‘तपस्विनी’ महाकाव्यम्, षष्ठ-सर्गः/डॉ. हरेकृष्ण-मेहेरः
(Sanskrit ‘Tapasvini’ Kavya, Canto- 6)
TAPASVINI
Original Oriya Epic Poem
By : Poet Gangadhara Meher (1862-1924)
Complete Sanskrit Translation By : Dr. Harekrishna Meher
*
Published by : Parimal Publications, 27/28, Shakti Nagar, Delhi-110007,
ISBN: 978-81-7110-412-3. First Edition 2012.]
= = = = = = = = = = = = = = = = = = = =
Tapasvini [Canto-6]
= = = = = = = = = = = = = = = = = = = =
[Canto-6 has been taken from pages 120- 141 of my Sanskrit
‘Tapasvini’ Book.
For Introduction, please see : ‘Tapasvini Mahakavyam: Ekam Aalokanam’
= = = = = = = = =
तपस्विनी (महाकाव्यम्)
ओड़िआ-मूल-रचना * स्वभावकवि-गंगाधरमेहेरः (१८६२-१९२४)
सम्पूर्ण-संस्कृतानुवादः * डॉ. हरेकृष्ण-मेहेरः
= = = = = = = = = = = =
षष्ठः सर्गः
= = = = = = = = = = = =
एकेद्यु-र्व्योम्नि समुत्थितः
कलानिधिः सार्धं चित्रया सुप्रीतः ।
व्यराजत नवमालिका-तती
विपिने विकस्वरतां दधती ॥
आश्रमस्य मल्ली-वल्ली-प्रचयः
उल्ललास सप्रमोद-प्राचुर्यः
तत्र शनैः शनैः
पुञ्जपुञ्ज-सूनैः फुल्ल-लपनैः ॥
माधवी-वकुल-मल्ली-नियाली-कुसुमानां
सौरभ-सम्भारै-र्मन्द-मन्दं प्रवहन्,
शुभ्रां समुज्ज्वलां ज्योत्स्नां
तमसा-पुलिने समालिङ्गन्
आसीत् समीरणः
स्वैर-विहार-प्रवणः ॥
निकषा जानकी-पर्णकुटीरं
विविधाकार-धराः
खण्डखण्ड-कलाकर-किरणाः
द्रुमच्छायासु धीर-धीरं
प्राचीमभिलक्ष्य पुरस्सराः
आसन् स्वाङ्ग-ह्रास-वृद्धि-लोपान् कुर्वाणाः ॥
स्वल्प-दूरे पर्णशालायाः
उत्सङ्गे चन्द्रिकायाः समुज्ज्वलायाः
आसीन् निषेदुषी वैदेह-तनया
साकं सहचर्या ।
सत्यन्तिके स्मितास्याः
पीयूषांशु-रश्मयः सुदीप्ताः
दृश्यन्ते स्म विच्छुरिताः
कलेवरादिव तस्याः ॥
समाश्रितैक-पत्रौ खद्योतौ
तनुतः स्म प्रभां मनोहराम्
इन्दोरपि सुन्दरतराम् ।
समवलोक्य तौ
सती वाणी-सरसा
अवोचत् स्वचेतसा ॥
“अये खद्योताः !
पतङ्ग-जीवने यूयं धन्यतां गताः ।
युष्मदधिका वर्त्तन्ते
मर्त्त्ये नैके प्राणिनः ।
परन्तु युष्मदीय-कान्तिवत् किं विद्यते
कस्यचित् कान्तिः पुनः ?
विश्वपते-र्वरः समधिगतः
युष्माभि-र्महाभाग्य-वशतः ।
कान्ति-र्युष्माकमतः सुशोभिनी
जन-नयनानां प्रीति-प्रदायिनी ॥”
अश्रावि समयेऽस्मिन् चक्रवाक-रुतम्,
करुणा-वर्षणं भृशमनुभूतम् ।
प्रसभमलभत प्रसारं करुणोदकं तत्
सती-नेत्र-सरितः
कपोल-पुलिनं यावत् ।
गोपयित्वा सहचरीतः
सत्वरं चेलाञ्चलेन
वदनं प्रमृष्टं वैदेह्या स्वेदच्छलेन ॥
अपॄच्छत् सखी तज्ज्ञात्वा रामजायाम्,
“सुशीले ! कथय नु यथार्थम्,
निशीथिन्यां समागतायाम्
चक्रवाकाः क्रन्दन्ति कथम् ?
नगराभ्यन्तरे वसन्ति
किमेते शकुन्ताः ?
मध्यरात्रौ तत्र रुदन्ति
किं ते कातर-स्वान्ताः ?
यद्यपि रुदन्ति ते विरसाः,
श्रुत-तद्-रोदनाः
किं चिन्तयन्ति मग्न-मानसा
नगर-निवासिनो जनाः ?”
निशम्य सती वचस्तत्
लोतक-धारणासहाऽभवत् ।
संवृत्तस्तस्याः कण्ठ-स्वरः
तत्र वागवरोधकरः ॥
निरीक्ष्य वयस्या तत्
वैदेहीं न्यगदत्,
“सति ! एष विषयस्त्यज्यताम्,
क्षमस्व मे चपलताम् ।
त्वन्मनसि वृथा
दत्ता मया महती व्यथा ॥”
अकथयत् मैथिली, “वयस्ये !
आत्म-परिचयमनिवेद्य
अस्थिर-प्राणाऽहमद्य ।
विश्वासोऽस्ति मम हृदये,
जीवनमन्तिमं मामकम्
अत्र यापयिष्यामि त्वया साकम् ॥
त्वत्-सन्निधौ चेत्
स्वात्मकथा न वक्ष्यते,
कीदृशं वा भवेत्
विश्रम्भो मयि ते ?
निगदितायां यास्यति
दुःखराशि-र्मे लघुत्वम् ।
संसारः कीदृशोऽस्ति
तत्र समवगमिष्यसि त्वम् ॥
सखि ! अहं राज-दुहिता
प्राचुर्य-दोलायां संवर्द्धिता
नृपेन्द्र-निलये
उत्सङ्गे मधुमये ॥
हंस-केकि-कोकिलानां
पुनः कीर-सारिका-दलानां
स्वरैः सदा मधुरम्
मुखरं व्यराजत राजपुरम् ॥
यामिनी-समये समागते
चक्रवाको रोरुद्यते ।
तत्र वाल्य-हृदये मम
दुःखं मनागपि नानुभूयते स्म ॥
आलि ! वाल्य-काले प्रयाते
तारुण्ये मम समायाते
तत्राभवन् मन्नयन-गोचराः
नानादेशेभ्यः समुपागता नरेश्वराः ॥
आसीद् रत्नमयमेकं शरासनम्
पित्रा रक्षितं तदत्यन्त-स्वान्त-मोहनम् ।
क्रमशो नरेशा एकैकं
धृत्वा तत् कार्मुकं
समाकृष्य सकृन्मात्रम्
आसने निदधति स्म स्वस्व-गात्रम् ॥
रत्न-मुकुटाच्छादित-शुक्ल-केशैः
प्रादर्शि बलं तत्र कैश्चिन् नरेशैः ।
केचिद् वा युवानो नरेशाः
किशोर-केशरि-विभ्रमं वहन्तः
कृत-कार्मुक-स्पर्शाः
तत्र प्रत्यावृत्ताः स्वतः ॥
विलोक्य तेषां गमनं सदर्पं
साहसं च विफलम्,
सखि ! हास्यं तदानल्पं
मन्मनसि जायते स्म चपलम् ।
साकं सखीजनैः
हर्म्योपरि स्थितया
विलोकितं सकलं शनैः
सकौतुकं मया ॥
परिशेषे समागतो जनैको राजन्य-वंशावतंसः
न्यक्कृत-मरकत-कान्तिः कम्यवर्णशाली,
कार्मुकमुपेत्य व्यराजत सः
मन्ये, नरपति-पुत्ररूपः स्वयमंशुमाली ॥
समवलोक्य तम्
हृदयं मे स्वत एव द्रवीभूतम् ।
सोऽनुभवो न भवति
तापसी-जीवने सम्प्रति ॥
नरपति-निकरं प्रति
मया बहुशः समुपहसितम् ।
परं चापल्यं झटिति
मम समस्तमवसितम् ॥
सखि ! तादृशं रूपं रमणीयम्
समवाप्स्यति नेत्रद्वयं मदीयम्,
भावनैषा नासीत्
मानसे मे कदाचित् ॥
तस्य सुरङ्ग-चरण-द्वयं
वन्दितं सविनयं
मदीय-विमल-हृदयेन
भक्ति-प्रीति-तन्मयेन ॥
मम पितुः प्रतिज्ञासीदवितथा,
कार्मुक-भङ्गो येन करिष्यते,
तस्मै केवलं विधास्यते
मम पाण्यर्पणं सर्वथा ॥
चिन्तितं मया मानसे,
‘ तस्मिन्नेव दिवसे
समाप्तिं गता सा प्रतिज्ञा ।
भविष्यामि तपस्विनी गृहीत-पित्राज्ञा ॥
कार्मुक-भङ्गः करिष्यते केन,
अत्र किं वाऽस्ति निश्चितम् ?
इतो वीर-नायकेन
क्रीतं खलु मम चित्तम् ॥
एकस्मिन् रमते मनः,
भवति पतिश्चेदन्यो जनः,
तर्हि जीवने निधने च हा !
भविष्यति दुर्गति-र्दुर्विषहा ॥
कुसुम-कार्मुकस्य भाजनं
कम्रः करो यस्य,
अत्रैतत् कार्मुक-वहनं
केवलमवमाननं तस्य ॥’
मम सौभाग्य-बलेन
सपदि खण्डितं वीरवरेण तेन
तद् दुर्धरं कार्मुकं निर्बाधम्,
मम हृदय-सन्तापेन सार्धम् ॥
निर्व्यूढ़ो वीरवरेण साकं मे स्विकः
पाणिग्रहण-महोत्सवो माङ्गलिकः ।
सम्प्राप्य तस्य स्वर्गीय-प्रणयम्
धन्याऽहं संवृत्ता स्वयम् ॥
आसन् वीरवरस्यात्मनः
तस्यावरजास्त्रयः,
मम भगिनी-त्रय्या सम्पन्नः
तेषां शुभ-परिणयः ॥
पितृपुरात् पतिपुर-प्रस्थान-मार्गे
पुनः स्वामि-करे समर्पितं पुरोभागे
क्षत्रियगोत्र-केतुना भार्गव-पुङ्गवेन
कार्मुकमेकं तेजोमयम्,
विलोक्य तन्मनसि मे समजनि भयम् ।
पुनः किं प्राप्स्यते मत्प्राणधवेन
तेजोमयी कापि मनोहारिणी,
भविष्यति सा वा मम प्रणय-वैरिणी ॥
स्वामिना मे तस्मिन् वाणासने
कृत-सायक-सन्धाने
तमवृणीत सत्वरम्
भार्गवी वीरलक्ष्मी-र्वीरवरम् ॥
मम हृदय-मुदमवर्धयत्
सा वीर-लक्ष्मीः,
उत्पलिन्याः प्रीतिं यद्वत्
वर्धयत्यम्बरमणि-रश्मिः ॥
क्रियते भावनैका स्वान्तेन,
परन्तु सञ्जायते फलमन्यत् ।
सखि ! नावगन्तुं शक्यं कदाचन
संसारे विधातु-र्विधानं यत् ॥
समुत्तोल्य विहायसि दीप्तिमतीं
वीरानुरूपां वैजयन्तीं
वीरवरो मे प्रिय-कान्तः
पुरोऽसरत् सोल्लसित-स्वान्तः ॥
मम श्वशुर-भवनम्
निखिल-सम्पदां वनम् ।
तत्र प्रविशति मन्दं मधुमये
शुभ-सन्देश-मलये
अलभन्त व्याकोषतामपरिमितानि
सौन्दर्य-द्रुमेषु प्रमोद-प्रसूनानि ।
प्रभा-पल्लव-प्रकरः
समजनि जनानां चित्तहरः ॥
सम्पन्न-नव-परिणयोत्सवाः
चत्वारो भ्रातरो वीर-पुङ्गवाः
सन्तो दीप्तिपूर्णाः कलिताभरणाः,
सज्जीकृत्य ततोऽप्यधिकं
नववधूनां वेशं माङ्गलिकं
तद्भवनं प्राविशन् मुदितान्तःकरणाः ॥
सखि ! एका वृद्धा योषित्
राजभवने तत्रासीत् ।
अजायत तस्मिन् समये
आनन्दासार-प्रसारो वचन-निचये ।
नक्षत्रराजिभि-र्विभ्राजितं चतुर्दिशां वियत्
अद्य समागत्य नृपेन्द्र-भवनं व्यभूषयत् ॥
तदाऽहमपश्यम्,
वक्त्र-मण्डलं मद्भगिनीनां सम्पूर्णम्
नवप्रणय-ह्रिया सातिशयम्
अद्योतत पाटल-वर्णम् ।
तत्र सञ्जातो नवीन-स्वेद-बिन्दुनिकरः
रत्न-प्रभाभिरभवद् विभास्वरः ॥
अद्य सखि ! भाल-परिसरे ते
स्वेद-लव-सिक्ते
विलोक्य कलाकरस्य किरण-निकरम्
स विषयः संस्मर्यते स्फुटतरम् ॥
स्वर्ग-वैभवमिति यत्
जना विनिगदन्ति,
श्रुतिः सत्यं मत्वा तत्
चेतसि लोभं जनयति ॥
स्वर्गलोभ-वशतो नरेश्वराः
समुज्झित-राजसिंहासनाः
तपस्यन्ति कानने व्रतपराः
कृत-फलमूल-भोजनाः ॥
सखि ! मया विलोकितं यत्
श्वशुरस्य निकेतने,
भावितम्, न वर्त्तते तत्
देवाधिराज-भवने ॥
श्वश्रू-श्वशुराणां स्नेहातिशयः
प्राणपतेश्च प्रणयः,
सर्वस्तदा स्वर्ग-भुवनं प्रति
मम हृदये हेयबोधं जनयति ॥
बहवो नवा नवाः
समायोजिता महोत्सवाः ।
भवेऽस्मिन् भवतीति तादृशः
नासीन्मे ज्ञान-लेशः ॥
पति-प्रेम-रत्नानां
पुन-र्नॄपसद्म- रत्नानां
मयूखैः सौख्यमयः
यापितो मया समयः ॥
कर्त्तुं श्रवण-गोचरं
दीन-चक्रवाक-स्वरं
ममावसरो नासीत्
शर्वर्यां वासरे वा कश्चित् ॥
इत्थंकारं समतिवाहिताः
मम द्वादश-समाः ।
अभवन् मानसे प्रतीताः
द्वादश-दिवस-समाः ॥
एकेद्युः कान्तो मे
सस्मितमुवाच समुपेत्य माम्,
‘अद्य यामिन्यां प्रियतमे !
अस्माभिरधिवासे स्थीयताम् ।
त्वां हृदयालङ्कारं कर्त्तुकामा मनोरमा
श्वो वरिष्यति मां राज-रमा ॥’
अभाषि मया ततः,
‘नाथ ! आसीत् पूर्णो मयि यः
तव प्रणयः स्वर्गीयः,
स भावी न किं विभाजितः ?’
कान्तेन तदोदीरितम्,
‘स्वाभाविकं भवति
यद्यपीदं चरितम्,
तथापि नम्रतामेति
मस्तकं राजरमायाः,
अङ्घ्रि-युग्मे सत्या रामायाः ।
सिन्धु-नीरमूर्ध्वं व्योम्नि समुत्थाय
वहति जीमूत-कलेवरम् ।
जगतां मङ्गलं विधाय
प्रविशति तत्समुद्राभ्यन्तरम् ॥’
मङ्गल-विधानै-र्गतवती
सा तमस्वती ।
श्रुतिगोचरतां यातः
विशेषं मङ्गल-वाद्यनादः प्रातः ॥
स्वामी मे सामात्यः समुपेत्य पितरम्
प्र्रत्यावृत्त्य प्रोवाच मां वचो दुःखभरम्,
‘ प्राण-सङ्गिनि अयि !
न्यस्य मम जीवितं त्वयि
अद्य प्रयामि काननम्
पालयन् पित्राज्ञा-वचनम् ॥
युवराजो भविता
भरतो मे प्रियभ्राता ।
तस्य प्रणय-भाविता
राजश्रीः सम्प्रति सञ्जाता ॥
दर्शयिष्यसि भरतं प्रति
सम्मानं त्वं मानवति !
स्वीकृत-राजविधाना
समुज्झित-निज-ज्येष्ठाभिमाना ॥’
पत्यु-र्वक्त्रमण्डलं मया विलोकितम्
शान्त्या पूर्ववदासीत् समुद्भासितम् ।
विपिन-यात्रा-निमित्तम्
आसीद् व्यग्रता तस्य चित्ते ।
परन्तु हृदयं प्रतीतम्
व्याकुलितमिव मत्कृते ॥
स्वामी यद् ब्रवीति
मया मन्येत ननु परिहास इति ।
परन्तु चतुर्दिशासु समुत्थितानि
सव्यथं रोदनोच्छ्वसितानि ॥
हाहाकार-रवैः सर्वम्
सदनं प्राकम्पत सजवम् ।
भावितं मया सविस्मयम्
‘अद्भुतः स्वप्नः किमयम् ?’
साश्चर्यं न्यगादि मया,
‘ प्राणेश ! वनं प्रस्थिते भवति
किं प्रयोजनं दास्यानया
राजभवने सम्प्रति ?
अभविष्यं राज्ञीपद-सभाजिता,
भविष्यामि भिक्षार्थिनी ।
सेविष्ये तव श्रीचरणौ नियोजिता
कानन-सन्निवासिनी ॥
त्वदीये श्रीपद-द्वये मतिर्मे,
त्वदीये श्रीपद-द्वये गति-र्मे ।
नास्ति मे त्वां विना
स्वर्गपुर-सम्पदामपि कामना ॥
प्रियस्त्वदीयोऽवरजः
भविता युवराजः ।
यदा गमिष्यते त्वया
सहास-वदनं कानन-वर्त्मनी ।
युवराज्ञी भवित्री मदीया
माण्डवी भगिनी ।
कथमहं ते सहधर्मिणी
न सम्पत्स्ये भवच्चरणाङ्कचारिणी ?
यदि स्यात् तत्सुखाद् वञ्चिता
निजं जीवनं हास्यतीयं सीता ।
प्रभुचरण-सेवा-व्यतिरिक्तम्
विश्वं सर्वं तस्याः कृते तिक्तम् ॥’
आसीत् स्वामिनो मनसः
यो विषादो मनाक् ।
तद्वचनै-र्मदीयैः सः
अपासरद् दूरं द्राक् ॥
पितृ-मातृ-भ्रातृ-बान्धवान्
भृत्य-परिजनांश्च परित्यज्य सर्वान्
नीत्वा मां साकं कान्तः
काननं प्रति प्रयातः ॥
तत्रासीत् केवलं देवरो मे यः
लक्ष्मण-नामधेयः,
अभवत् स स्वामिनः
सङ्गी काननगामिनः ॥
निक्षिप्य राजसुख-निचयं
गर्भे विस्मृति-स्रोतस्वत्याः,
अभ्रमाम गहन-पर्वतेषु वयं
नव्य-हर्षोत्फुल्ल-हृदयाः ॥
आत्मनो विन्दन्ती सखीवृन्दं
मुनिकन्याजनं काननस्थलेषु,
अभवं निमज्जिताहं स्वच्छन्दं
तासां स्नेहसौख्य-सलिलेषु ॥
पञ्चवटी-विपिने
गोदावरी-पवित्र-पुलिने
आस्म बहुवासर-पर्यन्तम्
समुत्फुल्ल-प्राणा वयमत्यन्तम् ॥
यामिन्यवसाने समीरः
समाहृत्य कानन-सुम-सुवासम्,
प्रवहन् मन्द-मन्दं धीरः
कुरुते स्म सुरभिपूर्णं पर्णावासम् ॥
तत्र समागत्य कोकिलः
राजवैतालिको गानशीलः
वितरति स्म मधुभरम्
कर्णविवरेषु पञ्चम-स्वरम् ॥
सार्धं मयूरीभि-र्वर्हिणाः
ललित-नृत्यपराः प्रवीणाः
प्रातर्मम कुटीराजिरम्
विभूषयन्ति स्म सुरुचिरम् ॥
समायान्ति स्म सकौतुकाः
हरिण-माणवकाः
अशितुं नीवार-वारम्
मम कराभ्यां स्वाहारम् ॥
विहाय मातुरङ्कं
कलभ-कलभीगणाः
क्रीडन्ति स्म ममान्तिके निःशङ्कं
मत्कराभ्यां लब्धाहार-कणाः ॥
नानाविध-प्रसून-ग्रथितं
हारमहं रमणीयम्
अर्पयामि स्म स्वामिकण्ठे समुचितं
प्रीत्युपहारं मदीयम् ॥
कौतुक-प्रवणो भर्त्ता मे
वेणीमलङ्कृत्य सुमनोभि-र्मनोरमाम्,
विहरति स्म पुष्पारामे
स्वेन सह नीत्वा माम् ॥
स वदति स्म, ‘सखि प्रेयसि !
मम प्रीति-प्रतिमा त्वमसि ।
जीवन-सङ्गिनी मे मनोरमा त्वम्,
स्वर्गसुखानां गरिमा त्वम् ॥’
तदासीद् वचनं मम,
‘ हे जीवितेश प्रियतम !
तुच्छं स्वर्गसुखं तुल्यतां न जातु भजते
सार्धं प्रणयाधिकारेण ते ॥’
एकेद्युः सुमनोभि-र्निर्माय चन्द्रातपं सुन्दरम्
कुसुममयं स्तम्भ-निकरम्,
कदम्ब-सून-करम्बितं सिंहासनम्,
कुसुममयं चामरं शोभनम्
कुसुममयमातपत्रम्
कुसुम-सज्जितं व्यजनं च विचित्रम्,
केतकीदलै-र्मुकुटं व्यरचयम्
कलित-सौम्य-कुसुम-रत्नप्रचयम् ॥
अवदं ततः सप्रश्रयम्,
‘ प्राणेश ! पूजयिष्यामि ते पदद्वयम् ।
सिंहासनमिदं त्वया
सकृदलङ्क्रियतां कृपया ॥’
मनस्वी प्राणेश्वरः
मामशंसत् सस्मितम्,
‘ प्रिये ! राजोपचार-प्रकरः
निषिद्धोऽस्ति मन्निमित्तम् ।
त्वामद्य समलङ्करिष्यामि सुन्दरीम्
विधाय कानन-कुसुमेश्वरीम् ॥’
मत्सविधे स एवमुक्त्वा
सुमै-र्मां व्यभूषयत् प्रसभं करं धृत्वा ।
स्वीयं शपथ-वचनं दधानः
निरस्त-मदीयापत्तिः
पुरतो दण्डायमानः
मां निरवर्णयत् प्राणपतिः ॥
सहसा ह्रिया मे
मुद्रितमभवन् नयन-द्वयम् ।
कुसुमासनेऽभिरामे
समुपाविशं विद्रविता स्वयम् ॥
मुदित-हृदयः प्रियवरः
मामभाषत रसिक-शेखरः,
‘अयि कुसुमेश्वरि !
निक्षिप्यतां करुणा-कटाक्षो ममोपरि ॥’
तस्य मोदोल्लसितमाननम्
निरीक्ष्य न्यवेदयमिदं वचनम्,
‘ हे विवेकि-पुङ्गव !
अविधिरेष संवृत्तस्तव ।
प्रभु-चरणार्चन-निमित्तम्
यत् किञ्चिन् नोपयुक्तम्,
तद् भवति किं मया
भोग्यं दास्याधमया ?’
प्रोवाच प्राणपतिः,
‘ प्रणय-प्रणयिन्यो-र्भवतीयं रीतिः ।
एकस्य मान-वर्धने तत्परः
प्रीतिं प्राप्नोति जनोऽपरः ॥’
वल्लभ-लपनाद्भवं
समाकर्ण्य प्रीति-वाक्यमेवं
स्वीय-भाग्यं धन्यं मन्यमाना
अभवं सानन्दमहं निर्वचना ॥
क्रमेण समायाता सन्ध्याऽभिरामा,
व्योम्नि समुदितो हिमधामा ।
व्यहरत् कानने धृत-मदीय-करः
कान्तः प्रियतमो रघुवरः ॥
पुनर्मम चित्तरञ्जन-निमित्तम्
वर्णयति स्म वन-वसति-सौख्यवृत्तम् ।
अदूरे तदा श्रुत-चक्रवाक-स्वरः
सहसा मे वदनमचुम्बत् प्राणेश्वरः ॥
यदा तत्-कारण-सम्पृक्ता
सकौतुकं मया जिज्ञासा कृता,
स यदुत्तरमवदत्
समायाति सम्प्रति मे स्मृतिपथं तत् ॥
अभाषत भर्त्ता, ‘अयि प्रियकान्ते !
दुःख-वह्नौ दह्यमानो वर्त्तते
व्याकुलितोऽसौ चक्रवाकः
प्रेयसी-विरहितो वराकः ॥
आदिवसं मोदते सः
प्रियाङ्गना-सङ्ग-सुख-सरसः ।
इदानीं किन्तु मनुते तिक्तम्
तस्या विरहेण स्वजीवितम् ॥
न स्याः शुभास्या त्वं यदि
वनवास-सङ्गिनी मे,
दुःख-दग्धोऽहं स्वहृदि
विहरन्निह स्यां गहने दुर्गमे ॥
क्रियते वनवास-विषयकं
यद् यद् मया सुख-वर्णनम्,
कृतं स्यान् निश्चितं शुष्कं
तेन समस्तेन मज्जीवनम् ॥
कान्तामन्तरेण विकलतां स्वभावतः
याति जीवनं कान्तस्य प्रणयवतः ।
विकलं जीवनमित्थम्
मनुते सर्वं संसारं व्यर्थम् ।
संसार-पारावारे वर्त्तते
प्लवमानो यदि प्राणी,
तरणाभिलाषिणः तस्य कृते
शरण्या प्रणयिनी-तरणी ॥’
नानुभूतासीद् विरह-व्यथा
मानसे तदा मया ।
ततो निशम्य तदहसं सर्वथा
अवनत-लपना त्रपया ॥
तद् दुःखं दारुणम्
कियत्-कालानन्तरं हन्त !
जीवने मे सम्पूर्णम्
अधिकारमलभत ॥
भुक्त-भोगो जनः केवलम्
अनुभवति परस्य दुःख-सकलम् ।
चक्रवाक-स्वनेनाद्य निस्सारितानि
मम नयनयो-र्लोतकानि ॥”
अभाषत तापसी, “ सखि ! विषयस्ते
मया नूनं समवगतः सावधानम् ।
त्वदीय-प्रियतमस्य विद्यते
हृदयं प्रेमसुधा-निधानम् ॥
भवेद् व्यथया रोदन-रतः
चक्रवाक-प्रतीकाशः स नृप-केशरी ।
प्रभाता भवतु सत्वरमतः
दारुणा ते विपत्ति-विभावरी ॥
विपर्यस्तोऽभवत् तव स्वर्णिम-संसारः ।
कथं घटितोऽयं दारुणो दुर्विचारः ?
भर्त्रा ते भूमीभृता
या जीवित-सम्पत्तीकृता,
तां परित्यक्तुं मनस्तदीयम्
कीदृशमभ्यलषत् स्वयम् ?
धिग् धिग् विधे-र्विचारम्,
तेन कुत्र किं कारितम् ?
आनीय पीयूषोपरि निस्सारम्
गरलमेवमावर्जितम् ॥”
= = = = = =
(इति स्वभावकवि-गङ्गाधरमेहेर-प्रणीतस्य
तपस्विनी-महाकाव्यस्य
श्रीहरेकृष्णमेहेर-कृत-संस्कृतानुवादे षष्ठः सर्गः)
= = = = =
[सौजन्यम् :
स्वभावकवि-गङ्गाधरमेहेर-प्रणीता ‘ तपस्विनी ’ *
संस्कृतानुवादकः - डॉ. हरेकृष्ण-मेहेरः
प्रकाशकः - परिमल पब्लिकेशन्स्, २७/२८ शक्ति नगर, दिल्ली-११०००७, भारतम्.
प्रथम-संस्करणम् - २०१२ ख्रीष्टाब्दः]
= = = = = =
Tri-lingual Translations of Poet Gangadhara Meher’s Tapasvini Kavya
By : Dr. Harekrishna Meher
Hindi-English-Sanskrit Articles on Tapasvini Kavya :
* * * *
No comments:
Post a Comment