‘तपस्विनी’ महाकाव्यम्, अष्टम-सर्गः/डॉ.हरेकृष्ण-मेहेरः
(Sanskrit ‘Tapasvini’ Kavya, Canto- 8)
TAPASVINI
Original Oriya Epic Poem
By : Poet Gangadhara Meher
(1862-1924)
Complete Sanskrit Translation By : Dr. Harekrishna Meher
*
Published by : Parimal Publications, 27/28, Shakti Nagar,
Delhi-110007,
ISBN: 978-81-7110-412-3. First
Edition 2012.]
= = = = = = = = = = = = = = = = = = = = = =
Tapasvini [Canto-8]
= = = = = = = = = = = = = = = = = = = = = =
[Canto- 8 has
been taken from pages 171- 187 of my Sanskrit
‘Tapasvini’ Book.
For Introduction, please see : ‘Tapasvini
Mahakavyam: Ekam Aalokanam’
= = = = = = = = =
तपस्विनी (महाकाव्यम्)
ओड़िआ-मूल-रचना * स्वभावकवि-गंगाधरमेहेरः (१८६२-१९२४)
सम्पूर्ण-संस्कृतानुवादः * डॉ. हरेकृष्ण-मेहेरः
= = = = =
= = = = = = = =
अष्टमः सर्गः
= = = = =
= = = = = = = =
वर्धते यथा यौवनं जीवने,
मधुमासः समेधितः सन् ग्रीष्मोऽभवत् कानने ।
तरुण-प्रतापो यथा भवति प्रखरः
आतपः क्रमशः संवृत्तः प्रचण्डतरः ।
सञ्चारितवान् रुचिरां मरीचिकाम्
सुख-विषय-भोगो यथा तृष्णिकाम् ॥
परिहृत-शाल्मली-पादपावासः
ऊर्ध्वमुड्डीय प्रयातः कार्पासः ।
कृपणस्य द्रविण-राशिः समयानुसारम्
उड्डीय चलति त्यक्त्वा गुप्त-भाण्डागारम् ॥
पलाश-तनौ नास्ति प्राक्तनो रङ्गो मधुरः,
तथैव संसार-प्रसङ्गः क्षण-भङ्गुरः ।
तापेन मल्ली प्रचुरं विकासमगात्,
समधिकं विच्छुरितः सुगन्धस्तदङ्गात् ।
भवत्यविचलं तापेन साधु-हृदयम्,
शान्तिः प्रसरति यशश्चातिशयम् ॥
निरैक्षत मल्लीं कुटजो मोद-प्रसन्नः,
सज्जनं समवाप्य रमते खलु सज्जनः ।
विचारितमेकेन हृदयेन ताभ्याम्,
‘ग्रीष्म-समये
नियतमावाभ्याम्
सुवासः प्रसारयिष्यते ।
प्रावृट्-काले समागते लब्धजला
वसुन्धरा भविष्यति शीतला ।
जीवजन्तुभिः सर्वैः शान्तिरवाप्स्यते ॥
नास्ति खलु कार्पण्यं भरित-सौरभयोः
केतकी-कदम्बयोरुभयोः ।
तर्पणं विधास्यतः
तौ युगलौ जगतः ।
लोकरञ्जन-दायित्वं ताभ्यां समर्प्य तत्
हासं हासं त्यक्ष्यावो वृक्ष-जगत् ॥’
उद्दण्डा राजीविनी समुत्थाप्य शीर्षम्
समर्थित-तद्वचना प्रोवाच सहर्षम्,
“ निवसन्ती युवाभ्यां
साकं नूनम्
कालाब्धि-तुङ्गोर्मिषु पातयिष्यामि स्वात्मानम् ॥”
मल्ली तदाऽकथयत्,
“ कथं त्वया कर्त्तुं
शक्ष्यते तत् ?
न त्यक्ष्यति त्वां प्रेमाकरः
कान्तस्तावको दिवाकरः ॥”
अब्रवीदब्जिनी, “ बलाहक-समाच्छादितः
नालोकयिष्यति ममास्यं दयितः ।
विपत्सु कतिपय-दिवसान् यापयन्त्या
व्रतमुद्यापयिष्यते सांसारिकं मया ॥
मदीयः प्रियतमः
स्तनयित्नु-पटलं भेत्तुमक्षमः ।
लोक-कल्याण-साधनाय केवलम्
विषहते स क्लेश-सकलम् ॥
प्रियतमस्य प्रेमानुरागो भव्यः
अधिक-दिवसानि यावत्
कथं वा मया भोक्तव्यः ?
नास्ति मे सौभाग्यं तत् ॥
स्मरिष्यते मया कान्तस्याङ्घ्रि-युगलम्,
वृत्वा मां मृत्यु-र्नेष्यति चपलम् ।
जननेऽस्मिन् कतिपय-दिनानि
दुःखजातं मया चेत् सह्यते,
तर्हि परस्मिन् जन्मनि
शुभास्यं वल्लभस्य विलोकयिष्यते ॥”
प्राविशद् वचनमिदं सरोजिन्याः
यदा ज्ञान-श्रुतिं वैदेह-नन्दिन्याः,
विचार्य जीवनादर्शं तत्
सती तामवदत्,
“अयि कमलिनि सुव्रते
!
त्वमसि साध्वी नूनम्,
पुण्यमयमयनं
त्वया सन्दृश्यते ।
त्वदीयास्मि भगिनी मन्मतेऽहम्,
तदुपरि पुन-र्भाग्यभागिनी निस्सन्देहम् ॥
त्वत्-समया मया भुक्तं
कानने सानुरक्तं
स्वामिनः स्नेह-सकलम्,
हर्म्ये सुखं चामृतमयं निर्मलम् ।
कान्तस्ते वासर-नाथो भास्करः,
तद्वंशजः कान्तो मे महीश्वरः ॥
आख्याति भविष्यद्-गतिर्यत् स्वीया,
प्रागेव प्राप्तास्ति सा सरणि-र्मया ।
धन्यं ते हृदयम्,
सति ! धन्यासि धन्या त्वं स्वयम् ।
तव शुद्धां मतिं शोभने !
प्रदेहि मे जीवने ॥
जनापवाद-जनितव्यथ-स्वान्तेन
समुज्झितास्मि प्रियतम-कान्तेन ।
ब्रूहि त्वं निश्चयं
हे दिव्य-दर्शने पद्मिनि !
किं मामकं भाग्यं
काले जातुचिदागामिनि
स्वामि-दर्शनार्थम्
भविष्यति समर्थम् ?”
सुशीतल-कुशेशय-दलानामधस्ततः
सलिले घनश्यामल-हृदयायाः सरस्याः,
कोक-मिथुनेन मध्याह्न-समयो यापितः,
राजहंसी-सहितेन पत्या च तस्याः ॥
कारण्डव-काण्डतः
कथमपि रक्षित-जीवनः,
अम्बुज-वने सजवं कृत-लम्ब-लम्फनः
छत्र-विशाल-पत्र-वने पथच्युतः
अभवत् तदा चिङ्गुड़ि-नामा मीनः
परिशेषे पारणा-रूपेण वकोदरे लीनः ॥
उद्दण्ड-पुण्डरीक-पत्रोदरे पतिता
शफरी लम्फं ददाति सलिलेषु चलिता ।
कैरवी-वक्रनाले प्रागेव निषीदनात्
कण्डुकः प्लवते डुण्डुभ-भयात् ॥
सविषादमुपविश्य रसाल-विटपे
ध्वाङ्क्ष-नीड़-समीपे
पर्णान्तराले परभृद् विषह्य पिपासाम्
वितरति न कर्णसुधां सरसाम् ।
निलीयते तत्र सः
चाण्डालादिव लब्ध-त्रासः ॥
चम्पा-विहङ्गमः [१]
प्रसार्य स्वीय-पुच्छम्,
न नर्त्तयति स्म
पुच्छ-मूले वर्णिल-लोमगुच्छम् ॥
लीला-दोलायित-पतत्रः
सहोदरं विलोक्यापि कुपित-वक्त्रः
न समाह्वयति समधुर-रावम्
प्रकाश्य विपक्ष-भावम् ॥
आहारः खलु तं रणे प्रवर्त्तयति,
नोचेत् कस्य भ्राता वैरीभवति ?
विशाल-शालद्रुम-शाखायां पीन-कलेवरः
समुपविष्टोऽस्ति हृष्टः स पूर्ण-जठरः ॥
मधुक-विपिने निषण्णाः
निज-भोजन-मिषेण
कृत्त-मधुक-फलाः शुक-गणाः
सूक्ष्म-पञ्जिकानुसारेण
निर्णयन्ति स्म श्लक्ष्णम्
द्विज-स्वभावाद् भावि-वर्षालक्षणम् ॥ [२]
वट-तरु-तलो राजते
सरितस्तीरे तमसायाः,
सुशीतलतां भजते
लब्ध्वासौ घन-मृदुल-पल्लवच्छायाः ।
कुटज-सुरभि-भरिते
कुटीरे पर्ण-विनिर्मिते
शान्तेरङ्घ्रि-युग्मं गतः
निदाघो मोदते यत्र निसर्गतः ॥
तत्र समुपविष्टः सन्
मुनिवरो वाल्मीकिः समुन्मीलित-ज्ञानेक्षणः
आसीद् रामायण-दर्शन-परायणः ।
कुत्रचिद् वा कतिपये तापसाः
समास्वादिताध्ययन-रसाः,
केचिद् वा वेदगान-मग्ना आसन् ॥
गुरु-गर्भ-भारालसा भूसुता
तापसी-परिवेश-परिवृता
गहन-कुञ्जे कोमल-पत्रासनस्था
सेवते शान्तिं स्थिर-दर्शना सर्वथा ॥
परिधि-युता किमु सा कलाकर-मण्डली
भजते चरमाचलं राका-प्रयाणानन्तरम्,
सत्याः पाण्डुर-गण्ड-घर्म-पटली
शिशिर-संहतिरिव, प्रालेयं नेत्र-नीरम् ॥
तापसी-वृन्द-मध्य-स्थिता
श्रीराम-रामा विदेह-दुहिता
समानीय स्वकीय-स्मृत्यां
लङ्का-राक्षसी-वृत्तिं तत्रत्यां
भावयति तापसीनां भावं स्वर्गीयम्,
राक्षसीनां दुःस्वभावं च नारकीयम् ॥
वीर-पवनपुत्रस्य स्मृतिः सुखदा
स्वमानसे समायाता यदा,
न्यवेदयद् वाय्दुवाय सत्वरं
साऽभिनन्दन-वादम् ।
तालवृन्त-व्यजन-चालनैः सादरं
प्राप्तवती सती शीतलोर्मि-प्रसादम्
॥
समागम्य समक्षमस्मिन् समये
वचनमभाषत चिन्ता-सुन्दरी विनयपूर्णम्,
“ अयि देवि ! जनाः
कतिपये
द्वारे समुपस्थिताः सन्ति सतृष्णम् ।
तावक-पावन-दर्शनाभिलाषुकाः
बहुदूरात् खलु समागतास्ते समुत्सुकाः ।
धन्या तेषां दिदृक्षा,
यया गण्यते नातप-संहतिरीदृक्षा ।
क्रियते चेत् तेषां सुन्दर-रूप-सन्दर्शनम्
हृदयं भवति प्रीतिराशि-भवनम् ॥”
अब्रवीद् देवी, “ सखि अयि !
तूर्णमानय तान् सर्वान् ।
धन्यं मे भागधेयम्, यतोऽस्ति मयि
समादरस्तेषामेतावान् ।
सम्प्राप्य तेषां दर्शनं
मदीयं लोचन-युगलम्
विनाशयिष्यति नूनम्
पाप-ताप-सकलम् ॥”
देव्यादेशात् समुपेत्य कोऽपि प्रथमं
स्मितं सुकुमारं वितन्वन् मनोरमं
सुचिर-परिचित-मित्रवत्
प्रीति-वाक्येषु पीयूषं सिञ्चन्नवदत्,
“ देवि ! प्राक्तनी
कथा या,
किमस्ति ते स्मृतौ ?
