Sunday, January 30, 2011

Sanskrit Song कलाकर-गीतिका (Kalākara-Gītikā): Dr.Harekrishna Meher

Kalākara-Gītikā (Sanskrit Song) 
Lyrics and Tuning by : Dr. Harekrishna Meher 
(Extracted from ‘ Mātŗigītikāñjalih'- Kāvya)
= = = =  = = = = 
*Song for the Moon* 

कलाकर-गीतिका  
गीत-रचना तथा स्वर-रचना : डॉ. हरेकृष्ण-मेहेरः   
(‘मातृगीतिकाञ्जलिः’-काव्यात्‌ ) 
= = = = = = = = =   


कलाकर हे ! 
हृदय-वियति मम समुदय नियतम्‌,
निज-किरणैः
सुविकिरणैः
शुचि-हासैरुद्‌भासय नियतम्‌ ।
हृदय-वियति मम समुदय नियतम्‌ ॥
(ध्रुवम्‌)
*
यत्र सन्ति मे सन्ताप-तमो-विभ्रमाः,
ततः समस्तान्‌ नीत्वा त्वमेव चन्द्रमाः ।
रुज-हरणैः
शम-झरणैः
कालिम-विवरे पूरय नियतम्‌ ।
हृदय-वियति मम समुदय नियतम्‌,
समुदय नियतम्‌ ॥ (१)
*
ललित-शीतला मृदुला सरसामोदिनी,
त्वदीय-कान्तिः सकल-क्लान्त्यपनोदिनी ।
विच्छुरणैः
सपारणैः

तया दिव्यया नन्दय नियतम्‌ ।
हृदय-वियति मम समुदय नियतम्‌,
समुदय नियतम्‌ ॥ (२)
*
विरहि-जनानां ज्वलनस्त्वं यदि तापदः,
मिलित-युगलयो-र्हरसि पुन-र्विरहापदः ।
सित-वर्णैः
प्रस्रवणैः
सराग-हर्षं प्लावय नियतम्‌ ।
हृदय-वियति मम समुदय नियतम्‌,
समुदय नियतम्‌ ॥ (३)
*
हृत्वा विरह-स्फुलिङ्ग-लिङ्गं पावकम्‌,
स्वाग्नेयाङ्गे वेशय सदयं मामकम्‌ ।
मुद्‌गिरणैः
सुधा-कणैः
सन्तापं निर्वापय नियतम्‌ ।
हृदय-वियति मम समुदय नियतम्‌,
समुदय नियतम्‌ ॥ (४)
*
आधारस्त्वं मधुर-कलानां शं-तमः,
इन्दो ! सुन्दर ! जन-नयनानां सम्भ्रमः ।
सपार्वणैः
सञ्चरणैः
ब्रह्मानन्दं विन्दय नियतम्‌ ।
हृदय-वियति मम समुदय नियतम्‌,
समुदय नियतम्‌ ॥ (५)
* * *

(इति कलाकर-गीतिका)
इयं गीतिका प्रायः कहरवा-ताल-मध्यलयेन परिवेषणीया ।
= = = = = 

English Translation :  
= = = = = = = = =
Complete ‘Matrigitikanjalih’ Kavya: 
= = = = = =   

No comments: