‘तपस्विनी’ महाकाव्यम्, प्राक्कथनम् / डॉ.हरेकृष्ण-मेहेरः
आधुनिक-दृष्ट्या
विश्व-वाङ्मयेषु अनुवादो भाषान्तरणम् अनुसर्जनम् वा स्थानमर्हति महत्त्वपूर्णम् । बहुविधानां
भाषासाहित्यानां परस्पर-भाव-विनिमय-निमित्तं समनुभूयते अनुवादस्य महती आवश्यकता । अनुवाद-माध्यमेनैव
साहित्यानां तुलनात्मक-विश्लेषणैः सार्धं प्रचार-प्रसारस्य परिसरो नितरां विस्तारं
लभते । अनुवादं विना विविध-भाषा-साहित्यैः सह परस्पर-परिचयावसरो लब्धुं न शक्यते ।
अनुवादो मूलभाषाया यथार्थानुगतः स्यात् । कस्याश्चित् साहित्य-कृतेः, विशेषतः कवितायाः
भाषान्तरणं न केवलमायास-साध्यम्, अपि च ज्ञान-प्रतिभयो-र्निर्णायकं भवति । अनुवादो
भवत्येका विशिष्टा कला, या सर्वैः कर्त्तुं न पार्यते । अनुवाद-कार्यमिदं बाह्यालोकनेन
सरलं प्रतीयते, वस्तुतः कार्यस्यास्य श्रमं महत्त्वं च हृदयङ्गमं कुरुते जन एवानुभवी
।
[सौजन्यम् :
(Sanskrit ‘Tapasvini’ Kavya, Foreword)
TAPASVINI
Original Oriya Epic Poem
By : Poet Gangadhara Meher (1862-1924)
Complete Sanskrit Translation By : Dr.
Harekrishna Meher
*
Published by : Parimal Publications,
27/28, Shakti Nagar, Delhi-110007,
ISBN: 978-81-7110-412-3. First Edition
2012.
= = = = =
= = = = = = = = = = = = =
Tapasvini
[Foreword]
= = = = =
= = = = = = = = = = = = =
‘Praak-Kathanam’ has been taken from pages 7- 11 of my
Sanskrit
‘Tapasvini’ Book.
For Introduction, please see : ‘Tapasvini
Mahakavyam: Ekam Aalokanam’
= = = = = = = = =
तपस्विनी (महाकाव्यम्)
ओड़िआ-मूल-रचना * स्वभावकवि-गंगाधरमेहेरः (१८६२-१९२४)
सम्पूर्ण-संस्कृतानुवादः * डॉ. हरेकृष्ण-मेहेरः
= = = = = = = = = = = = = =
प्राक्-कथनम्
= = = = = = = = = = = = = =
स्वतःस्फुरितायां
मौलिक-कविता-रचनायां प्रायो भवति नान्तरायः । परन्तु अनुवादे समीचीन-शब्द-चयनस्य यथायथ-भाव-सुरक्षणस्य
लालित्य-माधुर्यादि-संयोजनस्य च दृष्ट्या भवत्यनुवादको निर्द्दिष्ट-सीमाभ्यन्तरे निबद्धः
। मूलभावस्य आन्तरिकोद्वेलन-वशात् समयानुसारमनुवादेऽपि स्वतःस्फुरितानां पदानामभिव्यक्तौ
समायाति न कोऽपि प्रतिबन्धकः । मूलभाव-सुरक्षणेन साकमनुवादे प्रणिधेया शाब्दिक-मौलिकता
उपस्थापन-शैली च । अनुवादेषु ममानुभूतिरस्ति काचिदेतादृशी । विषयेऽस्मिन् किञ्चिन्
निवेद्यते मया ।
स्वभावकवि-गङ्गाधरमेहेर-प्रणीतस्य
ओड़िआ-कृतिरत्नस्य तपस्विनी-महाकाव्यस्य हिन्द्याङ्ग्लानुवादौ
मया कृतौ १९८३ -ईसवीय-वर्षस्य प्रथमार्धे । पश्चादेतस्य अनुवाद-द्वयस्य स्वल्प-कतिपय-स्थले
कृतमस्ति ईषत्-परिवर्त्तनम् । सम्बलपुर-विश्वविद्यालय-द्वारा मदीय-सम्पूर्ण-हिन्दी-पद्यानुवादः
पुस्तक-रूपेण प्रकाशितोऽस्ति २००० -ख्रीष्टाब्दे
। तस्मिन्नेव २०००-वर्षे अगस्त-१५-तारिकायां कवि-गङ्गाधर-मेहेर-जयन्ती-महोत्सवे ग्रन्थः
स लोकार्पितः सन् सहृदयैः पाठकैश्च लब्ध-समादरो विद्यते । मदीयः सम्पूर्ण आङ्ग्ल-पद्यानुवादः
(Tapasvini of Gangadhara Meher) आर्.एन्.भट्टाचार्य-कोलकाता-द्वारा २००९-ख्रीष्टाब्दे
पुस्तकाकारेण प्रकाशितः सन् देश-विदेशेषु प्रथितोऽस्ति
।
काव्यस्यास्य
संस्कृतानुवादं कर्त्तुं चित्ते मदीये सुप्त आसीद् दृढ़ाभिलाषः । १९९७-जानुयारी-मासे
बैङ्गलुरु-नगरे समायोजिते दशम-विश्वसंस्कृत-सम्मेलने सक्रिय-योगदानानन्तरं ममान्तरिकी
प्रवृत्तिः काव्यस्यास्य संस्कृतानुवाद-दिशायां कृतवती मामत्यन्तं समुद्वेलितम् । फलतस्तस्मिन्नेव
१९९७-वर्षे फेब्रुआरी-मार्च-मासयो-र्मध्ये मया सम्पूर्ण-संस्कृतानुवादः कृतः, परमानन्दं
च परितृप्ति-समेतं समवाप्तम् । सकलानुवादेषु भगवतः परमेश्वरस्य आशीर्वादात्मिका प्रेरणा प्रच्छन्नरूपेण दीव्यति । मम त्रिभाषानुवादानां
कतिपय-पङ्क्तयः ‘सन्टाइम्स्’ (भुवनेश्वर)- ‘सप्तर्षि‘ (सम्बलपुर-विश्वविद्यालय)- ‘कान्तारक’ (भवानीपाटना)-‘झङ्कार’ (कटक)-‘बर्त्तिका’ (याजपुर) इत्यादि-मुखपत्रपत्रिकासु प्रकाशिता आसन् ।
तपस्विनी-महाकाव्यस्य
मदीयानुवादानां सारस्वते त्रिवेणी-स्रोतसि मया स्वरुच्यनुरूपं मुक्तछन्दोधारया सह व्यवहितैरव्यवहितैश्च मित्राक्षरैरुपधा-मिलनस्य
विहितोऽस्ति प्रयोगः । अनुवाद-त्रये रचनाशैली प्रायेण समरूपा । मित्राक्षरच्छन्दःसमेतम्
अमित्राक्षरच्छन्दोऽपि मम प्रियम्; तथापि मित्राक्षरच्छन्दस्तथा अन्त्यानुप्रासं प्रति
मम विशेषाकर्षणं वर्त्तते । अतः सर्वेषु त्रिषु अनुवादेषु मित्राक्षर-प्रयोगो मामकं
सारस्वतानुराग-विशेषत्वं द्योतयति इति समनूभूयते । एषु भाषान्तरेषु अधिकतया मदीय-मौलिक-शब्दावली-माध्यमेन
काव्यस्य मूलभावाः पूर्णतया यथार्था अक्षुण्णाः सुरक्षिताश्च विद्यन्ते इति मम दृढ़ो
विश्वासः । उदाहरण-रूपेण समुद्ध्रियते चतुर्थ-सर्गस्य एका पङ्क्तिरेका त्रिभाषानूदिता,
यत्र तमसानदी-मुखेन सूचितमस्ति कवेर्जीवनदर्शनम् ।
कवि-गङ्गाधरस्य
लेखन्याम् ओड़िआ-भाषायाः साङ्गीतिकता-भरितेन मधुर-सुललितेन ‘चोखि’-रागेण विरचितं पद्यमिदम्,
‘बने बने भ्रमि भ्रमि
गण्ड कुहुके न भ्रमि
बहु बाधा अतिक्रमि
स्वच्छ जीबने,
अन्धार दुःख न गणि
आलोक सुख न मणि
चालिछि दूर सरणी
नत बदने ।
जनम करुछि सफळ,
तोय दाने तोषि तीरबासी
सकळ ॥’ (तपस्विनी ४/११)
मम आङ्ग्लानुवादे पङ्क्तिरियम्,
‘Wandering over several woods wide,
never wavering astray
by illusion of any
gorge,
surmounting many an
impediment
in my life limpid,
never deeming
darkness
as a distress,
never thinking light
to be a delight,
for a remote way
ahead I’ve
continued to forge
with my head humbly
bent.
Gratifying every
bank-dweller
with offering of
water,
fruitfulness of my birth
I’m realizing worth.’
मदीय-हिन्दी-रूपान्तरे पद्यमिदम्,
‘घूमती फिरती वन-वन में
गण्ड-कुहुक
में न उलझ,
कई बाधायें
करके पार
अपने निर्मल
जीवन में,
न दुःख
मान अन्धकार,
प्रकाश
न सुख समझ
चली हूँ
दूर रास्ते नम्र मस्तक ।
जन्म कर
रही हूँ सार्थक
नीर दान
से निरन्तर
सभी तीरवासियों
के मानस में तृप्ति भर ॥ ’
मम प्रस्तुते संस्कृतानुवादे तदित्थम्,
‘भ्रामं भ्रामं वने वने
गण्ड-कुहकेषु
न भ्रमन्त्यहं
विलङ्घ्य विविध-बाधा-निवहं
सुविमले मम जीवने,
ध्वान्तं न दुःखं
गणयन्ती
आलोकं न सुखं
भावयन्ती
दूर-मार्गमग्रे
सरामि नम्रानना निरलसम् ।
विदधामि सार्थकतां
जन्मन:
सन्तोषयन्ती नीर-दानैरात्मनः
सकल-कूल-सन्निवासिनां
मानसम् ॥’
समय एव विदधाति
समेषां बलाबलम् । सुयोगाभावात् संस्कृतानुवादस्य पुस्तक-रूपं प्रकाशनं विलम्बितं सञ्जातम्
। अत्र काव्यानुवादे कतिपयेषामल्पप्रचलितानां व्याकरण- सम्मतानां संस्कृत-शब्दानां
मया आधुनिक-प्रयोगः कृतोऽस्ति । अत्र काचित् त्रुटी चेत् परिलक्ष्यते, कृपया सूचना
प्रदेया ।
तपस्विनी स्वीय-गुणैर्गरीयसी । अस्य महाकाव्यस्य महत्त्वं
मया सानुशीलनं संक्षेपतः प्रस्तूयते ममाभिव्यक्तौ ।
‘तपस्विनी-महाकाव्यं स्वभावकविना कृतम् ।
गङ्गाधर-मेहेरेण रङ्गायितं सुवर्णकम्
॥
जानकी नायिका यत्र श्रीराम-सहधर्मिणी
।
सती-शिरोमणी साध्वी पतिव्रता तपस्विनी
॥
सर्गा एकादश ख्याताश्छन्दोरागैरलङ्कृताः ।
ग्रन्थाद्यं प्रार्थना-वस्तुनिर्देशात्मक-मङ्गलम् ॥
निर्वासनोत्तरं वृत्तं रामपत्न्याः
प्रकीर्त्तितम् ।
सीतायाश्च तपश्चर्या-विभा कवेरभीप्सिता ॥
वाणी भावमयी स्निग्धा प्रधानः करुणो
रसः ।
दर्शनीयं निसर्गस्य चित्रणं चात्र
मञ्जुलम् ॥
मौलिकोद्भावना भाति कवेरत्र स्वतन्त्रता
।
सौरभं भारतीयं च सांस्कृतिकं सुसम्भृतम्
॥
सीता-चरितमाश्रित्य विशेषेण विनिर्मितम् ।
वक्तुं हि शक्यते काव्यं सीतायनमिति स्मृतम् ॥
ओड़िआ-मूलभाषायाः कृतः संस्कृत-भाषया ।
मम काव्यानुवादोऽयं मोदयतु सतां मनः ॥’
तपस्विनी-प्रकाशन-दिशायां
मम पूज्य-दिवङ्गत-पितृमातृपादाः, वरेण्याः गुरुजनाः, विविध-पत्रिकासम्पादकाश्च मम कृते
सस्नेहं शुभाशंसिनः प्रेरणाप्रदाः आसन् विद्यन्ते च । बन्धुजनेषु च डॉ. भरतचन्द्रनाथ-महोदय-प्रमुखाः
विशेषेण ममोत्साहं समेधितवन्तः । सर्वेभ्यो
निवेद्यन्ते सप्रश्रयं ममान्तरिक-धन्यवादाः कृतज्ञताश्च । हार्दिकोत्साह-प्रदानार्थं
मम धर्मपत्नी श्रीमती कुन्तलाकुमारी धन्यवादार्हा । पाण्डुलिपि-प्रस्तुति-सहायतार्थं
मम पुत्रौ सर्वेश्वर-सुरेश्वरौ धन्यवादाशीर्वादानर्हतः ।
तपस्विनी-काव्यं
प्रति विशेष-श्रद्धानुरागिभ्यः पुस्तकस्यास्य प्रकाशकेभ्यो नवदिल्ली -स्थितायाः सुप्रसिद्धायाः
‘परिमल पब्लिकेशन्स्’ इति संस्थायाः मुख्याधिकारिभ्यः श्रीयुक्त-परिमल-जोशी-महोदयेभ्यो
ममाशेषान् हार्दान् धन्यवादान् साभारं ज्ञापयामि । संस्कृतानूदितं काव्यमिदं विदुषां मानसं मोदयिष्यतीति
सप्रत्ययमाशासे ।
विनयावनतः
हरेकृष्ण-मेहेरः
भवानीपाटना
श्रीरामनवमी, १-अप्रैल्-२०१२
= = = = = = =
स्वभावकवि-गङ्गाधरमेहेर-प्रणीता ‘ तपस्विनी ’ *
संस्कृतानुवादकः - डॉ.हरेकृष्ण-मेहेरः
प्रकाशकः - परिमल पब्लिकेशन्स्, २७/२८ शक्ति नगर, दिल्ली-११०००७, भारतम्.
प्रथम-संस्करणम् - २०१२ ख्रीष्टाब्दः]
= = = = = =
Tri-lingual Translations of Poet Gangadhara Meher’s Tapasvini Kavya
By : Dr. Harekrishna Meher
Hindi-English-Sanskrit Articles on Tapasvini Kavya :
* * * *
No comments:
Post a Comment