निवासे मदीये त्वया
आस्तां चरणौ विन्यस्तौ ।
भाति ते शुभाङ्ग-ज्योतिर्भि-र्ममापघनः
एतद्-दिव्यप्रभा-वैभव-सम्पन्नः ॥
तत्-प्रभाव्याजेन प्रहर्ष-जर्जर-कलेवराः
प्रस्रवन्ति मम निर्झरा झर्झर-स्वराः ।
निन्दन्ति नन्दन-वनं प्रसूनानि
हास्यं सम्प्रकाश्य प्रफुल्ल-लपनानि ॥
भूत्वा चिर-सुरभितमनाविलं
कल्लोलिनी-सलिलं
समुल्लासयति जनान्
कूल-निवासिनः सर्वान् ।
बर्हिणास्ते प्रीति-पोषिताः प्रतिघस्रम्
समुच्चैर्गायन्ति गुणमजस्रम् ॥
त्वद्दर्शनार्थं निश्चलाशा-पोषकाः
समागत्य वारंवारं बलाहकाः
भ्रामं भ्रामं प्रतिकन्दरमन्विष्यन्ति
वर्त्तते कुत्र सुन्दरी सीतेति ॥
मां ते पृच्छन्ति
मन्द्र-गम्भीर-स्वरेण,
प्रत्ययं न गच्छन्ति
नास्तीति प्रत्युत्तरेण ।
धृत-विद्युद्-वर्त्तिकास्ते पुनरन्विष्यन्ति
नूनमास्ते सुन्दरी सीतेति ॥
देवि ! प्रत्यभिजानासि किमद्य
इमं हत-भागधेयम् ?
बहु-दिवसानन्तरं
समागतोऽस्ति जनस्त्वत्समीपेऽयम् ।
तव चरण-रेणुभिः सादरं
स्वकीय-मुकुटालङ्करणं सम्पाद्य
अस्म्यहं सौभाग्यं प्राप्तवान्
चित्रकूटः सानुमान् ॥”
तदनु समायाता भव्या
काऽपि सुरङ्गिणी नव्या
विमल-समुज्ज्वल-कान्तिधरा
रमणीय-कलेवरा,
प्रखरातप-ताप-दर्पदारिणी
विपिन-सुन्दर्याः सुचिर-सहचारिणी,
गिरिमल्लिका-माला-मण्डित-कण्ठाऽभिरामा
ललाट-खचित-मधुक-मञ्जु-ललामा,
जम्बु-नीलरत्न-कर्णाभरणा
शुक्तिपङ्क्ति-रचित-कटि-भूषणा ,
वन-सन्निवासिनां मुनीनां मानस-मोहिनी
रम्य-कुटिल-नीलवेणी-विलासिनी ॥
सुप्रसन्न-लपना सा ततः
मृदुल-कल-वचनैः
सीतायाः सत्याः पुरतः
न्यवेदयत् सुमधुरं शनैः ॥
“अयि सुशीले
! कृपया
कृतज्ञता मे स्वीक्रियतां त्वया ।
त्वत्स्नेह-ऋणैरहं सुचिराधमर्णा
भविष्यामि वा कीदृशमनृणा ?
सामर्थ्यं नास्ति मे, सति ! कृतार्थय माम्
स्वीकृत्य मे भक्तिमिमाम् ॥
जना मादृशा जगति
न विद्यन्ते वा कति ?
सम्प्राप्ता केन कुत्र वा त्वदीया
एतावती सुदया ?
समवाप्य शुभं दृष्टिपातं ते
मम वालुका-व्राता विद्यन्ते
परिणताः सुवर्ण-रेणु-रूपेण । [३]
यतो रञ्जितं क्रीडा-क्रमेण
त्वदीयं दिव्य-नयनद्वयं पुरः
अकारि त्वया हीरक-क्षेत्रं मदुरः ॥ [४]
सत्यां नगाधिराज-सुतायां
श्रीविष्णुपद्यां विराजितायां
त्वत्-प्रदत्तोपाधिना
विदितास्म्यहं ‘महानदी’-नाम्ना ॥”
समागता गोदावरी विशद-गात्रा
विषादच्छाया-व्याप्त-वक्त्रा
पर्याकुला लोतकं पातयन्ती भृशम्,
मुहुर्मार्जयन्ती वस्त्राञ्चलैः कञ्ज-दृशम् ॥
सार्द्धमात्मना समानीतवती
आसीत् सा रञ्जयन्ती
समुज्ज्वल-वर्णै-र्विचित्राणि
नानाविधानि चित्राणि ।
अह्नाय सत्यनुमतिं प्राप्य तया
प्रादर्शि प्रतिस्तरं समुन्मोचयन्त्या ॥
कुत्रचिदधश्च्युता व्रतत्याः
सून-पुञ्जाः सञ्जायन्ते
मार्तण्ड-चण्डकिरणै-र्विवर्णाः ।
शुष्क-पर्णशय्यासु विद्यन्ते
धृत-म्लान-वेशास्तत्रत्याः
तेजोवर्जितास्तरु-गणाः ॥
शाखा कस्यचिदङ्घ्रिपस्य विभग्ना
तस्याङ्गं विहातुं सामर्थ्यहीना ।
याचते शरणं निजम्
तत्रत्यं तृण-व्रजम्,
कस्यचिद् मस्तकं चुम्बन्ती
कस्यचित् पादौ वा दधती ॥
पतत्रि-पुरीष-पूरितैः पत्रैः
कस्यचित् कलेवरं धवलीक्रियते ।
वक्त्रमाच्छाद्य लूताजाल-म्लान-वस्त्रैः
केनचित् स्वोल्लासो विनाशितो दृश्यते ॥
बक-विक्रमं समवलोक्य
मुहुःप्लवनात् क्लान्तिं लभन्ते दर्दुर-गणाः ।
प्रस्तर-तलेषु केचिदात्मानं संगोप्य
तोषयन्ति स्वोदरं निश्चलं निषण्णाः ॥
कुत्रचिद् वन्य-कासराः सरोवर-सलिलम्
कुर्वन्ति पङ्क्ति-बद्धाः पङ्किलम् ।
लुलाप-पादै-र्विक्षिप्यन्ते क्षिप्रमुत्पलानि
कर्दमैः प्रविलिप्तानि ॥
आहारमाहर्त्तुं क्वचिदयत्नं
सन्निकटे जलस्य
तिष्ठत्यजगरः काष्ठतुल्यो लुठितः ।
तदन्तिके निरीक्ष्य मार्गं मृगदलस्य
शार्दूलः कुरुतेऽधिवनं
स्वकीय-सृक्कणी-लेहनं लुक्कायितः ॥
व्यलोकि सत्या पुनः
प्रबलो दाव-हुताशनः ।
धूम-ध्वान्तेन प्रपूर्य काननम्
प्रचण्ड-वह्नि-शिखाः
अन्तरीक्षे लीयन्ते सलम्फनम्
खण्ड-खण्डमसंख्य-शाखाः ॥
ज्वलित-पत्राणि व्योम्नि समुत्थाय
प्रयान्ति समारुह्य धूम-वाहनमह्नाय ।
दूर-द्रुमेषु समुपविश्य निवेद्योदन्तम्
ततो दह्यन्ते तापैरत्यन्तम् ॥
पत्राणि कतिचिदूर्ध्व-मार्गे
मालिन्यं प्राप्य लीयन्ते व्योमभागे ।
उड्डीय पलायन्ते वियति
कतिचिद् विहङ्गमाः ।
कतिचिद् वा निपतन्ति
वैश्वानर-गर्भे ससम्भ्रमाः ॥
दलबद्धा हरिणा महिषाः करि-निकराः
शृगाला भल्लुकाः शशकाश्च शूकराः
धूमराशि-मग्ना अग्निं निरीक्षमाणाः
वर्त्तन्ते कान्दिशीकाः पर्याकुल-प्राणाः ॥
पलायन्ते त्रस्त-चकितान्तःकरणाः
द्रुमाद् द्रुमं कृत-लम्फना वानरगणाः ।
स्वकीय-शावकान् कक्षे पृष्ठे वा वहन्तः
केचित् स्रोतस्वतीमभिलक्ष्य धावन्ति धूमान्तः ।
तटिनी-सैकत-रयात् तीर-पर्यन्तम्
पूरितं विह्वलतया जन्तुभिरत्यन्तम् ॥
न्यगादि गोदावर्या,
“ वत्से ! ननु
व्यलोकि त्वया
दुरवस्था दण्डकायाः
त्वत्प्र्रस्थानात् परं विपर्यस्तायाः ?”
पर-सन्ताप-तप्ता सती
मैथिली सव्यथं व्यक्तवती,
“ हा ! हा ! दण्डके
! मे
मम केलि-भूमे !
धन्याहं भवेयम्,
विधीयते विधिना यदि
शान्तिस्ते सपदि
नीत्वा मदीय-नेत्र-तोयम् ॥”
समागत्य सत्याः पुरतस्तत्परम्
राजलक्ष्मी-लिखितं पत्रम्
पठितुमारब्धवती अयोध्या तदा
व्यथाविकृत-स्वरै-र्विषाद-गद्गदैः
प्रवेपमान-दन्तच्छदा
अत्यन्त-त्रपानत-पदैः ॥
“ सखि ! अस्मि
तमस्वती स्वयम्,
त्वमासी-र्ज्योत्स्ना ।
प्रयातवती त्वं सुदूरं
निमील्य मे विकस्वरं
नयन-कैरव-द्वयम् ।
नास्ति पुनर्मे सौख्य-लवोऽपि त्वां विना ।
धृतोऽस्ति मया वेशो योषितायाः
विभूषण-विरहितायाः ॥
अद्य राजभवनं वनं संवृत्तम्,
त्वद्-विरहस्तत्र प्रखरः
संवृत्तो दाव-वैश्वानरः ।
प्रविष्टेन तेन विनष्टं समस्तम् ।
किं वाऽवशिष्यते पुनः
सौन्दर्य-विलासः प्राक्तनः ?
दग्धाः समुल्लास-पल्लव-पूर्णाः
विशालाः साधु-हृदय-द्रुमगणाः ।
सुहास-सुरभितं कुसुम-समस्तम्
अहो ! तत्रानायासं ध्वस्ततां गतम् ॥
शान्ति-कुरङ्गीगणाः धैर्य-मातङ्ग-सङ्गताः
विषाद-धूम-कवलै-र्व्याकुल-जीवनाः
गत्वा तितिक्षा-नद्युदरे विद्यन्ते समस्ताः
आकण्ठ-निमज्जितापघनाः ॥
खल-हृदयं तु महाबलः श्वापदः,
न कोऽपि मुक्तस्तदापदः ।
असौ वै श्रीराम-हृदय-पयोधे-र्विस्तृते
अगाध-गर्भे वाड़वाग्नीभूय वर्त्तते ॥
स्वर्भानु-कवलितं यथा
कलेवरं कलाकरस्य,
त्वद्-विरहितं विद्यते तथा
आकृतिमात्रं नरेश्वरस्य ।
वर्त्तते तमःस्तोमैराच्छादितं
मणिमयं हर्म्य-सकलम्,
पाथोधरै-र्यथा समावृतं
तारकापूर्णं व्योममण्डलम् ॥
श्वश्रूगणाः सन्त्यासीना विदीर्ण-हृदयाः
यथा पुष्करिण्यः शुष्क-तोयाः ।
मणी वै सर्पिणी-प्राण-सर्वस्वम्,
ततोऽप्यधिका ताभि-र्विचार्यसे त्वम् ॥
सन्ति तत्र कपाट-रुद्धानि
प्रमद-वने द्वाराणि ।
भवेयु-र्वा कुसुमानि
कस्य लोचन-गोचराणि ?
शुष्कत्वं नीयन्ते समुत्थित-मस्तकैः
च्युत-सुमानि गन्धवणिग्भूतैर्मुस्तकैः ॥
पादप-व्रतती-वीथयः
त्वामनवरतं स्मरन्त्यः
अपरिहृत-शोकाः
सञ्जायन्ते शुष्काः ।
शुष्क-पत्रैरासनं क्रियते
मार्गे कम्रे कम्बुमर्मर-निर्मिते ॥
प्रभोर्वाचं मानयन्तो देवरगणाः
सन्ति विनत-शीर्षाः सविषादान्तःकरणाः,
यथा मन्त्रहत-वीर्या भुजङ्गमाः
यथा वा निशिताङ्कुश-शङ्किता मतङ्गमाः ॥
भगिनीनां कपोल-भागाः
करोत्पलमाश्रित्य वर्त्तन्ते सविरागाः ।
कृष्णपक्षस्य ॠक्षपतिवत् प्रतिवासरम्
कार्श्यं गच्छति तासां कलेवरम् ॥
सङ्गीत-सङ्गिन्यः स्वयं मूकत्वं गताः
अस्पृष्ट-मृदङ्ग-मुखास्तिष्ठन्ति ताः ।
म्लान-प्रसूनराजी-सम्मिताः
सन्ति तव दासीजनाः
गभीर-व्यथित-चित्ताः
कथमपि धृत-जीवनाः ॥”
तत्र पत्र-पठनमसमाप्य
अयोध्या साऽवसन्नतां वहन्ती
उपाविशदधो मलीमस-रूपवती ।
दशां तस्या विलोक्य
जनक-नन्दिनी ततः
विवशा बभूव क्षोभ-सन्तापैः स्वतः ॥
समायातः सम्प्रति दिवसावसान-समयः,
स्वस्व-स्थानं प्रत्यावृत्ता अतिथयः ।
सतीं नीत्वा सप्रणयं तापसीजनाः
अभवन् स्वस्व-प्रसङ्गेषु संलग्नाः ॥
= = = = = = =
पादटीका :
[१] चम्पा
= समरशीलः पक्षि-विशेषः ( बूल्बूल् इति लोके ) ।
[२] शुक-कर्त्तितानि मधुक-फलानि वीक्ष्य अनेके वृष्टि-निर्णयं कुर्वन्ति ।
द्विजाः = ब्राह्मणाः, पक्षिणः
।
[३] महानद्याः सिकतासु स्वर्ण-रेणवः प्राप्यन्ते । देशीयैः
जनैः ते संगृह्यन्ते ।
[४] सम्बलपुर-समीपे महानदीगर्भे हीराकुदम् इति क्षुद्रद्वीपं
(कुदं) विद्यते ।
तत्र हीरकमुपलभ्यते इति जनश्रुतिः
।
= = = = = =
(इति स्वभावकवि-गङ्गाधरमेहेर-प्रणीतस्य
तपस्विनी-महाकाव्यस्य
श्रीहरेकृष्णमेहेर-कृत-संस्कृतानुवादे अष्टमः सर्गः)
= = = = =
स्वभावकवि-गङ्गाधरमेहेर-प्रणीता ‘ तपस्विनी ’ *
संस्कृतानुवादकः - डॉ. हरेकृष्ण-मेहेरः
प्रकाशकः - परिमल पब्लिकेशन्स्, २७/२८ शक्ति नगर, दिल्ली-११०००७, भारतम्.
प्रथम-संस्करणम् - २०१२ ख्रीष्टाब्दः]
= = = = =
=
Tri-lingual Translations of Poet Gangadhara
Meher’s Tapasvini Kavya
By : Dr. Harekrishna Meher
Hindi-English-Sanskrit Articles on
Tapasvini Kavya :
* * * *
No comments:
Post a Comment