Saturday, April 6, 2013

Sanskrit ‘Tapasvini’ Kavya, Canto-5 (‘तपस्विनी’ महाकाव्यम्, पञ्चम-सर्गः/ डॉ. हरेकृष्ण-मेहेरः)


तपस्विनी महाकाव्यम्, पञ्चम-सर्गः/ डॉ. हरेकृष्ण-मेहेरः 
(Sanskrit ‘Tapasvini’ Kavya, Canto-5)

TAPASVINI      
Original Oriya Epic Poem 
By : Poet Gangadhara Meher  (1862-1924)
Complete Sanskrit Translation By : Dr. Harekrishna Meher 

Published by : Parimal Publications, 27/28, Shakti Nagar, Delhi-110007,
ISBN: 978-81-7110-412-3.  First Edition  2012.]

= = = = = = = = = = = = = = = = = = = = = 
Tapasvini [Canto-5]  
= = = = = = = = = = = = = = = = = = = = =   
 [Canto-5 has been taken from pages 109-119  of my Sanskrit ‘Tapasvini’ Book. 

For Introduction, please see : ‘ Tapasvini Mahakavyam: Ekam Aalokanam’

= = = = = = = = =

तपस्विनी(महाकाव्यम्)
ओड़िआ-मूल-रचना * स्वभावकवि-गंगाधरमेहेरः (१८६२-१९२४)
सम्पूर्ण-संस्कृतानुवादः * डॉ. हरेकृष्ण-मेहेरः 

= = = = = = = = = = = = = = =
पञ्चमः सर्गः 
= = = = = = = = = = = = = = =

राजोद्यान-सुषमा  सागर-तरङ्ग-तती
मस्तके कुसुम-फेन-पुञ्जं बिभ्रती
आसीद् यच्चरण-पुलिने विद्यमाना
नख-मौक्तिक-द्य्रुति-सेवन-सम्पन्ना,
समालोक्य मङ्गलागमनं तस्याः सत्याः
समुल्लसिताः सञ्जाताः
मुन्युपवने  तत्रत्याः
सप्रसून-पादप-व्रतती-व्राताः ॥ (१)

प्रथमतो मधुरो मधु-समयः,
बालारुणस्य स्वर्णिम-रश्मयः
शिशिरार्द्र-पर्णेषु लब्ध-प्रसराः
विद्यन्ते विविध-वर्णै-र्लीला-पराः ।
शिशिर-पृषत्सु पतिता रचयन्ति वैचित्र्यभरम्
हीरकेन्द्रनील-मुक्ता-माणिक्य-निकरम् ॥ (२)

भास्वर-प्रभाकर-मणिगण-दीप्यमानस्य
दशास्य-ज्योतिर्गर्वो दशाननस्य
हृतः पूर्वं पादाभ्याम्
सती-रत्नस्य याभ्याम्,
अद्यागत्य तत्सर्वं मणि-गर्वं तौ
मुन्युपवने ध्रुवं विच्छुरितवन्तौ ॥ (३)

सत्याः सीताया हृदयम्
श्यामवर्णं श्रीराममयम् ।
हृत्वा तदेव हृदयं द्रुमगणाः
संवृत्ताः क्रमेण घन-श्यामवर्णाः ।
सती-मत्याः शरण्यः पतिरेव नूनम्,
अङ्गकान्तयस्तस्याः समाकर्षिताः सत्यः
क्रमशः समुपेत्य प्रतिप्रसूनम्
स्वस्व-वसतिं निर्मितवत्यः ॥ (४)

नीता मिलिन्देन केवलं कुन्तल-कान्तिः,
चम्पकेन नीता तनु-द्युति-सम्पत्तिः ।
अधर-रक्तिमत्ता
जपापुष्प-समीपं गता ।
स्थानं स्वाभिलषितं शेषाः प्रयाताः,
समस्ताः कान्तिमयाः सञ्जाताः ।
समागतया क्ष्मालोकं स्वर्गलक्ष्म्या तदुपवनम्
ध्रुवं व्यरचि स्वकीय-लीला-भवनम् ॥ (५)

आसीत् सती-कान्तिः पीयूषवत्
कुसुमेषु मधु सुधा-सम्मितमभवत् ।
मार्दवं माञ्जवं च द्वयमेतत्
गत्वा तद्रूपं सून-कुलाङ्गेषु स्थिरं न्यवसत् ।
तपस्विनीभूय सती जनक-दुहिता
स्वीये रस-वर्जिते जीविते
कलेवरे प्रभा-विरहिते
विपिन-विलासिनी संवृत्ता ॥ (६)

सत्याः सत्कार-विधान-निमित्तं समस्ताभिः
यावन्नक्तं सम्पन्न-सुन्दर-चन्द्रातपाभि-र्लूताभिः
विरचितमासीत् सुशोभनम्
हेम-कुसुमै-र्लम्बनम् ।
आसन् कनक-गोलक-रूपं दधानाः
पक्व-नागरङ्गाः शतशो लम्बमानाः ॥ (७)

पङ्क्त्या पत्र-केतन-ततीं बिभ्रती सुप्रभा
तत्रासीद् दण्डायमाना रमणीया रम्भा ।
सुन्दर-मुचुकुन्द-कुन्द-समेताः
बकुल-नियाली-माधवी-लताः
कलित-सुम-समुच्चया एताः
निरीक्ष्यासन्  प्रतीक्षा-रताः ।
तासामासीत् सविधे नवीना रजनीगन्धा
प्रसून-पुञ्ज-सज्जित-कुन्तल-बन्धा  ॥ (८)

अभ्यर्णे तासां सखीवृन्द-सहिता
यदा पादौ न्यस्तवती वैदेह-दुहिता
सुकुमार-समीर-गत्या सम्प्राप्य पुलकम्
अचुम्बत् काचिल्लतिका
सत्यास्तस्या मस्तकम्
तदुपरि विकीर्ण-सुमनोमालिका ।
कयाचिदालिङ्गनं कयाचित् कर-मर्दनम्
कृतं कयाचिद्वा पाद-द्वन्द्व-वन्दनम्  ॥ (९)

प्रलम्बित-रसनं सञ्जातम्
सुलोहित-पद-लेहनाय पारिजातम् ।  []
मौक्तिक-द्युतिमन्नख-चुम्बनाय समुत्कः
अतिष्ठद् विवृत-वदनः करकः ।
अनुकम्पा-ऋणाभिलाषिणी चीनीचम्पा
हरिद्वर्णाऽभवत् समनुसृत-राम-रूपा  ॥ (१०)

इन्दुकला-सुकुमाराः कमनीया वृक्षकाः
स्थाने स्थाने वेष्टनी-कुड्योपरि समुत्थ-मस्तकाः
सतीं सतृष्णं विलोकयन्त आसन् ।
मस्तका येषां समवाप्ता नोर्ध्वभागम्,
तत्रैव ते समस्ताः
वेष्टनी-मध्यगताः
समाश्रित्य रन्ध्र-मार्गम्
सती-दर्शनार्थं समुत्कण्ठिता अभवन्  ॥ (११)

चाञ्ची-फूलचुईं-शकुन्तगणाः
तरु-वेष्टनी-कुड्ये निषण्णाः
सतीं प्रति निरीक्षितवन्तः
सकृत् सकृत् काकलीं कुर्वन्तः,
पुच्छमासीद् दोलितं हर्षभरेण ।  
पोषितास्ति भावना तेषां चित्ते,
आलबालेषु समुपविश्य निर्भयं पास्यन्ति ते
यदा प्रदास्यति सती तोयमावर्ज्य स्वकरेण  ॥ (१२)

ऊर्णनाभः सकृत् सती-पादयोः पतति
पादपोपरि पुनरुत्तिष्ठति ।
लम्फं प्रदाय सपदि पादपात् पादपं प्रति
पुनः स्वकं कारु-कौशलं दर्शयति ।
तस्य सूक्ष्म-सूत्र-कुलं
रञ्जयति स्म सुमञ्जुलं
नानाविध-वर्णैरात्मनः
तत्र चित्रकरस्तपनः ॥ (१३)

श्यामल-दल-सुभगः
निसर्गत एव पादप-वर्गः ।
कुत्रचिद् द्रुम-शीर्षे निषण्णाश्चञ्चलत्वमिताः
चञ्चू-मार्जन-समुज्ज्वलाः स्थिताः
समालोक्यन्ते रम्याकृतयः
मरकत-कान्ति-युक्ताः ठिण्ठिणी-विहङ्गाः,
यथा वासरमणि-रश्मयः
श्यामोदधि-कल्लोल-विलुण्ठिताङ्गाः ॥ (१४)

प्रीति-प्रभामयं
श्रीरामचन्द्र-हृदयं
गतमस्थिरतां राजसिंहासने
धावत् समागच्छदिव तस्मिन्नुपवने
सती-सीताया यातना-निपातन-विधौ ।
नयन-मञ्जुलं ज्योतिस्तत्
सृजति स्म सती-हृदय-पयोनिधौ [
प्रेम-मौक्तिकानि  स्वाती-सलिलवत् ॥ (१५)

दिशायां कुत्रचित् पनस-वनं गहनम्
कुत्रचिदम्बर-चुम्बि चाम्र-वनम् ।
समवलोक्यते पुनराकाशः
आम्रवन-निम्न-प्रान्ते
देवखात-नीर-प्रतीकाशः ।
शतशो द्रुम-स्कन्धाः संदृश्यन्ते,
ऐकमत्य-संहतैः
वनं तद् विनिर्मितमिव समस्तैः ॥ (१६)

शान्ति-सरस्यास्तीरं विविक्तम्,                       
प्रतीयते तापस-जनैरिव समाश्रितम् ।
म्र्ध्नि वहन्तो गुरु-विघ्न-भार-सकलं
स्थित्वा गम्भीरं नीरवं निश्चलं
निरीक्षमाणा इव लक्ष्यन्ते
ते समस्ताः सीतायाः कृते
उपशान्ति-प्रदान-निमित्तं समन्तात्
श्तातप-तपन-धाम-सन्तापात् ॥ (१७)

निर्मितं कुत्रचित् प्रियङ्गु-विमण्डनैः
श्याम-भवनमिङ्गुदी-वनैः ।
सुस्वर-मधु तत्र वितरति श्यामा []
नववधू-रूपाभिरामा ।
इन्द्रनीलैः सुन्दर-निलयं निर्माय,
मन्ये, शतमन्योः समादेशात् पूजार्चनाय
तत्रागत्य सुसज्जा
सतीं समाकारयति पुलोमजा ॥ (१८)

मसृणोज्ज्वल-नील-पर्णभरम्
पुन्नाग-वनं श्यामलतरम्
उड़िशात उड्डीय किमु तत्र समुपागच्छत् ?
सती-सीताया मानसमरञ्जयत् ।
आसीत् किमु तत्
नीलाचल-रूपं दधत्
श्रीरामचन्द्रः स्वयम्
समवाप्तुं सीता-प्रेम-समुद्रोर्मि-समुदयम्  ॥ (१९)

सखीभिः साकमेकवारम्
अकरोत् सती तदुद्याने विहारम् ।
आर्यावर्त्त-वक्षसि सहचरीभिः सार्द्धं []
भागीरथी किमु सरति पुरतः ?
गन्धर्व-तरुणी-विलास-नद्धं
चैत्ररथमुपहसन् मार्गः सुभगतां गतः ॥ (२०)

ततः समस्ताभि-र्वहन्तीभिस्तमसा-पयः
प्रपूरितस्तत्रालबाल-निचयः ।
यथा निलिम्प-सुन्दरीभिः कन्याभि-र्धीरम्
नन्दन-वन्यामावर्ज्यते मन्दाकिनी-नीरम् ।
किं वा कादम्बिन्या समुद्धृत्य समुद्र-तोयं पुरः
संप्लाव्यते वसुन्धराया उरः ॥ (२१)

कटितट-बद्ध-चेलाञ्चलाः
गति-रतास्ता आसंश्चञ्चलाः
कर्कश-केशे मस्तके न्यस्त-कलसाः,
ललाट-परिसरा आसन् स्वेद-सरसाः ।
प्र्रक्षाल्य स्वकीय-करैस्ताः
स्वेद-बिन्दूंस्तत्र स्थिताः
सकृत् सकृत् कुर्वत्यः प्रतीक्षां मैथिल-सुतायाः
धीर-मन्थर-गतायाः ॥ (२२)

समयेऽस्मिन् समागता
तत्रानुकम्पा दर्शित-वत्सलता
अभाषत सुमधुर-वचनम् :
जानकी मे न जानाति नीर-वहनम् ।
सुकुमार-प्राणेषु तस्याः कष्टं जनिष्यते ।
नाधिक-श्रमस्तया क्रियताम्,
सकृदुद्यानं केवलं विलोक्यताम्,
अत्र न्यस्तपदा साद्यवारं विद्यते ॥ (२३)

आयाहि प्रियजाते !
आयाहि शीतलच्छायाम्
उपविशेम वयम्,
मा कुरु प्रयासमन्य-क्रियायाम् ।
आश्रम-रीति-विषये ते
मयास्ति किञ्चिद् वक्तव्यम् ।
एवमुक्त्वाऽनुकम्पा ताम्
व्यक्त-प्रीति-र्नीतवती सीताम् ।
समुपाविशत् साकं तया
छायायां तत्र वैदेह-तनया ।
अभवन् नीरानयने संलग्ना अन्याः
समुपस्थितास्तापस-कन्याः ॥ (२४)

प्रोवाच तत्रानुकम्पा, सीते सति !
श्रद्धया जनः कार्यं सम्पादयति ।
प्रतिप्रसूनं सन्नद्धः
यथा विविधः सुगन्धः,
प्रतिजीवनमद्धा
तथा निवसति श्रद्धा ।
फलसू-र्भवति स्वभावानुसारं श्रद्धा,
दैवी मानव्यासुरी चेति त्रिधा ॥ (२५)

दम्भाहङ्कारैः काम-पोषणैरासक्तिभिः
आत्मकर्षणैस्तथा वर्ष्म-शक्तिभिः
तपस्यन्ति जनाः
आसुर-भावं प्रपन्नाः ।
स्वभावे तव सम्भवति नैतत् सर्वम् ।
देव-द्विज-गुरु-विद्वज्जन-पूजन-परायणा
राजसे सती साध्वी शुद्धान्तःकरणा
शौचार्जव-श्रद्धा-बद्धा त्वम् ॥ (२६)

प्रिय-वचनं सत्यं शान्तिदम्
तव जीवनस्य प्रियं मण्डनमिदम् ।
असमर्थः कपटस्त्वन्मानस-स्पर्शनार्थम्,
समीपं प्रवेक्ष्यति माया वा कथम् ?
वक्ति ते सौम्याकृतिः कमनीया
विषय-गहने पुनर्नास्त्यनुरक्तिस्त्वदीया ॥ (२७)

तपस्विनी त्वं दैव-स्वभावाज्जाता
दर्शन-मात्रेण मयासि नूनमभिज्ञाता ।
सन्ति पुनरत्यन्त-मृदवः
पवित्रास्तवासवः ।
घोर-तपश्चर्यायाः फलं दुष्प्रापम्,
पुण्य-व्रतत्याः प्रसून-रूपम् ।
तदनुकूलं न भवति श्रम-समस्तम्
नव्य-तापसीजन-व्यवसितम् ॥ (२८)

साकं कुमारीभि-र्निवसन्ती
आनेष्यसि त्वमम्बु तुम्ब्यां वहन्ती ।
प्रज्वालयिष्यसि तासां समुत्साह-दीपमिद्धम्,
न परित्यक्ष्यन्ति तास्ते सविधम् ।
सन्ति समुपदिष्टास्ताः
मया कन्याः समस्ताः ।
अशनाया-पिपासे विषह्य त्वया
पान-भोजनेषु त्रपा न कर्त्तव्या ॥ (२९)

उद्याने कार्यं स्यात् कन्यानां यदा कदा
त्वं स्वच्छन्दं स्थास्यसि तदा ।
यद्-द्रव्ये यदा भविष्यति रुचिस्ते
कुमारीभिः सपदि तत् प्रदास्यते ।
विहरन्ती स्वयमुपवने
स्वेच्छया सून-फल-चयने
न शङ्कां धास्यसि
त्वमात्मनो मनसि ॥” (३०)

प्राप्तः प्रातः सप्त-घटिका-समयः,
क्रमेण धीरं समुपाविशन् समीपेऽनुकम्पायाः
कन्यकाः स्विन्न-कायाः
विधृत-शून्य-घटिकाः,
यथा व्याकोष-धुस्तूर-सुम-समीपे फल-प्रचयः
तत्र सविधे च तुषाराक्त-कलिकाः ॥ (३१)

समुत्थाय ततो निर्वर्त्यावगाहनं द्वितीयम्
प्रत्यावर्त्तन्त समस्ता निवासस्थानं स्वकीयम् ।
तापसैरानीतमासीत् फलमूलादिकं यत्
सकल-जनै-र्भुक्तं तत् ।
सम्पाद्य विध्यनुसारमध्ययनं चाध्यापनम्
अतिवाहितं तापस-तापसीभि-र्मध्याह्नम् ॥ (३२)

मनोदुःखं सत्या राघव-प्रेयस्याः
तापस-तापसीनां स्नेह-सुखै-र्दूरं निष्कासितम् ।
राजसुखं स्मरण-वर्त्मनि तस्याः
सकृद् भ्रमवशादपि नापतितम् । 
हृदय-सरोवरे
तस्या वैशद्यभरे
विहरति स्म ह्यविरतं सः
अभिराम-रूपो  राम-राजहंसः ॥ (३३) *
 = = = = = =

पादटीका :
[] पारिजातम् = मन्दार-जातीय-पुष्पविशेषः बहिर्लम्बित-गर्भकेशरः ।
[] चीनीचम्पा = हरिद्वर्ण-पुष्प-विशेषः ।
[] स्वाती-नक्षत्रे वृष्टिपाते सति मुक्ता जायते इति पुराण-प्रसिद्धिः ।
[] श्यामा = विहङ्ग-विशेषः ।
[] आर्यावर्त्तः = हिमालय-विन्ध्य-पर्वतयो-र्मध्यवर्ती देशः ।
= = = = = 

इति स्वभावकवि-गङ्गाधरमेहेर-प्रणीतस्य 
तपस्विनी-महाकाव्यस्य 
श्रीहरेकृष्णमेहेर-कृत-संस्कृतानुवादे पञ्चमः सर्गः) । 
= = = = = = = 

[सौजन्यम् : 
स्वभावकवि-गङ्गाधरमेहेर-प्रणीता ‘ तपस्विनी ’ *
संस्कृतानुवादकः - डॊ. हरेकृष्ण-मेहेरः 
प्रकाशकः - परिमल पब्लिकेशन्स्, २७/२८ शक्ति नगर, दिल्ली-११०००७, भारतम्. 
प्रथम-संस्करणम् - २०१२ ख्रीष्टाब्दः]
= = = = = = 

Tri-lingual Translations of Poet Gangadhara Meher’s Tapasvini Kavya 
By : Dr. Harekrishna Meher 
Hindi-English-Sanskrit Articles on Tapasvini Kavya : 
http://hkmeher.blogspot.in/2011/08/my-hindi-english-sanskrit-articles-on.html
* * * * 


No comments: