोहीव राज्ये नरपाल-शासनम् ।
यात्यम्बु-धारा च विलङ्घ्य वप्रं
त्यक्त-प्रतिष्ठेव वधूः स्वतन्त्रा ॥ [१३]
*
मूकः पिकोऽस्ति श्रुत-भेक-रावो
मौनीव धर्मी खलु मूढ़-संसदि ।
दात्यूह-विः कूजति वंश-कुञ्जे
यथा भृशं जल्पति वावदूकः ॥ [१४]
*
तपर्तु-रूक्षा वसुधा त्विदानीं
दूर्वादलैः सा हरितैः सुचार्वी ।
विराग-शुष्कं हृदयं हि साधो-
र्यथात्म-भक्त्या सरसत्वमेति ॥ [१५]
*
द्रुमेषु फुल्लो नव-पर्ण-राशि-
र्यथा विवेको हृदि साधकस्य ।
निरस्त-पत्रास्तरवोऽर्क-संज्ञकाः
सौराज्य-दीना इव तस्करा जनाः ॥ [१६]
*
परिस्फुटं शैल-वने कदम्बं
मित्राम्बुवाह-स्तनितैः सुमन्द्रैः ।
यथा स्वबन्धु-प्रभु-नाम-कीर्त्तनै-
र्भक्तस्य हृष्टं पुलकान्वितं वपुः ॥ [१७]
*
गुल्म-प्रभूतैरयनं हृतं वै
विधर्मि-राजत्व-बलेन शास्त्रवत् ।
शोभामयी भाति रसा सुशस्या
सम्पत् प्रशस्येव परोपकारिणः ॥ [१८]
*
ऋक्षेऽन्तरिक्षादखिले लयं गते
खद्योत-पुञ्जस्त्विह दर्शित-द्युतिः ।
राज्येऽधमानां गुणिनो ह्रियन्ते
गुणै-र्विहीनाश्च समाद्रियन्ते ॥ [१९]
*
नीवार-वारः कृषकै-र्निरस्तो
यथात्म-गर्वः सुजनै-र्मनस्तः ।
तोयात्तु कोकाश्चपलं पलायिता
बुधा इवाबोध-नृपस्य राज्यतः ॥ [२०]
*
भवन्ति शादाः सजलेऽपि नोषरे
सतो विकारा मनसीव मान्मथाः ।
सम्प्रत्यरण्यं पशुभिः सुखाश्रितं
सुशासितं राष्ट्रमिव प्रजान्वितम् ॥ [२१]
*
मार्गे क्वचित् तिष्ठति पान्थ-वर्गो
बोधोदये वृन्दमिवेन्द्रियाणाम् ।
क्वचिद् घनौघं हरति प्रवातो
यथा कुपुत्रः कुल-धर्म-वित्तम् ॥ [२२]
*
क्षणं प्रगाढ़ैस्तिमिरै-र्वृता धरा
क्षणं खरांशोः किरणै-र्विभास्वरा ।
ज्ञानं कुसङ्गै-र्हि तथा विलुप्यते
तथा सुसङ्गै-र्नितरां प्रकाश्यते ॥ [२३]
*
दधाति नेदं तट-काननच्छविं
पश्याश्रमस्थं मलिनं सरो हृदि ।
यथा स्वचित्ते कलुषीकृते जनः
क्षमो ग्रहीतुं न परस्य सद्गुणम् ॥ [२४]
*
चित्रं प्रपश्य पुरतः सलिले सरस्याः
क्रूराहि-तुण्ड-कवले पतितोऽपि भेकः ।
लम्फं प्रदाय तरसा विलपन्नगालीद्
ऊर्द्ध्वं पतङ्गम-शिशुं वियति भ्रमन्तम् ॥ [२५]
*
मनुजोऽनुज ! काल-बन्धनै-
र्भ्रमतीत्थं बहुलार्त्ति-विह्वलः ।
इह कामयते तथाप्यसौ
चरितार्थां भव-भोग-तृष्णिकाम् ॥ [२६]
*
भवति जलद-कालो बन्धुरुद्भित्-कुलानां
क्षयमलभत पद्मं नात्र किञ्चिद् विचित्रम् ।
सलिलमतिशयं वै तत्कृतेऽभूत् कृतान्तो
ह्यतिशय-धनराशि-र्भ्रातरित्थं दुरन्तः ॥" [२७]
= = = = = = = = = = = = = = = = = =
(Published in “Lokabhāshā-Sushrīh”, October-November 2006 Issue,
of Lokabhāshā Prachār Samiti, Sharadhābāli, Puri.)
= = = = =
Related Link :
Translated Works of Dr. Harekrishna Meher :
*
= = = = = = =
No comments:
Post a Comment