Sunday, January 30, 2011

Sanskrit Song अभिज्ञान-गीतिका (Abhijñāna-Gītikā): Dr.Harekrishna Meher

Abhijñāna-Gītikā (Sanskrit Song)  
Lyrics and Tuning By : Dr. Harekrishna Meher
(Extracted from ‘ Mātŗigītikāñjalih'- Kāvya)
= = = = = = = = = = 
* Song for Recognition * 

अभिज्ञान-गीतिका
गीत-रचना तथा स्वर-रचना : डॉ. हरेकृष्ण-मेहेरः  

(मातृगीतिकाञ्जलिः’- काव्यतः)
= = = = = = = = = = 


कथयति को वा
दिव्यालोको नासि त्वम्‌ ?
प्रथयति को वा
पुण्य-श्लोको नासि त्वम्‌ ?
दिव्यालोको नासि त्वम्‌ ?
(ध्रुवम्‌)
*
रवि-सङ्काशः
स्वयम्प्रकाशः,
संसरणे त्वमनन्ताकाशः ।
कथयति को वा
नन्दित-लोको नासि त्वम्‌ ?
प्रथयति को वा
पुण्य-श्लोको नासि त्वम्‌ ?
दिव्यालोको नासि त्वम्‌ ? (१)
*
त्वं संसारे
पारावारे,
सुन्दर-मौक्तिक-रूपोऽपारे ।
कथयति को वा
स्वस्ति-विशोको नासि त्वम्‌ ?
प्रथयति को वा
पुण्य-श्लोको नासि त्वम्‌ ?
दिव्यालोको नासि त्वम्‌ ? (२)
*
यथासि जातः
कथमज्ञातः ?
विश्‍वे किं त्वं नाभिज्ञातः ?
कथयति को वा
हृत-निर्मोको नासि त्वम्‌ ?
प्रथयति को वा
पुण्य-श्लोको नासि त्वम्‌ ?
दिव्यालोको नासि त्वम्‌ ? (३)
*
द्वन्द्व-ग्रस्तः
किं त्वं त्रस्तः ?
माया-मोहौ द्वावत्रस्तः ।
कथयति को वा
निरस्त-शोको नासि त्वम्‌ ?
प्रथयति को वा
पुण्य-श्लोको नासि त्वम्‌ ?
दिव्यालोको नासि त्वम्‌ ? (४)
*
कुत आयातः
कदासि यातः ?
स्वजनाः सर्वे भुवि मायातः ।
कथयति को वा
ज्ञान-विलोको नासि त्वम्‌ ?
प्रथयति को वा
पुण्य-श्लोको नासि त्वम्‌ ?
दिव्यालोको नासि त्वम्‌ ? (५)

* * *
(इति अभिज्ञान-गीतिका)
गीतिकेयं प्रायः कहरवा-ताल-मध्यलयेन परिवेषणीया ।
= = = = = = = 


English Translation : 
http://hkmeher.blogspot.in/2012/12/abhijnana-gitika-drharekrishna-meher.html 
= = = = = =
Complete ‘Matrigitikanjalih’ Kavya: 
= = = = = =   

No comments: