Sunday, January 30, 2011

प्रबोध-गीतिका (Prabodha-Gītikā): Sanskrit Song: Dr. Harekrishna Meher

Prabodha-Gītikā (Sanskrit Song) 
Lyrics and  Tuning by : Dr. Harekrishna Meher  
(Extracted from ‘ Mātŗigītikāñjalih'- Kāvya of the Author)
= = = = = = = = = = 

प्रबोध-गीतिका  
गीत-रचना तथा स्वर-रचना : डॉ. हरेकृष्ण-मेहेरः   
(‘मातृगीतिकाञ्जलिः’ - काव्यतः)
= = = = = = = = = = 


मानव रे !
मानव रे !
वर-कलेवरे, मर-कलेवरे,
सद्‌भावं कुरु हृदयाभरणम्‌, दुःख-विशरणम्‌ ।
भव-सिन्धौ हरि-नाम हि शरणम्‌ ॥
(ध्रुवम्‌)
*
जगतां सर्वे सत्त्वादि-जुषः,
पुरुषे प्रकृतिः प्रकृतौ पुरुषः ।
जहि विभ्रान्तिं स्वदिव्य-कान्तिं भासय रे !
विनय क्लान्तिं लभस्व शान्तिं चिन्तय रे !
मानव रे !
वर-कलेवरे, गत-तमोज्वरे,
उन्मोचय तन्मायावरणम्‌, जन्म-विवरणम्‌ ।
भव-सिन्धौ हरि-नाम हि शरणम्‌ ॥ (१)
*
विकासनीया मैत्री ममता,
भाव्या नियतं सुमानविकता ।
पश्यालोकं पुण्यश्लोकं दर्शय रे !
वञ्चित-लोकं प्रपञ्च-शोकं नाशय रे !
मानव रे !
वर-कलेवरे, त्वं प्रेमभरे,
पवित्रय सदा स्वान्तःकरणम्‌, तपोविकिरणम्‌ ।
भव-सिन्धौ हरि-नाम हि शरणम्‌ ॥ (२)
*
छल-कपटादौ खला निमग्नाः,
दुर्मतयः पर-पीड़न-लग्नाः ।
आस्तिक-बोधं नयानुरोधं राधय रे !
शमित-क्रोधं स्वात्म-विशोधं साधय रे !
मानव रे !
वर-कलेवरे, कलुष-जर्जरे,
विधेहि मङ्गल-धर्माचरणम्‌, यशोवितरणम्‌ ।
भव-सिन्धौ हरि-नाम हि शरणम्‌ ॥ (३)
*
सन्तः सन्ति सहृदया विरलाः,
परोपकारे निपीत-गरलाः ।
विश्‍वजनीनं कर्म नवीनं भावय रे !
स्वार्थ-विहीनं सुसमीचीनं श्रावय रे !
मानव रे !
वर-कलेवरे, सरस-निर्झरे,
अमृतं प्लावय मधुरं झरणम्‌, दुर्गति-हरणम्‌ ।
भव-सिन्धौ हरि-नाम हि शरणम्‌ ॥ (४)
*
भोग-विकारं साहङ्कारम्‌,
संहर हिंसा-द्वेषोद्‌गारम्‌ ।
कुरु सत्सङ्गं जगदुत्सङ्गं मार्जय रे !
संयम-भङ्गं काय-तरङ्गं तर्जय रे !
मानव रे !
वर-कलेवरे, क्षण-विनश्‍वरे,
भजस्व सुतरां श्रीगुरु-चरणम्‌, आत्मोद्धरणम्‌ ।
भव-सिन्धौ हरि-नाम हि शरणम्‌ ॥ (५)
*
धार्या चित्ते भगवत्‌-सत्ता,
तन्मय-पार्थिव-जन्म-महत्ता ।
नम गोविन्दं तमादिकन्दं मार्गय रे !
उपरत-मन्दं परमानन्दं धारय रे !
मानव रे !
वर-कलेवरे, तव विभास्वरे,
असंशयं त्वं जेष्यसि मरणम्‌, इह संसरणम्‌ ।
भव-सिन्धौ हरि-नाम हि शरणम्‌ ॥ (६)
* * *

(इति प्रबोध-गीतिका)
(इयं गीतिका प्रायः कहरवा-ताल-मध्यलयेन परिवेषणीया ।)
= = = = = 


English Translation : 
http://hkmeher.blogspot.in/2012/12/prabodha-gitika-english-version-dr.html 
= = = = = 
Complete ‘Matrigitikanjalih’ Kavya: 
= = = = = = = =  

No comments: