Wednesday, April 10, 2013

Sanskrit ‘Tapasvini’ Preface (‘तपस्विनी’ महाकाव्यम्, मुखबन्धः/ डॉ. हरेकृष्ण-मेहेरः)

तपस्विनी महाकाव्यम्, मुखबन्धः/डॉ. हरेकृष्ण-मेहेरः
(Sanskrit ‘Tapasvini’ Kavya, Mukhabandha)

TAPASVINI      
Original Oriya Epic Poem 
By : Poet Gangadhara Meher  (1862-1924)
Complete Sanskrit Translation By : Dr. Harekrishna Meher 

Published by : Parimal Publications, 27/28, Shakti Nagar, Delhi-110007,
ISBN: 978-81-7110-412-3.  First Edition  2012.]

= = = = = = = = = = = = = = = = = =
Tapasvini  [Preface]
= = = = = = = = = = = = = = = = = =  

['Mukhabandha' has been taken from pages 46 of my Sanskrit ‘Tapasvini’ Book. 
For Introduction, please see : ‘ Tapasvini Mahakavyam: Ekam Aalokanam’
= = = = = = = = =

तपस्विनी-महाकाव्यस्य
मुखबन्धः
(मूल-ओड़िआ-रचनायाः संस्कृत-रूपान्तरम्)
= = = = = = 

  पितृ-सत्यरक्षार्थं काननगामित्वात् श्रीरामचन्द्रस्य, स्वामिनः अनुगामिनीत्वात् सीतायाश्च, यन् माहात्म्यं व्यक्तमासीत्, सीताया निर्वासनेन तत् सौरभमयं सञ्जातम् । निर्वासन-क्लेश-सहनात् सीतायाः पतिभक्तिः यद्वत् तेजोमयी संवृत्ता, तस्याः कानकीं प्रतिमां संस्थाप्य अश्वमेध-यागानुष्ठान-विधानाद् रामचन्द्रस्य पत्नी-प्रेम तद्वद् दीप्तिमयमभवत् । उपयुक्तस्य पत्युः उपयुक्ता पत्नी । मिथ्यापवाद-कारणात् सीता स्वामिना परित्यक्ता, तथापि स्वामिनः आन्तरिकं प्रेम तया यथार्थतो हृदयङ्गमं कृतमासीत् । निर्वासनं स्वीयं भाग्य-दोषं मत्वा सा पतिभक्तिं कीदृशं दृढ़तरां समुन्नततरां च कृतवती, वन-वसतिं पतिहितसाधिनी-तपस्या-रूपेण परिणमयन्ती तपस्विनीभूय कीदृशं दिवसानि च व्यतीतवती, अस्य विषयस्य परिप्रकाशनं पुस्तकस्यास्य प्रधानमुद्देश्यम् ।

 सीतया यद्वत् स्वामिनः करुणा-प्राप्त्याशा समुज्झिता आसीत्, मया तद्वत् तस्याः समुन्नत-चरित्र-वर्णनायां सफलीभवितुमाशा त्यक्ता एव । तदा श्रीरामचन्द्रेण तपस्विन्याः सीतायाः स्थाने हृदय-कौमुदीं मनोहारिणीं मूर्त्तिं निर्माय यज्ञानुष्ठानं सम्पन्नं कृतम् । विद्वांसः पाठकाः विषयऽस्मिन् मम कृतित्वं लक्ष्यं न कृत्वा स्वस्व-हृदयस्थं सीतायाः समुज्ज्वल-निर्मल-पवित्र-चरित्रेण चित्रितं स्मृति-पटं  सकृत् समुद्घाट्य नारी-हृदयस्य समुन्नतिं विधास्यन्ति, ममाशा केवलमेतावती ।

 उपसंहारे वक्तव्यमिदं यत् मम प्रिय-सुहृद्वरेण श्रीयुक्त-ब्रजमोहन-पण्डा-महोदयेन अस्य पुस्तकस्य प्रणयन-दिशायां मह्यं यः ओजस्वी समुत्साहः प्रदत्तः, स सर्वथा अतुलनीयः । एतदर्थं तस्मै मम गभीरां कृतज्ञतां निवेदयामि । इति ।                                                      
विनीतः 
श्रीगङ्गाधर-मेहेरः 

* पद्मपुरम्,
दिनाङ्कः ५-१०-१९१४ ख्रीष्टाब्दः 
======= 
                                                                                                                             

No comments: