‘तपस्विनी’ महाकाव्यम्, सप्तम-सर्गः/डॉ.हरेकृष्ण-मेहेरः
(Sanskrit ‘Tapasvini’ Kavya, Canto- 7)
TAPASVINI
Original Oriya Epic Poem
By : Poet Gangadhara Meher (1862-1924)
Complete Sanskrit Translation By : Dr.
Harekrishna Meher
*
Published by : Parimal Publications,
27/28, Shakti Nagar, Delhi-110007,
ISBN: 978-81-7110-412-3. First Edition
2012.]
= = = = = = = = = = = = = = = = = =
Tapasvini [Canto-7]
= = = = = = = = = = = = = = = = = =
[Canto-
7 has been taken from pages 142- 170 of
my Sanskrit
‘Tapasvini’
Book.
For Introduction, please
see
: ‘ Tapasvini
Mahakavyam: Ekam Aalokanam’
= = = = = = = = =
तपस्विनी’ (महाकाव्यम्)
ओड़िआ-मूल-रचना * स्वभावकवि-गंगाधरमेहेरः (१८६२-१९२४)
सम्पूर्ण-संस्कृतानुवादः * डॉ. हरेकृष्ण-मेहेरः
= = = = = = = = = = = = = = = =
सप्तमः सर्गः
= = = = = = = = = = = = = = = =
सत्या व्यक्तमकारि,
“अयि प्रिय-सहचरि !
दुःखजातं मे निश्चितम्
मम दुर्विपाकेनैव सङ्घटितम् ।
विधि-र्न दोषभाजनं स्यात्
मत्कर्मणां कृते ।
वल्लभो मे खलु स्वभावात्
करुणा-निधानं विद्यते ॥
प्रियतम-विश्लिष्टतया
धारयितुं शक्यते जीवितम्,
ईदृशं मनसा मया
मुहूर्त्तमपि न भावितम् ॥
सखि ! दुःखं दुर्विषहम्
दारुणं सोढ़वती समस्तमहम्,
प्रियतम-स्वामिनः श्रीमुख-दर्शनम्
करिष्यामीति कामनया नूनम् ॥
आशा तदा मुमूर्षां मे हरति
श्रुति-विवरयोः सान्त्वना-मन्त्रो भूत्वा ।
सैवाशा स्वत एव मृता सम्प्रति,
ममासवो दह्यन्ते तां स्मृत्वा ॥”
सखी तापसी तदाब्रवीत्,
“ मया नावगतं किञ्चित्
।
कीदृशी तदासीदाशा, सति !
मृताऽभवत् सा कथम् ।
पतिप्राणा साध्वी त्वादृशीत्थम्
लब्ध-दारुण-वेदना
कदाचिद् विधिं न निन्दति,
विचित्रैषा घटना ॥
अवादि सत्या सीतया,
“ सखि ! समवगमिष्यसि
समस्तम्
निशम्य मदीयं दुःख-वृत्तम् ।
तदा यादृशमामन्त्रिता
दारुणा यातना मया,
यादृशं ममाशा मृता संवृत्ता ॥
एकेद्युः पञ्चवट्यां पर्णशालां निकषा
हेम-हरिणः कश्चन सहर्षमक्रीड़त् सहसा ।
तस्य मसृणं सुभगं
चित्रितं कलेवरम्,
सम्प्राप्त-तपन-रश्मि-संसर्गं
व्यराजत समुज्ज्वलं भास्वरम् ॥
चित्र-बिन्दु-सन्दोहस्य कान्ति-तती
तत्र काञ्चन-विग्रहे सञ्चरन्ती
समानयद् रत्न-भ्रमम्
मन्नयन-युगले मनोरमम् ॥
तज्जातीय-मृगवरः
कदापि नासीद् मे दृग्गोचरः,
नरेश्वर-भवने
नगरेऽथवा कानने ॥
चिन्तितं मया हृदये,
‘ नगर-प्रत्यावर्त्तन-समये
कुरङ्गमिमं मनोरमम्
नेष्यामि मया समम् ।
विधास्यामि विस्मयं जनानाम्
नगर-सन्निवासिनाम्,
सार्धं तेन विरच्य वर्णनाम्
कानन-श्रीराशीनाम् ॥’
आहारः प्रदर्शितः
कर्त्तुं तं कुरङ्गं करगतं मया ।
परं ससम्भ्रम-चित्तः
स नायाति स्म मां समया ॥
प्रलोभयन् स्वान्तम्,
रञ्जयन् मे नयन-युगलं
कृत्वा भृशं जवं चञ्चलं
प्राविशत् कानन-प्रदेशान्तम् ॥
विलोक्य तस्य कृते मां
व्यस्त-मानसां प्रियतमां
प्राणप्रियेण मे सप्रणयम,
अभाणि तदा गिरेयम्,
‘ कान्ते ! आन्तरिकं
ते कौतूहलं
विधास्यामि सफलं
रंहसा तं हरिणम्
समानीय मानस-हारिणम् ॥’
धृत्वा कार्मुकं सायक-सङ्गम्
द्रुत-गत्या तं कुरङ्गम्
अनुधाव्य तत्परः
चलितवान् रघुवरः ।
तीव्र-जवेन ततः
कुरङ्गानुसारी मे प्रियकान्तः
अभवद् दूरमन्तर्हितः
मम दृक्-सीमातः ॥
बभूव काननाभ्यन्तरम्
‘त्राहि लक्ष्मण’ इति वचः श्रुतिगोचरम् ।
तदाह्वानेन मम स्वान्तम्
सञ्जातं विचलितमत्यन्तम् ॥
तत्र स्वान्त-सहितं
मम कर्णद्वयमददाम् ।
वचनं पुनः समुत्थितं
‘लक्ष्मण ! त्राहि
माम्’ ॥
आसीत् समीपे मम देवरः
लक्ष्मणो वीरवरः ।
अकथयं विचलिता तम्,
‘पश्य वत्स ! सङ्कटं
समायातम् ।’
सान्त्वयितुं स्वान्तं मे सोऽब्रवीत्,
‘देवि ! न भवत्येषा
कदापि राघवी भाषा,
न भेतव्यं किञ्चित् ॥’
सखि ! समवगच्छन्ति सर्वम्
वीरा एव वीराणां स्वभावम् ।
अपश्यं वीरं लक्ष्मणम्
तत्र गम्भीरं धीर-लक्षणम् ॥
भवति खलु नारी-हृदयं
दुर्बलमत्यन्तं प्रकृत्या ।
अभवं व्याकुला सातिशयं
लक्ष्मण-भणितया भारत्या ॥
प्रयुज्य विनयानन्तरं
कटु-वचन-निचयं तत्क्षणम्
अन्तिकं कान्तस्याहं सत्वरं
सम्प्रेषितवती लक्ष्मणम् ।
मम सुख-सौभाग्य-वैभवम्
तस्य प्रस्थान-स्रोतसि मग्नं गतं सर्वम् ॥
विपत्तिरितः शरीरिणी
भिक्षार्थिनी योगीन्द्र-वेश-धारिणी
द्वारे मे समुपस्थिताऽभवत् ।
अप्रतीक्ष्य पत्युः प्रत्यावर्त्तनं यावत्
भिक्षा-प्राप्ति-निमित्तं तेन पामरेण
अकारि दृढ़ो निर्बन्धो योगिवरेण ॥
प्रदत्तायां भिक्षायां मामकं
हस्तं धृत्वा बलपूर्वकं
समुपावेशयत् स मां पामरः
विमाने त्वरितं नीत्वा तत्परः ॥
कृतानि मया बहुशो विनय-वचनानि,
तदनन्तरं नाना तर्जनानि ।
परन्तु दुर्जनेन कृतः
तत्र न कर्णपातः ॥
अवेदं सम्यक् ततः,
न भवति वेशो गुणस्य सङ्केतः ।
साधु-वेशो बाह्याकारः,
आभ्यन्तरस्तु भिन्न-प्रकारः ।
जनो मनुते धर्मम्
सकल-मङ्गलप्रदं परमम् ।
यमो धर्मसंज्ञां दधाति
इति को वा जानाति ?
अचालयत् खलो दक्षिणाभिमुखं स्यन्दनम्
घन-निर्घोषैः प्रकम्पयन् व्योमायनम् ।
कृतं रोदनं स्वरैरुच्चकै-र्मया यद् यत्
व्यलीयत स्यन्दन-ध्वनि-गर्भे सर्वं तत् ॥
अपश्यम्, अधो विपिन-मयूराः
निरीक्ष्य मां तदासन् रोदन-पराः ।
आसन् यूथबद्धा ऊर्ध्वेक्षणाः
रथं प्रति दत्त-चकित-लोकना मृगगणाः ॥
एकेन विहङ्गमेन
रुद्ध-मार्गेण युद्धं कृतम् ।
परन्तु तेन पामराधमेन
छित्त्वा तत्र तत्पतत्र-युगं निपातितम् ।
तं दुर्मतिं धूर्त्तं निवर्त्तयितुं मारुतः
प्रतीप-गतिरपि समर्थो न संवृत्तः ॥
मार्गस्थाः समुत्थ-मस्तका महीधराः
रोद्धुं गगन-स्यन्दनं नाशक्नुवंस्तत्पराः ।
मर्त्त्यवासिभ्यो दातुमुदन्तं दीनेक्षणा
आसं तदाधो निरीक्षमाणा ॥
स्यन्दन-घोषे घर्घरे
प्रखर-गति-मुखरे
शब्दा मे वैफल्यं यास्यन्तीति जानन्त्या
भूषणानि निम्नं पातितानि मया ।
अभवंस्तरङ्गिण्यो मे दृग्गोचराः
निश्चला इव स्थिताः शीर्ण-कलेवराः ॥
समुन्नता बहवो महीरुहाः
पामरादाशङ्किताः सन्तः
सङ्कोचित-स्वदेहाः
अन्योन्यं निविड़माश्लिष्टवन्तः ।
अभवत् क्रमेण नीरवा
वसुन्धरा सर्वा ।
आत्मानं गोपयित्वा समस्ताः
अतिष्ठन् कुरङ्गाश्च शकुन्ताः ॥
पूर्व-पश्चिम-दक्षिणाशा-त्रयी
क्रमेणादृश्यत घन-नीलिममयी ।
क्षौणि-लक्षणं किञ्चिदपि नावलोकितं ततः,
तदभ्यन्तरं दुष्टेन स्यन्दनश्चालितः ॥
अदृश्यत पुरतो दिङ्मूलमालोक-दीप्तम्,
क्रमेण तद् वनाग्निरिति मया भावितम् ।
तत्-समीप-समीपं ततः
स्यन्दनः समागतः,
तत्र सम्प्रकाशिताः
ज्योतिःपुञ्जा अपरिमिताः ॥
मया भावितं स्वान्ते,
‘समुज्झित-गगनास्तारकाः
समस्ताः
आविर्भूता दिवसे विद्यन्ते
तत्र पङ्क्ति-विन्यस्ताः ।
विहाय विहायस-परिसरं
तुहिनदीधिति-विरहिताः
प्रबलं विरह-वैश्वानरं
हृदये ज्वालयन्ति ताः ॥
किमु मर्त्त्यलीला मे लब्धावसाना ?
प्रविशामि कृतान्त-नगरीं नीयमाना ?’
समवलोकिता मया अनेकाः
श्रेणिबद्धा अट्टालिकाः,
वर्त्तन्ते चित्ताकर्षिकाः
कनक-कलस-कलित-शीर्षकाः ॥
क्रमेण लोचन-गोचरा अभवन्
पुराट्टालिका-वीथयः ।
सुरञ्जितं सहस्रांशुना तन्नगरम् ।
स्वकीय-करैरलङ्कुर्वन्
उज्ज्वलयति तत्रादित्यः
प्रासाद-मस्तकस्थं कलस-निकरम् ॥
तदा मे मनसि विचारः समुद्भूतः,
‘योगी नूनमसौ कृतान्त-दूतः
।
प्रवेक्ष्यामि सदर्पमहं
शमन-समीपं तत्कालम्,
समुत्थाप्य दीप्तं तेजोवहं
स्वकीय-पतिभक्ति-करवालम् ॥’
नगर-प्रान्ते योगी कृत-स्यन्दनावतरणः
उद्यान-मार्गमेकं विलोक्य चलितः ।
मनोरम-मर्मरोपल-मण्डितश्चिक्कणः
आसीत् स मार्गः सुसज्जितः ।
विविध-प्रसून-फल-सम्भारैरुद्यानम्
दृश्यते स्म शोभायमानम् ॥
अशोक-द्रुमा विलोक्यन्ते
तत्र समधिकतराः
पुञ्जपुञ्ज-सुमनोभि-र्मनोहराः ।
तदुद्यान-मध्ये विद्यमानं दृश्यते
समुज्ज्वलमेकं भवनम्
नाना-रत्नराशिभिः सुदर्शनम् ॥
न्यगदद् योगी मामुद्दिश्य गिरम्,
‘त्वया तत्र स्थीयतां
सुचिरम् ।
वल्लभ-विरहो न गणनीयः स्वान्ते,
नूनमवसितानि वनवास-दुःखानि ते ।
भुङ्क्ष्व स्वर्गभुवन-सुखैश्वर्यम्
अस्य देशस्य वर्धयन्ती सौन्दर्यम् ॥
त्रिलोक-दुर्लभं यद् द्रव्यं
कामनामात्रेण सम्प्रति प्राप्स्यसि त्वम् ।
सहस्रमिताः सुकुमार्यः प्रकाश्य प्रणयं
तवोत्पल-पदतले यास्यन्ति दासीत्वम् ॥’
समाहूय रत्नराशि-भूषिताः
सहस्र-संख्याका योषिताः
समादिशत् स दृढ़मथ,
‘इमां समवगम्य
सुन्दरीं
मदीय-हृदयेश्वरीं
भक्ति-परिपूर्णान्तःकरणाः
यूयमत्र भविष्यथ
सर्वदा सेवा-परायणाः ॥
मानसानुसारमस्या भव्या
सेवा युष्माभिः कर्त्तव्या ।
मम प्रताप-गाथा-समस्तम्
तत्सविधे श्रावयिष्यथ नियतम् ।
प्रयत्नो नितान्तं विधेयः सर्वथा
रमते चित्तं तस्या मम वित्ते यथा ॥’
इत्थं कथयित्वा योगी प्रयातवान्,
परिव्याप्तो हृदये मे विस्मयो महान् ।
कः स योगी, समानयत्
कुत्र मां साम्प्रतम्,
किं नाम नगरं तत्,
मया किञ्चिदपि नावगतम् ॥
अभवं योगिनो हृदयेश्वरी कीदृशमहम् ?
वहन्ती राघव-वधू-विग्रहम्
स्वयं सम्प्रति विद्यमाना ।
न खल्वहं त्यक्त-जीवना ।
अस्ति मानसे स्मरणं मे,
कौशल्यानन्दन एव शरणं मे ॥
पुन-मम हृदये तु
दृढ़-निश्चयमकरवम्,
स योगी यः को वा भवतु
भयं मे किमस्ति लवम् ?
जीवने यावत् स्थास्यति स्मरणं मे,
कौशल्यानन्दन एव शरणं मे ॥
भवत्विदं शमन-भवनम्
अथवा स्वर्गभुवनम्,
भवन्तु वा विहार-परायणाः
अत्र वृन्दारकगणाः,
को वा पारयिष्यति हर्त्तुमन्तःकरणं मे ?
कौशल्यानन्दन एव शरणं मे ॥
दासीनां सहस्रेण किं मे प्रयोजनम् ?
किमस्ति पुनर्मे स्नानं वा भोजनम् ?
प्राणेश्वरो मे व्यतिव्यस्तः
भवेद् वनस्थले विचरण-रतः ।
केवलं तदीये पादयुग्मे
स्थास्यति सुनिश्चलं मानसं मे ॥
सुरम्य-विपञ्ची-शोभिताः
सरस्वत्यः शत-मिताः
कुर्वन्ति चेत् सङ्गीतं मत्पुरस्तात्,
तर्हि कथं वा स्यात्
मम श्रवणयोस्तस्य निमानम्
प्रियश्रीमुख-निःसृतैकपद-समानम् ?’
इत्थं मया भृशं विचिन्तयन्त्या
स्वामिनः श्रीचरणौ ध्यायन्त्या
जीवन-ज्ञानं मे परित्यक्तम् ।
कीदृशं समतिक्रान्तः कियान् समयः,
न वेदितो मया एष विषयः
केवलं पति-चिन्ता-व्यतिरिक्तम् ॥
परन्तु तस्यां राज्यभूमौ
रजनी-वासरौ
देव-समय-समौ
अभवतां मम गोचरौ ।
देवभुवनमिति तद् मया चित्ते भावितम्,
कृतं देव-साहस-भरितं जीवितम् ॥
ईश्वराय न्यवेदि मया
प्रार्थना सप्रश्रया,
समवाप्तुं देवशक्ति-सहिताम्
पतिभक्तिं देवीहृदय-समुचिताम् ॥
आशा मे न्यधायि
पति-पाद-सुधायाम् ।
पुन-र्ध्यानं न व्यधायि
पिपासायां च क्षुधायाम् ॥
नाना-तनु-प्रसाधन-द्रव्याणि
विविधानलङ्कारान्
आहारांश्चानीय बहुप्रकारान्
दासीजनास्तत्र मामनेकानि
अकथयन् मधुराणि
चाटु-भरितानि वाक्यानि ।
परन्तु नोन्मुखतां प्राप्तम्
तत्र कस्मिन्नपि मम स्वान्तम् ॥
ज्ञातं मया क्रमशः
दासीजनानां कथालापैः,
स रावणो दानवेशः
त्रैलोक्य-विजयी निज-प्रतापैः ॥
तन्नाम-श्रवणाज्जायते
हृदये त्रिदशाधिपतेराशङ्का ।
धाम तस्य विद्यते
पारावार-परिखाङ्किता लङ्का ॥
राज्ये तस्मिन् समानीतास्मि तेन
योगि-वेशेन रावणेन दुर्विनीतेन ।
नर-किन्नर-निकराणां दुरधिगमम्
तस्य भवनं नगरमनुपमं मनोरमम् ॥
बलते यस्मिंस्तस्य मानसम्
स्वर्गविबुधास्तत् साधयन्ति ससाध्वसम् ।
नेत्रयोः समागतायां
तस्य रक्तिमत्तायां
गणयति चित्ते चतुराननः
विपत्तिं भीतिमात्मनः ॥
रावण-नाम-श्रवणेन
मया समवगतं तदितः ।
माहेश्वर-शरासन-धारणेन
तस्यासीद् गर्वभारो विचूर्णितः ।
व्यचिन्तयम्, ‘अहो ! पातुं पावनं यज्ञामृतम्
श्वानेन कीदृशं साहसं कृतम् ॥’
एकेद्युः समागत्य सत्यं
स दुष्टाशयः स्वयं
समीपे मे समुपस्थितः
बृहद्भानु-प्रभान्वितः ॥
प्रयुज्य पाप-वचनानि
कथयन् विकत्थनानि
अजल्पदनेकशो रावणः
स पातकी पातकान्तःकरणः ॥
निरीक्ष्य मद्-दुःख-घनाश्रु-झरणम्
अहङ्कारान्धकारः सोऽपासरत् तत्क्षणम् ।
मदीय-तद्घनघटा-मध्ये सुप्रकटा
भीतिप्रदा प्राद्योतत तस्याशा-विद्युच्छटा ॥
सखि ! यस्माद् दिनात्
मनसि मया समवगतम्
यत् करो मे स्पृष्टो दैत्येन हा !
समुत्थिता स्पृष्ट-स्थानात्
परिव्याप्य वपुः सर्वं ज्वाला दुर्विषहा
प्राणान् मे विचालयति नियतम् ॥
मन्ये कलेवरस्य लोमावलीम्
गरल-दिग्धामिव सायक-पटलीम् ।
चिन्त्यते मया स्वान्ते,
लुब्धक-वाणाघात-क्षतापघनाः
निरीहा हरिणाङ्गनाः
कीदृशं दुःखराशिं सहन्ते ॥
स्वहृदये दुर्विषहं
विषह्य दुःख-निवहं
तत्राहं धर्म-समाश्रिता
स्थिर-मानसाऽवस्थिता ।
दृढ़ास्था केवलं ममासीत् तदा
धर्म एव बलमबला-कृते सर्वदा ॥
कदाचिदज्ञात-सारं
प्रदत्ता खलु ह्येकवारं
राक्षसाधमाय भिक्षा मया
भ्रम-वशात् प्रसारित-हस्तया ॥
स ममोपरि सम्प्रति
स्वीयं बलं यदि प्रदर्शयिष्यति,
तर्हि हनिष्यामि तं दृढ़-व्रता
उत भविष्यामि तत्करेणाहं निहता ॥
धर्मो यदि सत्यरूपो जगति,
अद्भुतं मे कर्म संसारो विलोकयिष्यति ।
पाप-कार्पासश्चेद् विशाल-शैलो यथा,
पुण्य-वह्निकणा तं दग्धुं समर्था ॥
पश्य सखि ! धर्मः सत्यरूपं दधत्
मम प्राणेषु पीयूषमिवासिञ्चत् ।
कोऽपि कपिवरः शुभ-क्षणेन
मह्यं न्यवेदयत् प्रियतमोदन्तम् ।
सार्धं रावणेन दौरात्म्त्य-प्रवणेन
व्यरचयद् द्वन्द्वमत्यन्तम् ॥
वानर-बलं नीत्वा सत्वरं
निर्माय सेतुबन्धं सिन्धु-वने,
रघुवंश-शेखरेण
विलङ्घ्य जलौघं सुदुस्तरं
समाक्रम्य लङ्कापुरीं पराक्रमेण
शङ्का न्यधायि यातुधानाधिपते-र्जीवने ॥
दुष्करो युद्धाध्वरः समारब्धः ।
रावै-र्वानर-यूथानां
वेपथुं लब्धवांल्लङ्का-देशो विक्षुब्धः ।
राक्षसानां तत्रस्थानां
आसन् ये महाबलाः
समागत्य यागबलित्वं गताः सकलाः ॥
आसीद् धर्माध्वन्येको जनः
राघव-चरणयोः शरणं प्रपन्नः ।
महासंख्ये तस्मिन् निश्चल-यूपोऽभवत्
अभय-प्रसून-माल्यं कण्ठे दधत् ॥
पूर्वमासीद् यावत्परिमितं
नयनोदकं मे विनिःसृतम्,
प्रावहत् तत्-कोटि-गुणितं
दृप्तासुराणां शोणितम् ॥
विषाद-पारावारे समुच्छले
प्लवमानो रावणस्ततः
प्रभोः सायक-कुम्भीर-कवले
न्यपतद् भीत-त्रस्तः ॥
मां समानाय्य ततः
निरीक्ष्य स्वीय-नयनाभ्यां
स्नेह-विहीनाभ्यां
प्रोवाच राघवः प्रियकान्तः,
‘नाधिकं कुसङ्गाद्
विद्यते
पातकं संसार-धाम्नि ।
कुसङ्गि-सङ्गादवाप्यते
दारुण-सन्तापः स्वान्तरात्मनि ॥
अध्यासी-र्मदनान्धस्य सन्निकृष्टं
दानवस्य पापालयम् ।
ननु भवेत् पाप-स्पृष्टं
तदा त्वदीयं हृदयम् ॥
अतः पुनर्ग्रहणं ते
न मया सम्भवति ।
त्वद्-ग्रहणे कृते
लोकापवादो भविष्यति ॥
चलत्यधो यदा बलाहक-पाथः
किं पुनस्तद् रक्षितुं वारिदः समर्थः ?
वैश्वानर-शिखा-समानं
दग्धं सद् वैश्वानरेण,
गत्वा तज्जलमूर्ध्व-स्थानं
सम्मिलत्यम्बुधरेण ॥’
तत्र मया चिन्तितम्,
‘धृतं खलु मे जीवितं
सार्थं
केवलं प्रभोरम्भोज-पद-सेवानिमित्तम् ।
प्राणनाथ-चरण-स्पर्शनार्थं
नास्ति यदि ममार्हता ,
जीवनस्य मे पुनः कावश्यकता ?
दर्शं दर्शं प्रभोः श्रीमुखं
धक्ष्याम्यहं स्वकीयं देहम् ।
विद्यते किं वा मम सुखं
ततोऽधिकं निस्सन्देहम् ?
कलेवरे भस्मीभूते
मदीयाः प्राणाः
प्रभोः शुभाङ्गे पदं लप्स्यन्ते
अवश्यं कृत-प्रयाणाः ॥
धर्म-बलाद् यदि मम
अक्षतं स्थास्यति वर्ष्म,
तर्हि लप्स्येऽहम्
द्विगुणितं प्रभु-स्नेहम् ॥’
ततो न्यगादि मया,
‘ विधीयतां ज्वलन-प्रज्वलनम्
।
करिष्यते दास्यानया
तदन्तःप्रवेशनम् ॥’
अकुण्ठाज्ञावहः कुण्ठितान्तःकरणः
प्राज्वालयदग्निं द्रागेव लक्ष्मणः ।
प्रभञ्जन-कम्पनै-र्धनञ्जय-शिखातती
चञ्चला निकामं व्योमलम्फनार्थमुत्थितवती ॥
सतृष्ण-दर्शनाहं
प्रेक्ष्य प्रभोर्वदनारविन्दम्,
हृदय-शक्त्या समुपेत्य हव्यवाहं
व्यक्तमकरवं वाक्यमिदम्,
‘हे भास्कर ! कलाकर
!
समीरण ! व्योम ! वैश्वानर !
समवगच्छथ यूयम्
मनांसि प्राणिनामसंशयम् ॥
अन्तरेण राघवम्
अन्यं प्रति मम चित्ते
यदि किञ्चिदपि प्रणयाकर्षणं स्यात्,
हे ज्वलन ! सर्वभक्षण-दक्षस्त्वम्
अस्मिन्नेव मुहूर्त्ते
मां सीतां कुरु भस्मसात् ॥
दानव-नगर्यां खलु वन्दिन्यासं तदा,
यदि तेन पातक-संश्लिष्टा कृता कदा,
तर्हि कोटिजन्म-पर्यन्तं
प्रियकान्तस्य पादपद्म-दर्शन-निमित्तं
भविष्यामि कदापि नाहं समर्था ।
हे दहन ! दह मां सर्वथा ॥
जानासि जनं न पाप्मानम्,
नापि पुण्यात्मानम् ।
प्राणान् सर्वेषां हरसि
स्वकीय-धर्म-वशात् ।
धर्मश्चेत् सत्यं चिरन्तनं विश्वोरसि,
धर्मो मे रक्षिष्यति मां लोकापवादात् ॥
वर्त्तस्व हे धर्म !
स्वगुणैः कलेवरे मम ।
निर्भीकः सन् साकं मया सत्वरम्
प्रविश वैश्वानरम् ॥
सम्भवेद् यदि जीवने न हि,
मम मरणानन्तरं तर्हि
सदयं विधास्यसि त्वम्
प्रभोः पादयुग्मे मम दासीत्वम् ॥
कृशानु-दग्धं मे शरीरकं
नूनं भविष्यति भस्मावशेष-रूपम् ।
प्रस्तुतं कारयिष्यते तदुर्वरकं
त्वया पादपानुरूपम् ।
तस्य पादपस्य काष्ठं प्रदाय
वर्धकि-कराभ्यां निर्माय
त्वया कारयिष्यते सीतेयं युग्मपादुका
प्रभु-पदसेवा-समुत्सुका ॥’
दर्शं दर्शं पावनं
प्रभोः श्रीवदनं
प्राविशं तत्रैवाहम्
निर्भय-मानसा हव्यवाहम् ॥
निभाल्याक्रन्दत् ससौमित्रो रघुपतिः,
अक्रन्ददुच्चस्वनैः सैनिक-ततिः ।
अमित-नयनेषु प्रावहत् प्रबलं लोतकम्,
मां न्यमज्जयत् तत्कारुण्योदकम् ॥
मया तत्रानलः
समन्वभावि सुशीतलः ।
अभवद् व्योममण्डलं तूर्णम्
हाहाकारैः परिपूर्णम् ॥
व्योम-वचनं ममानुकूलमायातम्,
सतीत्वं मे स्वामिना सम्यग् विज्ञातम् ।
धर्मवशाद् वैश्वानरो निर्वाणमगात्,
सुरक्षितास्तत्र मे प्राणा धर्मबलात् ॥
मम दुःखं सर्वं
तत्राभवद् भस्मसात् ।
अहं सेविकाऽभवं
प्रभु-पादयुगे सौभाग्यवशात् ॥
तदा मया भावितम्,
‘अरक्षं क्लेशान्
सहित्वा जीवितं निजम् ।
अतो मया सम्प्राप्तं निश्चितम्
स्वामिनश्चरण-सरसिजम् ॥’
समुपवेश्य स्यन्दने मामुत्तमे
सार्धमानीय वानरान् सर्वान् दानवान्
अयोध्याभिमुखं प्रभुर्मे
प्रत्यावर्त्तनं कृतवान्,
विजयोल्लासै-र्नन्दित-फुल्लमतिः
व्योम-वर्त्मन्यां रघुपतिः ॥
विरह-मरुदेश-पारमहं व्रजन्ती
नीरस-प्राणेषु प्रणय-पारावारं प्राप्तवती ।
प्राणेषु मे सुखमपूर्वं सञ्जातम्,
विश्वमिदमानन्दमयं मया प्रतिभातम् ॥
दुःख-भरितं चेत् स्वजीवनम्,
विश्वभुवने न भवति सुख-दर्शनम् ।
स्वजीवने यदि सुखं सञ्जायते,
सुखमयं सर्वं विश्वं संदृश्यते ॥
आसं स्यन्दने यस्मिन्
विपत्ति-कूप-पतिता सती,
स्यन्दने खलु तस्मिन्
सम्पत्ति-स्तूपं समारूढ़वती ॥
दर्शं दर्शं यत्
मयासीत् क्रन्दनं कृतम्,
तद् दर्शं दर्शमभवत्
ममानन्दं समेधितम् ॥
रत्न-सन्दीपितः स्यन्दनः,
तस्य वैचित्र्यमयी गतिः पुनः,
ऊर्ध्वं धाराधरः,
अधस्तात् सिन्धुः सुविस्तरः,
तटिनी-भूभृत्-पादप-प्रकराः
सर्वेऽभवन् मम नेत्रयोः प्रीत्याकराः ॥
सर्वे पूर्व-निकेतनाः
कानन-स्थल-निकराः
विहार-कुञ्ज-वितानाः
मञ्जुलाश्च भूमीधराः
धूम-जटिलाश्च मुन्याश्रमाः
स्वान्तं मे समाह्वयन्ति स्म मनोरमाः ॥
मुनि-कन्यका असज्जित-कुन्तलाः
दूरात् स्यन्दन-निःस्वनं निशामयन्त्यः
निरीक्षमाणा आसन् सविस्मयम्
ऊर्ध्व-लपनाः सकलाः,
मम मानस-परिसरे जनयन्त्यः
अतीत-सुखस्मृति-समुच्चयम् ॥
तासां पवित्र-प्रणयः
समादरः सानन्दातिशयः,
सुकुमार-मधुगिरा-सुन्दरम्
मधुरं सर्वासामधरम्,
दृष्टिश्च प्रशान्ता सरला
ममतामयी कोमला,
मम स्मृति-भूमौ समवर्षत्
सुधा-धारां सर्वमेतत् ॥
सुविकासमवाप क्रमेण
कन्यानां नाम-सकलम्
सुन्दरारविन्द-रूपेण,
दुरूह-विरह-शर्वरी-तिमिरात्यये
सुख-प्रभात-शुभोदये
मम स्वान्त-सरोवरे सुनिर्मलम् ॥
पूर्व-भावसौरभ-सम्भारस्तासां
सुकुमारीणां सर्वासां
सामोदं मम प्राणान्
तदा समुल्लासितवान् ॥
कानन-सौन्दर्य-सन्दर्शने
मानसस्य तृप्ति-प्राप्तेः प्राक्
अधावद् व्योमायने
स्यन्दनवरः पुरतो द्राक् ॥
परिहर्त्तुं निसर्ग-सौन्दर्य-सदनं
रमणीयं तत् काननं
मम मानसं नापारयत् ।
आसीत् पुनर्मानसं तत्
स्यन्दने संलग्नं गगन-मार्गे,
नगरे च न्यमज्जत् तत्र श्वश्रूपादयुगे ॥
श्यामाभिराम-कान्तिना कान्तेन सार्धं
स्थलत्रय-सुरङ्गैः क्रीडा-मुग्धं
तन्मानसं मामकम्
अर्धमण्डलाकारमभवत्,
नूतने स्तनयित्नौ यद्वत्
कमनीयं महेन्द्र-कार्मुकम् ॥
प्राणसमस्य प्रियात्मजस्य
कानन-गमनानन्तरं
मम पूज्यः श्वशुरः
अयोध्याया अधीश्वरः
अधिकाधि-मर्माहतः
निर्वाप्य प्राण-प्रदीपं निजस्य
पाकशासनं निकषा सत्वरं
नाक-लोकं गतः ॥
विलोक्य राज्यमराजकं पुरतः
अधिवनमधावद् भर्त्तृ-सन्निधिं भरतः ।
कृताञ्जलि-पुटेन सः
न्यवेदयद् वेदनार्द्र-मानसः ।
वसतिरस्माकं तस्मिन् समये
आसीच्चित्रकूट-शिलोच्चये ॥
भरतो बहुविनयवान्
तत्र राघवमनुरुद्धवान्,
यथा मे पतिः
भवेन् महीपतिः ।
पितृभक्तिं दृढ़तरां विधाय तस्मात्
स्वामी तत्र सम्मतिं नाददात् ॥
अब्रवीद् रघुवरः,
‘ तातेन खलु परित्यक्तः
स्वकीय-कलेवरः,
परन्तु तेन सत्यभङ्गो न कृतः ।
अस्मत्-पितृपालितायाः
धर्म-विहङ्गिकायाः
कीदृशं करिष्य वधम्
विवेकहीनोऽहं विधाय कण्ठ-रोधम् ?’
पतिपद-पतितेन भरतेन
न्यवेदि रोदन-रतेन,
‘भ्रातः ! कृपया
मां सततम्
स्वीकुरु तव पदसेवा-निरतम् ।
विहाय महीमंशुमति
प्रयाते चरम-पर्वतम्,
किं परित्यक्तुं पारयति
तस्य करस्तम् ?’
प्रोवाच प्रभुस्ततः ,
‘प्रदाय तमस्वत्यां
शीतल-प्रकाशम्,
कुरुते नक्षत्र-कान्तः
मेदिनी-वेदनाया विनाशम् ॥’
उत्तरं दत्तवान् भरतो विनयपरः,
‘प्रभाकर-करं लभते
निशाकरः ।
रत्नपादुका-युग्मं भवतः
गृहीत्वा मस्तको मे भविष्यति निरतः
धरित्री-धारण-समर्थः
यथा शेषो नागनाथः ।
विराजिते पादुका-मणौ मन्मौलिगते
वैरिगणो मां फणीति मंस्यते ॥’
पादुकाद्वयं समर्पितं
भरत-करयोः कान्तेन ।
स्वकीय-मस्तके स्थापितं
वीरवरेण तद् भरतेन ॥
प्रत्यावर्त्तत स वीरवरः
लोतकाप्लुत-लोचनः,
राजश्री-दुःख-हरणाय तत्परः
तत्र न्ययोजयत् स मानसमात्मनः ॥
चतुर्दश-वर्षात्यये
आसीत् स प्रतीक्षितायनः,
निलये तत्र समये
समुपस्थितः स्यन्दनः ।
तत्र रथवरादवतीर्णया
श्वश्रूजन-पदरजांसि गृहीतानि मया ॥
अवलोक्य सावरजं सपत्नीकम्
स्वामिनं मामकं निजान्तिकम्
अभवद् भ्राता भरतः
आनन्द-नद-मग्न-चित्तः ।
प्रभुपादयोः पादुका-प्रत्यर्पणात् परम्
आतपत्र-चामरैस्तं समर्चयामास सादरम् ॥
व्यराजत राजा मे दयितः,
अहमभवं राज्ञी स्वयम् ।
विज्ञाय नियतं स्वामि-चेतः
असेवे तदीयं पादद्वयम् ॥
मानसे मे यद् यत्
वाञ्छितं समुदितम्,
अचिरं सर्वं तत् तत्
भवति स्म सुसम्पादितम् ॥
प्रीति-तरणी-समासीनौ राजदम्पती
सुख-पारावारे विहरावः स्म तृप्तमती ।
बहवो वत्सरा मज्जिताः सकौतुकमावाभ्याम्
सम्पत्ति-कल्लोलेषु लीलापराभ्याम् ॥
ज्ञातमासीद् वा केन ?
ललाटे मे लिखितास्ति विधिना
दुःख-लिपी सीमाहीना ।
सहसा जातेन भयानकेन
बाड़व-वैश्वानरेण
सर्वं भस्मीभविष्यति नचिरेण ॥
वासर-शोभावसाय-रञ्जित-व्योमवत्
भाग्यावसाने मम गर्भोदयोऽभवत् ।
मदीय-दोहद-पूरणाय प्राण-दयितः
समधिक-स्नेहेन तत्परः संवृत्तः ॥
एकेद्यु-र्न्यवेदयं प्रियवराय,
‘कानन-बान्धव्या
सार्धं प्राणपते !
कानन-परिसर-विहाराय
मानसं मे बलते ।’
अनायात-प्रभातायां
तस्यामेव तमस्वत्यां
प्राहिणोत् प्राणेश्वरो दयिताम्
मां लक्ष्मण-सहिताम् ॥
भागीरथी-तीरे मां समानीय
नौकाया अवतीर्य
लक्ष्मणो यत्
धीरमकथयत् ..."”
इत्याख्याय रुद्धकण्ठा सञ्जाता सती,
रुरोद पुरतो दारुणं क्लेशं पश्यन्ती ॥
निरर्गलाश्रु-धारायां सवेदना
तदाभवत् प्लवमाना ।
तामधारयत् तापसकन्या रभसा,
रुरोद स्वयं वदने वदनं संयोज्य सा ।
समाकर्ण्य तद् रोदनमपराः
तापस्यस्तत्र प्राद्रवन् सत्वराः ॥
नीत्वा द्वे तूर्णमासाद्य पर्णनिकेतम्
अवदन् नानाकथनं प्रियम्
स्वान्तेविनोदन-समेतम् ।
तरुतोयदान-प्रसूनचयनादिकम्
कृत्वा कथालापमनेकम्
समवापुः स्वस्व-शय्याश्रयम् ॥
= = = = = =
(इति स्वभावकवि-गङ्गाधरमेहेर-प्रणीतस्य
तपस्विनी-महाकाव्यस्य
श्रीहरेकृष्णमेहेर-कृत-संस्कृतानुवादे सप्तमः सर्गः)
= = = = =
[सौजन्यम् :
स्वभावकवि-गङ्गाधरमेहेर-प्रणीता ‘ तपस्विनी ’ *
संस्कृतानुवादकः - डॉ. हरेकृष्ण-मेहेरः
प्रकाशकः - परिमल पब्लिकेशन्स्, २७/२८ शक्ति नगर, दिल्ली-११०००७, भारतम्.
प्रथम-संस्करणम् - २०१२ ख्रीष्टाब्दः]
= = = = =
=
Tri-lingual Translations of Poet Gangadhara Meher’s Tapasvini Kavya
By : Dr. Harekrishna Meher
Hindi-English-Sanskrit Articles on Tapasvini Kavya :
* * * *
No comments:
Post a Comment