‘तपस्विनी’ महाकाव्यम्, दशम-सर्गः/डॉ.हरेकृष्ण-मेहेरः
(Sanskrit ‘Tapasvini’ Kavya,
Canto-10)
TAPASVINI
Original Oriya Epic Poem
By : Poet Gangadhara Meher (1862-1924)
Complete Sanskrit Translation By : Dr.
Harekrishna Meher
*
Published by : Parimal Publications,
27/28, Shakti Nagar, Delhi-110007,
ISBN: 978-81-7110-412-3. First Edition
2012.]
Tapasvini
[Canto-10]
= = = = =
= = = = = = = = = = = = = = = =
[Canto-10 has
been taken from pages 205- 216 of my
Sanskrit
‘Tapasvini’ Book.
= = = = = = = = =
तपस्विनी (महाकाव्यम्)
ओड़िआ-मूल-रचना * स्वभावकवि-गंगाधरमेहेरः (१८६२-१९२४)
सम्पूर्ण-संस्कृतानुवादः * डॉ. हरेकृष्ण-मेहेरः
= = = = =
= = = = = = = = = =
दशमः सर्गः
= = = = =
= = = = = = = = = =
समवाप्य तनय-रत्न-द्वयं
विधाय यत्नं प्राणातिशयं
जनक-कन्या न्यवेशयत्
लालन-पालने स्वीयं मनः ।
आन्तरिकं स्नेह-बन्धनम्
तदा निविडं संलग्नम् ।
निमिषमपि समीपं तयो-र्नात्यजत् ।
लघुममन्यत जीवन-भारमात्मनः ॥ (१)
वासरे सकृन्मात्रमप्यवगाहनाय
यदा तिष्ठति तयोः सान्निध्यं विहाय,
नीरार्द्र-वसना सत्वरं धावन्ती सा
प्रत्यावर्त्तते समुद्विग्न-मानसा ।
निरीक्षितुं नन्दनयो-र्वदनारविन्द-द्वन्द्वम्
प्राणेषु तस्याः सञ्चरति चञ्चलत्वम् ॥ (२)
विदलित-शर्वरीश-कला-गर्वाणि
अङ्गानि कुमारयोरवर्धन्त सर्वाणि ।
आस्य-युगलं पूर्णसुधानिधिवत्
अनुदिनं सौन्दर्य-निधानमभवत् ।
बभूवतुः क्षमौ तौ
मातृ-मुखमभिज्ञातुम् ।
समुन्मुखौ सञ्जातौ
तदुत्सङ्गे समुत्थातुम् ॥ (३)
जननी-मुखं निरीक्ष्य हसतः,
उत्सङ्गमन्विष्य तत्क्षणं क्रन्दतः ।
जननी सस्नेहं स्वाङ्के नयति यदा तनयौ,
क्रीड़तः परमाह्लाद-दोलायामुभयौ ।
मुहुर्मुहुर्मुखं विलोक्य तौ
हासयतो भृशं हसन्तौ ॥ (४)
सत्याः श्रीराम-प्रेयस्याः
मानसे स्वप्ने वा नासीत्
यद् दग्धास्ये तस्याः
आयास्यति हास्याङ्कुरः कश्चित् ।
अपूर्व-सुखस्यापूर्व-हासः समागतः
भजते सुप्रकाशतां स्वतः ।
भर्त्तृणा तत्सुख-भोगो न नीत इति
सती भाग्यमात्मनो नित्यं निन्दति ॥ (५)
पुत्रयुगलस्य वक्त्र-सरोजयो-र्देवी भारती
दशन-व्याजेन समुज्ज्वलं विराजती
प्राकाशयन् निसर्ग-ज्योतिः स्विकम्
विनिन्दित-कुन्देन्दु-प्रालेय-मौक्तिकम् ।
मृदुलं वादिता वीणा तयाद्यम्
मा-मा-मा-मा-स्वरै-र्मधुरमास्वाद्यम् ॥ (६)
स्वर्गीय-स्वरः स मलय-समीरणः
कुरुते पल्लवितं जननी-जीवनम् ।
स्फुटीभवति प्रबाल-पाटल-वर्णः
अधरयो-र्जनन्याः सजवनम् ।
तत्र दशन-प्रसून-कलिकाः
ज्योत्स्ना-प्रभया वर्द्धन्ते सुशोभिकाः ॥ (७)
अधिकृत्य महेन्द्रासनम् [१]
भास्वरं मानसं भास्करवत्,
कुबेर-कोषं प्रति पुरस्सरत् [२]
आस्य-प्रभावं प्रसन्नम्
समेधयति ससन्तोषम् ।
पुनस्तन् मन्यते,
स्वकीये करे समधिगतं वर्त्तते
संसार-सौख्य-सौभाग्यमशेषम् ॥ (८)
दर-व्याकोषारविन्द-सन्निभौ
मृद्वीमस्पष्ट-वाचमभाषतां सुतावुभौ ।
भारत्यास्तस्या हावं मनोरमम्
नयन-विलासं सौम्यवेशं लावण्य-विभ्रमम्
पश्यन्त्याः सत्याः प्राणाः
सञ्जायन्ते पुलक-परिपूर्णाः ।
मानस-भवने मोहः
नृत्यपरो भवत्यहरहः ॥ (९)
कुमारौ क्रमशो भुवस्तले समुपाविशताम्,
समवलम्ब्य जानु-प्रतलमचलताम् ।
अल्प-दूरस्था साह्लादमाहूय सती
तां गति-शक्तिं समेधितवती ।
तौ सहासं सकोतूहलम्
जननी-समीपं चलतश्चपलम् ॥ (१०)
हस्ते कदाचिद् धृत्वा मृत्तिकाम्
जिह्वां पङ्किलां कुरुतः स्विकाम् ।
यदा धर्तुं ददाति माता रम्याणि फलानि,
दोलित-वदनौ तौ निक्षिपतस्तानि ।
चलिताश्चूर्ण-चिकुराः संदृश्यन्ते सुन्दराः
मिलिन्दा यथारविन्दे लोल-लीलापराः ॥ (११)
जनन्याः करौ धृत्वा तौ
क्रमेण समुत्थितौ ।
ततः स्वपादौ समाश्रित्य सुतौ
गतिमकुरुतां करौ धृत्वा ।
स्वयमेव पुनश्चरणौ चालयन्तौ
रुदितवन्तौ गमने पतित्वा ।
वदने प्रदायाम्बा चुम्बनम्
कुरुते सन्तानयोः सन्तोष-सम्पादनम् ॥ (१२)
कानन-शकुन्तान् समाकारयतः
मनोरमं रङ्गं पश्यन्तौ कौतुकवशतः ।
बर्हि-पिच्छेषु विधाय मनोनिवेशम्
धावतो ग्रहीतुमुद्यतौ ।
धृत्वा कुरङ्ग-शावं क्रीड़तस्तौ
पुष्पपुञ्जै-र्विरच्य तद्वेशम् ॥ (१३)
नीत्वा कुमारौ सम्फुल्ल-मानसाः
कानने विहारयन्ति तापसी-तापसाः ।
सुमनोमाल्यै-र्मनोहरम्
विभूषयन्तः शीर्ष-भाल-परिसरम्,
कुसुमित-ब्रतती-दोलायाम्
समुपवेश्य चालयन्ति फुल्लायाम् ।
आनन्द-कलिका-राशिं विकास्य ततः
पुनःपुनरिति तौ निर्बन्धं कुरुतः ॥ (१४)
तनुद्वयी कुमारयोः श्यामला समुज्ज्वला
सुम-दोलायां सञ्जायते नयन-मञ्जुला ।
चलति यथा काननश्रीः प्रणयं विदधती
हरिन्मणिभिः सौम्यां दण्डीं मण्डयन्ती । [३]
वेपते यत्सहिता तरु-शाखा सुतराम्
सभ्रूभङ्गं हसति शोभामपराम् ॥ (१५)
पञ्चास्य-पराक्रमैः पञ्च-वत्सराः
कुमारौ सज्जीकृत्य क्रमेण गताः पुरस्सराः ।
व्यहरतां सीता-सुतौ स्वच्छन्दम्
नदी-शाद्वलोद्यान-काननेषु सानन्दम् ।
मानसं तयोर्निर्भयं सत्
श्वापद-विपदं मनागपि नागणयत् ॥ (१६)
सम्पाद्य चूडाकर्म कुमारयो-र्विधिना
मुनीन्द्रेण वाल्मीकिना ज्ञान-पयोनिधिना
दुर्गम-विद्याटवी-मध्ये समानीय तौ
नन्दनौ पञ्चाननौ कृतौ ।
निपातितवन्तौ तत्र कृत-सञ्चारौ
अज्ञान-कुञ्जरं कुमारौ ॥ (१७)
रस-रत्न-परिपूर्णः काव्य-पर्वतो वर्त्तते
श्रीरामचन्द्र-मृगेन्द्रो यत्र विराजते ।
दशकन्धर-सिन्धुरस्य रुधिर-धारा
प्रवहति झर्झरं निर्झरिणी ।
क्रन्दति तद्-गिरिकन्दरागारा
विषह्य दन्ताबल-दन्ताघात-क्लेशं केशरिणी ॥ (१८)
तत्पर्वत-चूलमारोहयन् सकौशलम्
मुनिप्रवरः कुमार-युगलम्
मृगशावकीकृत्य तत्राखेलयत्,
परन्तु तावक्रीड़तां शार्दूलवत् ।
रामं मृगेन्द्रममन्यतां तौ
जनकमविज्ञाय सिंह-सुतौ ॥ (१९)
गायतस्तौ जनन्या: सविधम्
महर्षि-प्रणीतं काव्यं रामायणाभिधम् ।
तान-लय-स्वरैः कृत-वीणावादनौ
श्रीराम-भक्तिरसे निमज्जित-चित्तौ
चालयतस्तौ मस्तकेक्षणं नन्दनौ
प्रेम-कल्लोलैरस्थिरतां गतौ ॥ (२०)
तर्जन-गर्जन-विलाप-हसितानि
प्रतिगानं भवन्ति सुप्रकाशितानि ।
समुल्लसति स्फीतमुरःस्थलम्
तथैव तयो-र्बाहुयुगलम् ।
प्रवहति स्वतः पुत्रयोः
कदाचिदुदकं नेत्रयोः ।
निविड़ं संलग्ना भवति शोभिनी
प्राणेषु काव्यभाव-सौदामिनी ॥ (२१)
विरच्य बाल-रसनायां वैचित्र्यपूरं
लास्यं सौम्यं सुमधुरं
वितरति समुल्लासं भारती सुनिर्मला
कमनीया नव्या भव्या समुज्ज्वला ।
प्रतिप्राणं पीयूषासारं मुञ्चति सः
जीमूत-मूर्त्तिः सन् समुल्लासः ॥ (२२)
समनुभूयन्ते तापसीभिः स्थिताभिः
विदेह-दुहित्रा सहिताभिः
शुद्ध-सङ्गीत-सुधा-पानैरमितानि
हर्ष-विषाद-शान्ति-सन्ताप-सुख-दुःखानि ।
आनन्द-क्षोभै-र्हृदयं द्रवते धीरम्,
स्रवति च नयनयोरस्र-नीरम् ॥ (२३)
रघुकुल-तिलकस्य
रामायण-काव्य-नायकस्य
हृदय-हार-मध्यमणी या सीता,
सैव कुमारयो-र्गर्भधारिणी माता,
अत्र निरतं विहरति
भागीरथी-तीर-कानने सम्प्रति,
जानकी-तनुजौ न जानीतो विषयमेतम्,
वाल्मीकेस्तपोधनस्य निषेधेन संगोपितम् ॥ (२४)
श्रीरामसीता-गुण-गौरव-सकलम्
गायतस्तौ सातिशय-कौतूहलम् ।
तन्निशम्य जनकात्मजा
सुखेषु मानसं निमज्जयति सलज्जा ।
आत्मानं प्रच्छाद्य साऽवहिता
गमयति समयं तापसीव स्थिता ॥ (२५)
तिष्ठन्ति हरिणा दत्त-श्रवणाः
रमणीयं रामायणं निशम्य मुग्ध-मानसाः
डवित्थ-सदृक्षा निश्चलेक्षणाः
विस्मृताहार-विहार-पिपासाः ।
शकुन्ता नीरुताः सन्तः
पूरयन्ति श्रुति-सम्पत्तिं हृदयान्तः ॥ (२६)
पूर्णकुण्ड-कवरी-गर्भेषु स्वयं
प्रपूर्य प्रसून-स्तवक-निचयं
तदनुगान-मग्ना भवन्ति नित्यम्
चालयन्तस्तरवो ब्रतती-हस्तं साभिनयम् ।
लुठति विमोहित-मानसा
अपूर्वानन्द-विवशा तमसा ॥ (२७)
वसुधा-वक्षसि प्रवहत्यमृतम्
धन्यवाद-नादै-र्नृत्य-निरतम् ।
समागत्य चतुर्दिशां वनवासिनो जनाः
तत्सुधा-धारायां रमन्ते प्लवमानाः ।
प्रपूरित-सर्वश्रवण-विवरागारा
गीर्वाण-नगरीं प्लावयति सा मधुधारा ॥ (२८)
विरञ्चि-पुरन्दर-महेश्वराः
तद्गान-श्रवण-तत्पराः
अशेषं धन्यवादम्
निवेदयन्ति हार्दम् ।
उदीची प्रतीची
अवाची च प्राची,
समस्ता दिगङ्गनाः
वर्तन्ते नर्त्तन-मग्नाः ।
गान-गर्व-पेटिकां न्यस्य विविध-बन्धम्
नृत्यन्ति चाप्सरसो गन्धर्वैः सार्धम् ॥ (२९)
सुरर्षि-र्नारदो भुवने भुवने भ्रामं भ्रामम्
व्यक्तवान् मुक्त-कन्ठेन परमानन्दम्,
प्रशंसन् वाल्मीकि-कविता-रसमभिरामम्,
दाशरथि-मैथिली-यशोऽपि सुविशदम्,
तयोः कुमारयो-र्गायनम्
विपञ्ची-स्वनञ्च सुधा-सेचनम् ॥ (३०)
विश्वविश्रुता वल्लकी यस्य,
स बालक-वल्लक्या स्वयं
समवाप्य प्रमोदातिशयं
प्राचारयत् तामुत्तमेति प्रशस्य ।
मुनिशेखरो धन्य-धन्यः सः
कुर्वन् पर-प्रशंसा-गानम्
सम्फुल्ल-मानसः
व्यवर्धयदात्मनो महिमानम् ॥ (३१)
स्वगुणे विराजितेऽपि जनः
भूत्वा पर-सद्गुण-प्रशंसा-प्रवीणः
फलितं कुरुते गुण-तरुमात्मनः ।
कार्मुक-गुणेनैव चाल्यते मार्गणः ।
वहन् कुसुम-सौरभ-सम्भारमभितः
हर्षातिशयं संसारे वितरति मारुतः ॥ (३२)
एकादश-वर्ष-वयस्कौ
संवृत्तौ यदा बालकौ,
अभवद् विधिमतं सम्पन्नम्
तयोः शुभोपनयनम् ।
ततो वेदाध्ययनं कुर्वन्तौ
अलभतां ज्ञान-नयनं तौ ।
वेदशास्त्रविदोः सुतयोः
प्रतिभां सम्पश्यन्ती तयोः
समुज्झति दुःखं समस्तम्
सती जानकी स्वमनोगतम् ॥ (३३)
यमुनाम्भसि भानुकिरणवद् भव्या
कमनीया कान्तिस्तारुण्यमयी नव्या
यामल-कुमारयोः श्यामले
कलेवर-युगले
सविचित्र-कौशलम्
शनैः समलञ्चकार विमलम्,
समानीय ऋणम्
वरुण-निधितो रत्नकिरणम् ॥ (३४)
तयोर्भाषा ज्ञान-सम्मार्जिता
श्रुति-हृदय-पावनी सञ्जाता ।
व्यवहारो बभूव भाषानुगतः,
चरित्रे देवत्वं सुरचितं स्वतः ।
जीवने व्यरचि प्रभोर्मिमाला शोभनैः
दीप्यमानैः काय-मनोवचनैः ॥ (३५)
तनुजोच्चारित-श्लोकै-र्जननी-जीवितम्
समभवत् सुखालोक-प्रपूरितम् ।
अधिकाधिकं मानस-विनोदिनी
भवति स्म शोक-स्मृति-तमस्विनी ।
सुखस्य मूल्यं जानाति दुःखी जनः,
तत्रातुल्यं भवति सुखं चिरसुखिनः ॥ (३६)
सुतयो-र्नूतनं फुल्ल-रूपमवदातम्
भवति जननी-नेत्रे रत्नस्तूप इति प्रतिभातम् ।
जनन्याः श्रुति-युगले सरसा
पीयूष-निष्यन्दीभवति नन्दन-प्रशंसा ।
तत्र भर्त्तुः कीर्त्तिराजी सुदीप्ता
सत्याः कृते स्वर्भुवन-निश्रेणी संवृत्ता ॥ (३७)
दिवसाद् यस्माद् मातुरुत्सङ्गं विहाय तौ
निर्भयं व्यहरतां वैदेही-सुतौ,
ततःप्रभृत्यविरतम्
सत्या समाचरितं तपोव्रतम् ।
पति-पादयोः समर्पित-मानसा
समापयितुं जीवनं निविष्टा बभूव सा ॥ (३८)
क्रमशः कृशत्वमगच्छत्
निदाघ-नदी-स्रोतोवत्
सत्याः सीताया जीवितम् ।
कृष्णपक्ष-शशाङ्क-सङ्काशं तत्
अमा-यामिनीं मृत्युं लक्ष्यं न्यरूपयत् ।
दिनमणि-समानं
स्वामिनं मन्यमानं
[४]
बभूव तत्र सङ्गमाशान्वितम् ॥ (३९)
सती भावनारतासीत्,
दृष्टिं निवेश्य सकृत् कथञ्चित्
स्वामिनः पावन-पद-युग्मे
भग्नं कुर्यां कलेवरार्गलं मे ।
प्राण-हरिणः प्रस्थाय झटिति
तस्मिन् मुक्ति-वने निवासं कुर्यादिति ॥ (४०) *
= = = = = = = = =
पादटीका :
[१] महेन्द्रासनम् = इन्द्रस्य आसनम्, पूर्व-दिशा ।
[२] कुबेर-कोषः = कुबेरस्य भाण्डागारम्, उत्तर-दिशा ।
[३] दण्डी = नासाया: अलङ्कार-विशेष:, ‘नथ’ इति लोके ।
[४] अमावास्यायां सूर्य-चन्द्रयोः मिलनं भवति । अतः सा ‘सूर्येन्दु-सङ्गमः’ इति कथ्यते ।
= = = = = =
(इति स्वभावकवि-गङ्गाधरमेहेर-प्रणीतस्य
तपस्विनी-महाकाव्यस्य
श्रीहरेकृष्णमेहेर-कृत-संस्कृतानुवादे दशमः सर्गः)
* * * *
[सौजन्यम् :
स्वभावकवि-गङ्गाधरमेहेर-प्रणीता ‘ तपस्विनी ’ *
संस्कृतानुवादकः - डॉ. हरेकृष्ण-मेहेरः
प्रकाशकः - परिमल पब्लिकेशन्स्, २७/२८ शक्ति नगर, दिल्ली-११०००७, भारतम्.
प्रथम-संस्करणम् - २०१२ ख्रीष्टाब्दः]
= = = = =
=
Tri-lingual Translations of Poet
Gangadhara Meher’s Tapasvini Kavya
By : Dr. Harekrishna Meher
Hindi-English-Sanskrit Articles on
Tapasvini Kavya :
* * * *
No comments:
Post a Comment